स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्प्राची देव्यास्तु संनिधौ॥
लिंगत्रयं समाख्यातं त्रिपुराणां महात्मनाम् ॥१॥
विद्युन्माली तारकाख्यः कपोलाख्यस्तथैव च ॥
तैश्च प्रतिष्ठितं लिंगं दृष्ट्वा पापैः प्रमुच्यते ॥२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिपुरलिंगत्रयमाहात्म्य वर्णनंनाम द्विसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७२॥