स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २९०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुबेरस्थानमुत्तमम् ॥
यत्र सिद्धः पुरा देवि कुबेरो धनदोऽभवत् ॥ १ ॥
ब्राह्मणश्चौररूपेण तत्र स्थानेऽवसत्पुरा ॥
स च मे भक्तियोगेन पुरा वै धनदः कृतः॥ २ ॥
॥ देव्युवाच ॥ ॥
कथं स ब्राह्मणो भूत्वा चौररूपो नराधमः ॥
तन्मे कथय देवेश धनदः स यथाऽभवत् ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
तस्मिन्नर्थे महादेवि यद्वृत्तं चौत्तमेंऽतरे ॥
कथयिष्यामि तत्सर्वं शिवमाहात्म्यसूचकम् ॥ ४ ॥
कश्चिदासीद्द्विजो देवि देवशर्मेति विश्रुतः ॥
प्रभासक्षेत्रनिलयो न्यंकुमत्यास्तटेऽवसत् ॥ ५ ॥
पुत्रक्षेत्रकलत्रादिव्यापारैकरतः सदा ॥
विहायाथ स गार्हस्थ्यं धनार्थं लोभ मोहितः ॥
प्रचचार महीमेतां सग्रामनगरांतराम् ॥ ६ ॥
भार्या तस्य विलोलाक्षी तस्य गेहाद्विनिर्गता ॥
स्वच्छंदचारिणी नित्यं नित्यं चानंगमोहिता ॥ ७ ॥
तस्यां कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ॥
दुष्टात्माऽतीव निर्मुक्तो नाम्ना दुःसह इत्यतः ॥ ८ ॥
सोऽथ कालेन महता नामकर्मप्रवर्तितः ॥
व्यसनोपहतः पापस्त्यक्तो बन्धुजनैस्तथा ॥ ९ ॥
पूजोपकरणं द्रव्यं स कस्मिंश्चिच्छिवालये ॥
बहुदोषामुखे दृष्ट्वा हर्तुकामोऽविशत्ततः॥। ॥ 7.1.290.१०॥
यावद्दीपो गतप्रायो वर्त्तिच्छेदोऽभवत्किल ॥
तावत्तेन दशा दत्ता द्रव्यान्वेषणकारणात् ॥ ११ ॥
प्रबुद्धश्चोत्थितस्तत्र देवपूजाकरो नरः ॥
कोऽयं कोयमिति प्रोच्चैर्व्याहरत्परिघायुधः ॥१२॥
स च प्राणभयान्नष्टः शूद्रजश्चापि मूढधीः ॥
विनिन्दन्नात्मनो जन्म कर्म चापि सुदुःखित॥१३॥
पुरपालैर्हतोऽवन्यां मृतः कालादभूच्च सः॥
गंधारविषये राजा ख्यातो नाम्ना सुदुर्मुखः॥१४॥
गीतवाद्यरतस्तत्र वेश्यासु निरतो भृशम्॥
प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः ॥ १५ ॥
किन्त्वर्चयन्सदैवासौ लिंगं राज्यक्रमागतम् ॥
पुष्पस्रग्धूपनैवेद्यगंधादिभिरमन्त्रवत् ॥१६ ॥
मुख्येषु च सदा काले देवतायतनेषु च ॥
दद्यात्स बहुलान्दीपान्वर्तिभिश्च समुज्ज्वलान् ॥ १७ ॥
कदाचिन्मृगयासक्तो बभ्राम स च वीर्यवान्॥
प्रभास क्षेत्रमागात्य पूर्वसंस्कारभावितः ॥ १८ ॥
परैरभिहतो युद्धे न्यंकुमत्यास्तटे शुभे ॥
शिवपूजाविधानेन विध्वस्ताशेषपातकः ॥ १९ ॥
ततो विश्रवसश्चासौ पुत्रोऽभूद्भुवि विश्रुतः ॥
यः स एव महातेजाः सर्वयज्ञाधिपो बली ॥ 7.1.290.२० ॥
कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः ॥
लिंगं प्रतिष्ठयामास न्यंकुमत्याश्च पूर्वतः ॥ २१ ॥
कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् ॥
संपूज्य च यथेशानं न्यंकुमत्यास्तटे शुभे ॥
स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम् ॥ २२ ॥
मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया तुम्बी तुंगफलावती च शतशो ब्रह्माण्डकोटिस्तथा ॥
यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो जानात्यन्यसुरेषु का च गणना सा संततं वोऽवतात् ॥ २३ ॥
नमाम्यहं देवमजं पुराणमु पेन्द्रमिन्द्रावरराजजुष्टम् ॥
शशांकसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम् ॥ २४ ॥
सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवासम् ॥
तं विस्मयाधारमनंतशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च ॥ २५ ॥
पिनाकपाशांकुशशूलहस्तं कपर्दिनं मेघसमानघोषम् ॥
सकालकण्ठं स्फटिकावभासं नमामि शंभुं भुवनैकनाथम् ॥ २६ ॥
कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ॥
प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम् ॥ २७ ॥
यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदंति संतः ॥
दूरंगमं वेद्यमनिंद्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम् ॥ २८ ॥
तेजोनिभं बालमृगांकमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ॥
कालेन्धनं कामदमस्तसंगं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ २९ ॥
अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ॥
तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् ॥
अनागतैकध्वनिरूपमाद्यं ध्यायंति यं योगविदो यतीन्द्राः ॥ 7.1.290.३० ॥
संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम् ॥ ३१ ॥
निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः ॥
विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिंत्यम् ॥ ३२ ॥
शिवं समाराध्य तमुग्रमू्र्त्तिं पपौ समुद्रं भगवानगस्त्यः ॥
लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये ॥ ३३ ॥
देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् ॥
दुःखाऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शंकरोऽसि ॥ ३४ ॥
संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्ररुद्रा विहरंति कामम् ॥
तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवंद्यं शरणं प्रपन्नः ॥३५॥
स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः ॥
ददौ च तस्मै वरदोंऽधकारिर्वरत्रयं वैश्रवणाय देवः॥
सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च ॥ ३६ ॥
यस्मादत्र त्वया सम्यङ्न्यंकुमत्यास्तटे शुभे ॥
आराधितोऽहं विधिवत्कृत्वा मूर्त्तिं महीमयीम् ॥ ३७ ॥
तस्मात्तवैव नाम्ना तत्स्थानं ख्यातं भविष्यति ॥
कुबेरनगरेत्येवं मम प्रीतिप्रदायकम् ॥ ३८॥
त्वया प्रतिष्ठितं लिंगमस्मात्स्थानाच्च पश्चिमे ॥
उमानाथस्य विधिवत्सोमनाथेति तत्स्मृतम् ॥ ३९ ॥
श्रीपंचम्यां विधानेन यस्तच्च पूजयिष्यति ॥
सप्तपुरुषावधिर्यावत्तस्य लक्ष्मीर्भविष्यति ॥ 7.1.290.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनंनाम नवत्युत्तरद्विशततमोऽध्यायः ॥२९०॥