स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ईश्वर उवाच॥॥
ततो गच्छेन्महादेवि शूलस्थानमिति श्रुतम्॥
देविकायास्तटे रम्ये भास्करं वारितस्करम् ॥ १ ॥
यत्रातपत्तपो घोरं वाल्मीकिर्मुनिपुंगवः ॥
वाल्मीकिनामा विप्रर्षिर्यत्र सिद्धो महामुनिः ॥ २ ॥
यत्र सप्तर्षयो मुष्टास्तेनैव मुनिना प्रिये ॥
तस्यैव पश्चिमे भागे मरीचिप्रमुखा द्विजाः ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कथं तु सिद्धो वाल्मीकिः कथं चौर्येऽकरोन्मनः ॥
कथं सप्तर्षयो मुष्टा एतन्मे वद शंकर ॥ ४ ॥
॥ ईश्वर उवाच॥ ॥
आसीत्पूर्वं द्विजो देवि नाम्ना ख्यातः शमीमुखः ॥
गार्हस्थ्ये वर्तमानस्य तस्य पुत्रो व्यजायत ॥
वैशाख इति नाम्नाऽसौ रौद्रकर्मा व्यजायत ॥ ५ ॥
मुक्त्वैकां गुरुशुश्रूषां नान्यत्किंचिदसौ द्विजः ॥
अकरोच्छोभनं कर्म दिवाप्रभृति नित्यशः ॥ ६ ॥
अथ कालेन महता पितरौ तस्य तौ प्रिये ॥
वार्द्धक्यभावमापन्नौ भर्तव्यौ तस्य विह्वलौ ॥ ७ ॥
स नित्यं पदवीं गत्वा मुष्ट्वा लोकान्स्वशक्तितः ॥
द्रव्यमादाय पितरौ भार्यां चापि पुपोष च ॥ ८ ॥
कस्यचित्त्वथ कालस्य तेन मार्गेण गच्छतः ॥
सप्तर्षींश्च तदापश्यत्तीर्थयात्रापरायणान् ॥ ९ ॥
तान्दृष्ट्वा यष्टिमुद्यम्य भर्त्सयन्प रुषाक्षरैः ॥
वाक्यैरुवाच तान्सर्वांस्तिष्ठध्वमिति भूरिशः ॥ 7.1.278.१० ॥
अथ ते मुनयः शांताः समलोष्टाश्मकांचनाः ॥
समाः शत्रौ च मित्रे च रोषरागविवर्जिताः ॥ ११ ॥
अस्माकं दर्शनं चास्य संभाष्यमृषिभिः सह ॥
संजातं निष्फलं मा स्यादित्युवाचांगिरा वचः ॥ १२ ॥ ॥
॥ अंगिरा उवाच ॥ ॥
भोभोस्तस्कर मे वाक्यं शृणुष्वावहितः क्षणात् ॥
आत्मनस्तु हितार्थाय सत्यं चैव वदाम्यहम् ॥
तव कः पोष्यवर्गोऽस्ति तच्च सर्वं वदस्व मे ॥ १३ ॥
॥ तस्कर उवाच ॥ ॥
स्यातां मे पितरौ वृद्धौ भार्यैकाऽपत्यवर्ज्जिता ॥
एका दासी ह्यहं षष्ठो नान्यदस्त्यधिकं मुने ॥ १४ ॥
॥ अंगिरा उवाच ॥ ॥
गत्वा पृच्छस्व तान्सर्वान्पुष्टान्पापार्जितैर्धनैः॥
अहं करोमि पापानि सर्वे यूयं तु भक्षकाः ॥१५॥
तत्पापं भविता कस्य कथयंत्विति मे लघु ॥
तथैव गत्वा पप्रच्छ पितरौ तावथोचतुः ॥१६॥
॥ मातापितरावूचतुः॥ ॥
एकः पापानि कुरुते फलं भुंक्ते महा जनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ॥१७॥
यः करोत्यशुभं कर्म कुटुंबार्थं तु मंदधीः॥
आत्मा न वल्लभस्तस्य नूनं पुंसः सुपापिनः ॥ १८ ॥
॥ ईश्वर उवाच ॥ ॥
तयोः स वचनं श्रुत्वा पुनर्भीतमनास्तदा ॥
