स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८१
॥ ईश्वर उवाच ॥ ॥
कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये ॥
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ १ ॥
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥
ऊचतुः समभिद्रुत्य नासत्यावश्विनावथ ॥ २ ॥
कस्य त्वमसि वामोरु किं वनेऽस्मिंश्चिकीर्षसि॥
इच्छावस्त्वां च विज्ञातुं तत्त्वमाख्याहि शोभने ॥ ३ ॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ॥
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥ ४ ॥
ततोऽश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥
कथं त्वं च विदित्वा तु पित्रा दत्ताऽऽगता वने ॥ ५ ॥
भ्राजसे गगनोद्देशे विद्युत्सौदामनी यथा ॥
न देवेष्वपि तुल्यां हि तव पश्याव भामिनि ॥ ६ ॥
सर्वाभरणसंपन्ना परमांबरधारिणी ॥
मामैवमनवद्यांगि त्यजैनमविवेकिनम् ॥ ७ ॥
कस्मादेवंविधा भूत्वा जराजर्जरितं भुवि ॥
त्वमुपास्ये हि कल्याणि कामभावबहिष्कृतम् ॥ ८ ॥
असमर्थं परित्राणे पोषणे वा शुचिस्मिते ॥
सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ ९ ॥
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥
एवमुक्ता सुकन्या सा सुरौ ताविदमब्रवीत् ॥7.1.281.१० ॥
रताऽहं च्यवने पत्यौ न चैवं परिशंकतम् ॥
तावब्रूतां पुनश्चैतामावां देवभिषग्वरौ ॥ ११ ॥
युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ॥ १२ ॥
एतेन समयेनावां शमं नय सुमध्यमे ॥
सा तयोर्वचनाद्देवि उपसंगम्य भार्गवम् ॥
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ १३ ॥
तद्वाक्यं च्यवनो भार्यामुवाचाद्रियतामिति ॥
इत्युक्ता च्यवनेनाथ सुकन्या तावुवाच वै ॥ १४ ॥
एवं देवौ भवद्भ्यां यत्प्रोक्तं तत्कियतां लघु ॥
इत्युक्तौ भिषजौ तत्र तया चैव सुकन्यया ॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ १५ ॥
ततोऽपश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥
अश्विनावपि तद्देवि ततः प्राविशतां जलम् ॥ १६ ॥
ततो मुहूर्त्तादुत्तीर्णाः सर्वे ते सरसस्ततः ॥
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ॥ १७ ॥
दिव्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ॥ १८ ॥
अस्माकमीप्सितं भद्रे यतस्त्वं वरवर्णिनी ॥
यत्र वाप्यभि कामासि तं वृणीष्व सुशोभने ॥ १९ ॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ॥
निश्चित्य मनसा बुद्ध्या देवि वव्रे पतिं स्वकम् ॥ 7.1.281.२० ॥
लब्ध्वा तु च्यवनो भार्यां वयोरूपमवस्थितः ॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ २१ ॥
यदहं रूपसंपन्नो वयसा च समन्वितः ॥
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवान्निजाम् ॥
तद्ब्रूतं वै विधास्यामि भवतोर्यदभीप्सितम् ॥ २२ ॥
॥ अश्विनावूचतुः ॥ ॥
आवां तु देवभिषजौ न च शक्रः करोति नौ ॥
सोमपानार्हतां तस्मात्कुरु नौ सोमपायिनौ ॥ २३ ॥
॥ च्यवन उवाच ॥ ॥
अहं वां यज्ञभागार्हौ करिष्ये सोमपायिनौ ॥ २४ ॥
॥ ईश्वर उवाच ॥ ॥
ततस्तौ हृष्टमनसौ नासत्यौ दिवि जग्मतुः ॥
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वर माहात्म्यवर्णनंनामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८१ ॥