स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि च्यवनार्कमनुत्तमम् ॥
हिरण्यापूर्वभागस्थं च्यवनेन प्रतिष्ठितम्॥१॥
सर्वकामप्रदं नृणां पूजितं विधिवन्नरैः ॥
सप्तम्यां च विधानेन यः स्तोष्यति रविं नरः ॥ २ ॥
अष्टोत्तरशतैर्नाम्नां सम्यक्छ्रद्धासमन्वितः ॥
शृणु तानि महादेवि शुचिर्भूत्वा समाहितः ॥ ३ ॥
क्षणं त्वं कुरु देवेशि सर्वं वक्ष्याम्यशेषतः ॥
धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने ॥ ४ ॥
नामाष्टशतमाख्यातं तच्छृणुष्व महामते ॥
सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ॥ ५ ॥
गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः ॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥ ६ ॥
सोमो बृहस्पतिः शुक्रो बुधोंऽगारक एव च ॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः ॥ ॥ ७ ॥
ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ॥
वैद्युतो जाठरश्चाग्निरिंधनस्तेजसां पतिः ॥ ८ ॥
धर्मध्वजो वेदकर्त्ता वेदांगो वेदवाहनः ॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥ ९ ॥
कलाकाष्ठामुहूर्त्ताश्च पक्षा मासा अहर्निशाः ॥
संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः ॥ 7.1.279.१० ॥
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ॥११॥
वरुणः सागरोंशुश्च जीवन्तो जीवनोऽरिहा ॥
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ॥ १२ ॥
स्रष्टा संवर्त्तको वह्निः सर्वस्यादिकरोऽमलः ॥
अनंतः कपिलो भानुः कामदः सर्वतोमुखः ॥ १३ ॥
जयो विषादो वरदः सर्वधातुनिषेवितः ॥
समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥ १४ ॥
धन्वंतरिर्धूमकेतुरादिदेवोऽदितेः सुतः॥
द्वादशात्माऽरविंदाक्षः पिता माता पितामहः ॥१५॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देहकर्त्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः ॥
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ १५ ॥
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ॥
नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता ॥ १७ ॥
शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् ॥
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १८ ॥
एतानि कीर्तनीयस्य सूर्यस्यामिततेजसः ॥
नामानि यः पठेन्नित्यं सर्वान्कामानवाप्नुयात् ॥ १९ ॥
सुरपितृमनुजयक्षसेवितमसुरनिशाचरसिद्धवंदितम् ॥
वरकनकहुताशनप्रभं त्वमपि नम हिताय भास्करम् ॥ 7.1.279.२० ॥
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ॥
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विंदते पुमान् ॥॥ २१॥
इमं स्तवं देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः ॥
स मुच्यते शोकदवाग्निसाराल्लभेत कामान्मनसा यथेप्सितान् ॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनादित्यमाहात्म्यसूर्याष्टोत्तरशतनाम माहात्म्यवर्णनंनामैकोनाशीत्युत्तरद्विशततमोऽध्यायः॥ २७९॥