तयोस्तु संनतिं कृत्वा पितरौ पुनरब्रवीत्॥ १९ ॥
युवाभ्यां हितमेवाहं यत्करोम्यशुभं क्वचित् ॥
तस्यांशं भुज्यते किंचिद्युवाभ्यां वा न वोच्यताम् ॥7.1.278.२०॥
॥ पितरावूचतुः ॥ ॥
पूर्वे वयसि पुत्र त्वमावाभ्यां पाल्य एव हि ॥
उत्तरे तु वयं पाल्याः सम्यक्पुत्र त्वया पुनः ॥ २१ ॥
इतरेतरधर्मोऽयं निर्दिष्टः पद्मयोनिना ॥
आवाभ्यां यत्कृतं कर्म युष्मदर्थं शुभाशुभम् ॥
भोक्ष्यामो वयमेवेह तत्सर्वं नात्र संशयः ॥ ।२२ ॥
अथ त्वमपि यद्वत्स प्रकरोषि शुभाशुभम् ॥
भोक्ष्यसे सकलं तद्वत्स्वयं नान्यः परत्र च ॥२३॥
अवश्यं स्वयमश्नाति कृतं कर्म शुभाशुभम्।
तस्मान्नरेण कर्तव्यं शुभं कर्म विपश्चिता ॥ २४ ॥
चौर्यं वाथ कृषिं वाथ कुसीदं वाथ पुत्रक ॥
वाणिज्यमथवा प्रेष्यं कृत्वाऽस्माकं च भोजनम् ॥
अहर्निशं त्वया देयं न दोषोऽस्मासु पुत्रक ॥ २५ ॥
ताभ्यां तद्वचनं श्रुत्वा ततो भार्यामभाषत ।
तदेव वाक्यं साऽवोचद्यत्प्रोक्तं गुरुभिः पुरा ॥
ततो वैराग्यमापन्नो वैशाखो मुनिसत्तमः ॥ २६ ॥
गर्हयन्नेवमात्मानं भूयोभूयः सुदुःखितः ॥
धिङ्मां दुष्कृतकर्माणं पापकर्मरतं सदा ॥ २७ ॥
विवेकेन परित्यक्तं सत्संगेन विवर्जितम् ॥
यः करोति नरः पापं न सेवयति पंडितान् ॥
न चात्मा वल्लभस्तस्य एतन्मे वर्तते हृदि ॥ २८ ॥
एवं विकल्पहृदयो गत्वा स ऋषिसन्निधौ ॥
उवाच श्लक्ष्णया वाचा गम्यतामिति सादरम् ॥ ॥ २९ ॥
वृसी प्रगृह्यतामेषा तथैव च कमण्डलुः ॥
वल्कलानि च चीराणि मृगचर्माण्यशेषतः ॥ 7.1.278.३० ॥
क्षम्यतामपराधो मे दीनस्य कृपणस्य च ॥
सत्संगेन वियुक्तस्य मूर्खस्य मुनिसत्तमाः ॥ ३१ ॥
अद्यप्रभृति निवृत्तः कर्मणोऽस्याहमेव च ॥
रौद्रस्य सुनृशंसस्य साधुभिर्गर्हितस्य च ॥
तस्मात्कथयतास्माकं निवृत्तिं चास्य कर्मणः॥३२॥
येन युष्मत्प्रसादेन पापान्मोक्षमहं व्रजे॥
उपवासोऽथ मन्त्रो वा नियमो वाथ संयमः॥३३॥
॥ ऋषय ऊचुः॥ ॥
साधु पृष्टं त्वया वत्स तत्त्वमेकमनाः शृणु॥
संगृह्य कीर्तयिष्यामस्त्वयाऽऽख्येयं न कस्यचित्॥३४॥
तेन जप्तेन पापत्मन्मोक्षं प्राप्स्यसि निश्चितम्॥
झाटघोटस्त्वया कीर्त्त्यो मन्त्रोऽयं चतुरक्षरः॥३५॥
सर्वपापहरो नृणां स्वर्गमोक्षफलप्रदः॥
स तदैवं हि तैः प्रोक्तो वैशाखो मुनिपुंगवैः ॥
तस्थौ जाप्यपरो नित्यं गतास्ते मुनिपुंगवाः ॥ ३६ ॥
तस्यैवं जपतो देवि देविकायास्तटे शुभे ॥
अनिशं गुरु भक्तस्य समाधिः समपद्यत ॥ ३७ ॥
