स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८०

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच॥
ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम्॥
तत्रैव संस्थितं लिंगं सर्वपातकनाशनम् ॥ १ ॥
यत्र शर्यातिना दत्ता सुकन्या सा महर्षये ॥
यत्र संस्तंभितं सैन्यमानाहार्त्तमथाकरोत् ॥ २ ॥। (आनाह – जठर आध्मानम्)
एष शर्यातियज्ञस्य देशो देवि प्रकाशते ॥
प्रभासक्षेत्रमध्ये तु साक्षात्पातकनाशनः ॥ ३ ॥
साक्षात्तत्राभजत्सोममश्विभ्यां सह कौशिकः ॥
चुकोप भार्गवश्चैव महेन्द्राय महातपाः ॥ ४ ॥
संस्तंभयामास च तं वासवं च्यवनः प्रभुः ॥
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् ॥ ५ ॥ ॥
॥ देव्युवाच ॥ ॥
कथं विष्टंभितस्तेन भगवान्पाकशासनः ॥
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ ६ ॥
नासत्यौ च कथं ब्रह्मन्कृ तवान्सोमपायिनौ ॥
तत्सर्वं च यथावृत्तमाख्यातु भगवान्मम ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम नामतः ॥
स प्रभासं समासाद्य तपस्तेपे महामुनिः ॥ ८ ॥
स्थाणुभूतो महातेजा वीरस्थाने च भामिनि ॥
अतिष्ठत्सुचिरं कालमेकदेशे वरानने ॥ ९ ॥
स वल्मीकोऽभवत्तत्र लताभिरभिसंवृतः ॥
कालेन महता देवि समाकीर्णः पिपीलकैः ॥ 7.1.280.१० ॥
स तथा संवृतो धीमान्मृत्पिंड इव सर्वतः ॥
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥ ११ ॥
अथास्य यातकालस्य शर्यातिर्नाम पार्थिवः ॥
तीर्थयात्राप्रसंगेन श्रीसोमेशदिदृक्षया ॥
आजगाम महाक्षेत्रं प्रभासं पापनाशनम् ॥ १२ ॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ॥
एकैव तु सुता शुभ्रा सुकन्यानाम नामतः ॥ ॥ १३ ॥
सा सखीभिः परिवृता सर्वाभरणभूषिता ॥
चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ १४ ॥
सा चैव सुदती तत्र पश्यमाना मनोरमान् ॥
वनस्पतीन्विचिन्वंती विजहार सखीवृता ॥ १५ ॥
रूपेण वयसा चैव सुरापानमदेन च ॥
बभंज वनवृक्षाणां शाखाः परम पुष्पिताः ॥ १६ ॥
तां सखीरहितामेकामेकवस्त्रामलंकृताम् ॥
ददर्श भार्गवो धीमांश्चरंतीमिव विद्युतम् ॥ १७ ॥
तां पश्यमानो विजने स रेमे परमद्युतिः ॥
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ॥ १८ ॥
तामभाषत कल्याणीं सा चास्य न शृणोति वै ॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ॥ १९ ॥
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥
किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 7.1.280.२० ॥
अकुध्यत्स तया विद्धो नेत्रे परममन्युमान् ॥
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥ २१ ॥
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ॥
तथागतमभिभेक्ष्य पर्यतप्यत पार्थिवः ॥ २२ ॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥
केनापकृतमद्येह भार्गवस्य महात्मनः ॥
ज्ञातं वा यदि वाऽज्ञातं तदिदं ब्रूत मा चिरम्॥ २३ ॥
तत्रोचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥
सर्वोपायैर्यथाकामं भवान्समधिगच्छतु ॥ २४ ॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥ २५ ॥
आनाहार्त्तं ततो दृष्ट्वा तत्सैन्यं संमुखोदितम्॥
पितरं दुःखितं चापि सुकन्यैवमथाब्रवीत् ॥ २६ ॥
मया तातेह वल्मीके दृष्टं सर्वमभिज्वलत् ॥
उद्द्योतवदविज्ञानात्तन्मया विद्धमन्तिकात् ॥ २७ ॥
एतच्छ्रुत्वा तु शर्याति र्वल्मीकं क्षिप्रमभ्यगात्॥
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥ २८ ॥
अथावदत्स्वसैन्यार्थं प्रांजलिः स महीपतिः ॥
अज्ञानाद्बालया यत्ते कृतं तत्क्षंतुमर्हसि ॥ २९ ॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ॥
रूपौदार्यसमायुक्तां लोभमोहसमावृताम् ॥ 7.1.280.३० ॥
तामेव प्रतिगृह्याहं राजन्दुहितरं तव ॥
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥ ३१ ॥
॥ ईश्वर उवाच ॥ ॥
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्॥
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ ३२ ॥
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥
प्राप्ते प्रसादे राजा तु ससैन्यः पुरमाव्रजत् ॥ ३३ ॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितम् ॥
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ ३४ ॥
अग्नीनामतिथीनां च शुश्रूषुरनसूयया ॥
समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनामाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८० ॥