स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सुकन्यासर उतमम् ॥
यत्राश्विनौ निमग्नौ तौ च्यवनेन सहांबिके ॥
समानरूपो ह्यभवच्च्यवनो यत्र सोऽश्विना ॥ १ ॥
यत्र प्राप्तवती कामं सुकन्या वरवर्णिनी ॥
सरःस्नानप्रभावेन तेन कन्यासरः स्मृतम् ॥
तत्र स्नाता शुभा नारी तृतीयायां विशेषतः ॥ २ ॥
सप्तजन्मसहस्राणि गृहभंगं न चाप्नुयात् ॥
दरिद्रो विकलो दीनो नांधस्तस्या भवेत्पतिः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये सुकन्यासरोमाहात्म्यवर्णनंनाम चतुरशीत्युत्तर द्विशततमोऽध्यायः ॥ २८४ ॥