क्षुत्पिपासा तदा नष्टा शुद्धिमायात्कलेवरम् ॥ ३८ ॥
मंत्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥
यादृशी भाव ना यस्य सिद्धिर्भवति तादृशी ॥ ३९ ॥
निर्मलोऽयं स्वभावेन परमात्मा यथा हितः ॥
उपाधिसंगमासाद्य विकारं स्फटिको यथा॥ 7.1.278.४० ॥
यथा च भ्रमरी वंध्या लब्ध्वा जीवमणुं क्वचित् ॥
स्वस्थाने स्थाप्य तं ध्यायेद्भ्रमरी ध्यानसंयुता ॥ ४१ ॥
स तु तद्ध्यानसंवृद्धो जीवो भवति तादृशः ॥
अन्ययोन्युद्भवो वापि तथा निदर्शनं सताम्॥४२॥
आदिष्टो गुरुणा यश्च विकल्पं यदि गच्छति॥
नासौ सिद्धिमवाप्नोति मंदभाग्यो यथा निधिम्॥ !॥ ४३ ॥
एवं वर्षसहस्राणि समतीतानि भूरिशः॥
तस्य जाप्यपरस्यैव अमृतत्वं गतस्य च ॥ ४४ ॥
ततः कालक्रमेणैव वल्मीकेन स वेष्टितः ॥
येनासौ सर्वतो व्याप्तो न च तं स बुबोध वै ॥ ४५ ॥
कस्यचित्त्वथकालस्य मुनयस्ते समागताः ॥
तं प्रदेशं तु संप्रेक्ष्य सहाय्यमितरेतरम्॥
ऊचुः परस्परं सर्वे दत्त्वा चैव करैः करम् ॥४६॥
॥ ऋषय ऊचुः ॥ ॥
अत्रासौ तस्करः प्राप्तो वैशाखो दारुणाकृतिः ॥
येन सर्वे वयं मुष्टा अस्मि न्स्थाने समागताः ॥ ४७ ॥
एवं संजल्पमानास्ते शुश्रुवुः शब्दमुत्तमम् ॥
वल्मीकमध्यतो व्यक्तं ततस्ते कौतुकान्विताः ॥ ४८ ॥
अखनंस्तत्र वल्मीकं कुशीभिः पर्वतोपमम् ॥ ४९ ॥
अथ ते ददृशुस्तत्र विशाखं मुनिसत्तमाः ॥
जपंतमसकृन्मत्रं तमेव चतुरक्षरम् ॥ 7.1.278.५० ॥
तं समाधिगतं ज्ञात्वा भेषजैर्योगसंमतैः ॥
ममर्दुः सर्वतो विप्रास्तत्र सुप्ततनौ भृशम् ॥ ५१ ॥
ततोऽब्रवीदृष्रीन्सर्वान्स्वमर्थं गृह्यतां द्विजाः ॥
युष्मदीयं गृहीतं यत्पा पेनाकृतबुद्धिना ॥ ५२ ॥
गम्यतां तीर्थयात्रायां सर्वे मुक्ता मया द्विजाः ॥
वाच्यौ मे पितरौ गत्वा तथा भार्या द्विजोत्तमाः ॥ ५३ ॥
सर्व संगपरित्यक्तो विशाखः समपद्यत ॥
दर्शनं कांक्षते नैव भवद्भिस्तु यथा पुरा ॥ ५४ ॥
॥ ऋषय ऊचुः ॥ ॥
बहुवर्षाण्यतीतानि तवात्र वसतो मुने ॥
सर्वे ते निधनं प्राप्ता ये चान्ये ते कुटुंबिनः ॥ ५५ ॥
वयं चिरात्समायाताः स्थानेऽस्मिन्मुनिसत्तमाः ॥
स त्वं सिद्धिमनुप्राप्तो मंत्रादस्मादसंशयम् ॥ ५६ ॥
यस्मात्त्वं मंत्रमेकाग्रो ध्यायन्वल्मीकमाश्रितः ॥
तस्माद्वाल्मीकिनामा त्वं भविष्यसि महीतले ॥ ५७ ॥
स्वच्छंदा भारती देवी जिह्वाग्रे ते भविष्यति ॥
कृत्वा रामायणं काव्यं ततो मोक्षं गमिष्यसि॥ ५८ ॥
विशाख उवाच ॥
गृह्यतां द्विजशार्दूलाः प्रसन्ना गुरुदक्षिणाम्॥
येनाहमनृणो भूत्वा करोमि सुमहत्तपः ॥ ५९ ॥
