स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुनर्न्यंकुमतीं नदीम् ॥
तत्र कृत्वा गयाश्राद्धं गोष्पदे तीर्थ उत्तमे ॥ १ ॥
ततः पश्येद्वराहं तु तस्माद्धरिगृहं व्रजेत् ॥
तत्र मातृस्तु संपूज्य स्नात्वा सागरसंगमे ॥ २ ॥
न्यंकुमत्यर्णवोपेते ततः पूर्वमनु व्रजेत् ॥
अगस्तेराश्रमं दिव्यं क्षुधाहरमितिस्मृतम् ॥ ३ ॥
यत्रेल्वलं च वातापिं संहृत्य भगवान्मुनिः ॥
मुक्त्वाऽऽपद्भ्यो ब्राह्मणांश्च तेभ्यः स्थानं ततो ददौ ॥ ४ ॥
अगस्त्याश्रममेतद्धि अगस्तिप्रियमुत्तमम् ॥
न्यंकुमत्यास्तटे रम्ये सर्वपातकनाशने ॥ ५ ॥
॥ देव्युवाच ॥ ॥
अगस्तिनेह वातापिः किमर्थमुपशामितः ॥
अत्र वै किंप्रभावश्च स दैत्यो ब्राह्मणांतकः ॥
किमर्थं चोद्गतो मन्युरगस्तेस्तु महात्मनः ॥६॥
॥ ईश्वर उवाच ॥ ॥
इल्वलो नाम दैत्येन्द्र आसीद्वै वरवर्णिनि ॥
मणिमत्यां पुरा पुर्यां वातापिस्तस्य चानुजः ॥ ७ ॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनंदनः ॥
पुत्र मे भगवन्नेकमिंद्रतुल्यं प्रयच्छतु ॥८॥
तस्मिन्स ब्राह्मणो नैच्छत्पुत्रं दातुं तथाविधम् ॥
चुक्रोध दितिजस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ९ ॥
प्रभासक्षेत्रमासाद्य स दैत्यः पापबुद्धिमान् ॥
मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात् ॥ 7.1.285.१० ॥
संस्कृत्य भोजयेत्तत्र विप्रान्स च जिघांसति ॥
समा ह्वयति तं वाचा गतं चैव ततः क्षयम् ॥ ११ ॥
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥
ततो वातापिरपि तं छागं कृत्वा सुसंस्कृतम् ॥
ब्राह्मणं भोजयित्वा तु पुनरेव समाह्वयत् ॥ १२ ॥
स तस्य पार्श्वं निर्भिद्य ब्राह्मणस्य महात्मनः ॥
वातापिः प्रहसंस्तत्र निश्चक्राम द्विजोदरात् ॥ १३ ॥
एवं स ब्राह्मणान्देवि भोजयित्वा पुनःपुनः ॥
विनिर्भिद्योदरं तेषामेवं हंति द्विजान्बहून् ॥१४॥
ततो वै ब्राह्मणाः सर्वे भयभीताः प्रदुद्रुवुः ॥
अगस्तेराश्रमं जग्मुः कथयामासुरग्रतः ॥ १५ ॥
भगवञ्छृणु नो वाक्यमस्माकं तु भयावहम् ॥
निमंत्रिताः स्म सर्वे वा इल्वलेन वयं प्रभो ॥ १६ ॥
अस्माकं मृत्युरूपं तद्भोजनं नास्ति संशयः ॥
तदस्मान्रक्ष भगवन्विषण्णागतचेतसः ॥ १७ ॥
ततः प्रभासमासाद्य यत्र तौ दैत्यपुंगवौ ॥
ब्रह्मघ्रौ पापनिरतौ ददर्श स महामुनिः ॥ १८ ॥
वातापिं संस्कृतं दृष्ट्वा मेषरूपं महासुरम् ॥
उवाच देहि मे भोज्यं बुभुक्षा मम वर्तते ॥ १९ ॥
इत्युक्तौ स्वागतं तत्र चक्राते मुनये तदा ॥
भगवन्भोजनं तुभ्यं दास्येऽहं बहुविस्तरम् ॥
कियन्मानस्तवाहारस्तावन्मानं पचाम्यहम् ॥ 7.1.285.२० ॥
॥ अगस्त्य उवाच ॥ ॥
अन्नं पचस्व दैत्येन्द्र किंचित्तृप्तिर्भविष्यति ॥
एवमस्त्विति दैत्येन्द्रः पक्वमाह महामुने ॥२१॥
आस्यतामासनमिदं भुज्यतां स्वेच्छया मुने ॥
इत्युक्तोऽघोरमंत्रं स जपन्कल्पांतकारकम् ॥
धुर्यासनमथासाद्य निषसाद महामुनिः ॥ २२ ॥
तं पर्यवेषद्दैत्येंद्र इल्वलः प्रहसन्निव ॥
शतहस्तप्रमाणेन राशिमन्नस्य सोऽकरोत् ॥ २३ ॥
ततो हष्टमनाऽगस्त्यः प्राग्रसत्कवलद्वयम् ॥
रूपं कृत्वा महत्तद्वद्यद्वत्सागरशोषणे ॥ २४ ॥
समस्तमेव तद्भोज्यं वातापिं बुभुजे ततः ॥
भुक्तवत्यसुरो ह्वानमकरोत्तस्य इल्वलः ॥ २५ ॥
ततोऽसौ दत्तवानन्नमगस्त्यस्य महात्मनः ॥
भस्मीचकार सर्वं स तदन्नं च सदानवम् ॥२६॥
इल्वलं क्रोधमुष्ट्या तु भस्मीचक्रे महामुनिः ॥
ततो हाहारवं कृत्वा सर्वे दैत्या ननंशिरे ॥ २७ ॥
ततोऽगस्त्यो महातेजा आहूय द्विजपुंगवान् ॥
तत्स्थानं च ददौ तेभ्यो दैत्य्रानां द्रव्यपूरितम्॥ २८ ॥
क्षुधा हृता ततो देवि तत्रागस्त्यस्य दानवैः ॥
तेन क्षुधा हरंनाम स्थानमासीद्विजन्मनाम् ॥ २९ ॥
तस्य पश्चिमभागे तु नातिदूरे व्यवस्थितम् ॥
गंगेश्वरमिति ख्यातं गंगया यत्प्रतिष्ठितम् ॥ 7.1.285.३० ॥
वातापिभक्षणेपूर्वमगस्त्येन महात्मना ॥
दैत्यसंभक्षणोत्पन्नसर्वपातकशुद्धये ॥
समाहूता महादेवि गंगापातकनाशिनी ॥ ३१ ॥
ततो देवि समा याता गंगा पातकनाशिनी ॥
शुद्धिं चकार तस्यर्षेस्तत्र स्थाने स्थिताऽभवत् ॥३२॥
अगस्त्यस्याऽऽश्रमे रम्ये नृणां पापभयापहे ॥
तत्र गंगेश्वरं दृष्ट्वा अभक्ष्योद्भवपातकात्॥
मुच्यते नात्र संदेहः स्नानदानजपादिना ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः॥ २८५ ॥