॥ ऋषय ऊचुः ॥ ॥
एषा नो दक्षिणा विप्र यस्त्वं सिद्धिमुपागतः ॥
सर्वकामसमृद्धात्मा कृतकृत्या वयं मुने ॥ 7.1.278.६० ॥
वरं वरय भूयस्त्वं यस्ते मनसि वर्तते ॥ ६१ ॥
॥ वाल्मीकिरुवाच ॥ ॥
भवंतो यदि तुष्टा मे यदि देयो वरो मम ॥
कथ्यतां तर्हि मे शीघ्रं को देवो ह्यत्र संस्थितः ॥
देविकायास्तटे रम्ये सर्वकामफलप्रदः ॥ ६२ ॥
॥ ऋषय ऊचुः ॥ ॥
शृणुष्वैकमना विप्र यो देवश्चात्र संस्थितः ॥
पश्य निंबमिमं विप्र बहुशाखाप्रविस्तरम् ॥ ६३ ॥
अस्य मूले स्थितः सूर्य्यः कल्पादौ ब्रह्मणोंऽशजः ॥
तमाराधय यत्तेसावस्य स्थानस्य देवता ॥ ६४ ॥
सूर्यक्षेत्रं समाख्यातमिदं गव्यूतिमात्रकम् ॥
अत्र स्थाने स्थिता येपि तेषां स्वर्गो ध्रुवं भवेत् ॥ ६५ ॥
अद्यप्रभृति विप्रेन्द्र मूलस्थानमिति श्रुतम् ॥
स्थानं सूर्यस्य विप्रेन्द्र कार्या चात्र त्वया स्थितिः ॥ ॥ ६६ ॥
अद्यप्रभृति विप्रेंद्र तीर्थमेतन्महीतले ॥
गमिष्यति परां ख्यातिं देविकातटमाश्रितम् ॥ ६७ ॥
वयं मुष्टा यतो विप्र मूलस्थाने पुरा स्थिताः ॥
मूलस्थानेति वै नाम लोके ख्यातिं गमिष्यति ॥ ६८ ॥
अत्र ये मानवा भक्त्या स्नानं सूर्यस्य संगमे ॥
उत्तरे तु करिष्यंति ते यास्यंति त्रिविष्टपम् ॥ ६९ ॥
तर्पणं तिलमिश्रेण जलेन द्विजसत्तमाः ॥
गयाश्राद्धसमा तुष्टिः पितॄणां च भविष्यति ॥ 7.1.278.७० ॥
अत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥
शाकमूलफलैर्वापि सम्यक्छ्रद्धासमन्विताः ॥ ७१ ॥
तेषां यास्यंति पितरो मोक्षं नैवात्र संशयः ॥ ७२ ।
अपि कीटपतंगा ये पक्षिणः पशवो मृगाः ॥
तृषार्ता जलसंस्पर्शाद्यास्यंति परमां गतिम् ॥ ७३ ॥
वयमेव सदात्रस्थाः श्रावणे मासि सत्तम ॥
पौर्णमास्यां भविष्यामस्तव स्नेहादसंशयम् ॥ ७४ ॥
तस्मिन्नहनि यस्तोयैः पितॄन्संतर्पयिष्यति ॥
तस्याष्टादशकुष्ठानि क्षयं यास्यंति तत्क्षणात् ॥ ७५ ॥
कपालोदुम्बराख्येंद्रमण्डलाख्यविचर्चिकाः ॥
ऋष्यचर्मैककिटिभसिध्मालसविपादिकाः ॥ ७६ ॥
दद्रुसिता रुचिस्फोटं पुण्डरीकं सकाकणम् ॥
पामा चर्मदलं चेति कुष्ठान्यष्टादशैव तु ॥ ७७ ॥
गमिष्यंति न संदेह इत्युक्त्वांतर्दधुश्च ते ॥
ऋषिः सिषेवे च रविं चक्रे रामायणं ततः ॥ ७८ ॥
तस्मात्पश्येच्च तं देवं सर्वयज्ञफलप्रदम् ॥
शृणुयाच्च कथां चैनां सर्वपातकनाशिनीम् ॥ ७९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्यमूलस्थानमाहात्म्यवर्णनंनामाष्टसप्तत्युत्तर द्विशततमोऽध्यायः ॥२७८॥