स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र प्राची सरस्वती ॥
तत्र स्थाने स्थितं लिंगं मंकीश्वरमिति श्रुतम् ॥ १ ॥
तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम् ॥
शृणु देवि महाभागे ह्याश्चर्यं यदभूत्पुरा ॥ २ ॥
ऋषिर्मंकणको नाम स तेपे परमं तपः ॥
प्राचीमेत्य यताहारो नित्यं स्वाध्यायतत्परः॥ ३ ॥
बहुवर्षसहस्राणि तस्यातीतानि भामिनि ॥
कस्यचित्त्वथ कालस्य विद्धादस्य वरानने ॥ ४ ॥
कराच्छाकरसो जातः कुशाग्रेणेति नः श्रुतम् ॥
स तं दृष्ट्वा महाश्चर्यं विस्मयं परमं गतः॥५॥
मेने सिद्धिं परां प्राप्तो हर्षान्नृत्यमथाकरोत् ॥
तस्मिन्संनृत्यमाने च जगत्स्थावरजंगमम् ॥ ६ ॥
अनर्त्तत वरारोहे प्रभावात्तस्य वै मुनेः ॥
ततो देवा महेंद्राद्या ब्रह्मविष्णुपुरस्सराः ॥
ऊचुस्त्रिपुरहंतारं नायं नृत्येत्तथा कुरु ॥ ७ ॥
चलिताः पर्वताः स्थानात्क्षुभितो मकरालयः ॥
धरणी खण्डशो देव वृक्षाश्च निधनं गताः ॥ ८ ॥
उत्पथाश्च महानद्यो ग्रहा उन्मार्गसंस्थिताः ॥
त्रैलोक्यं व्याकुलीभूतं यावत्प्राप्नोति संक्षयम् ॥९॥
तावन्निवारयस्वैनं नान्यः शक्तो निवारणे ॥ 7.1.270.१० ॥
स तथेति प्रतिज्ञाय गत्वा तस्य समीपतः ॥
द्विजरूपं समास्थाय तमृषिं वाक्यमब्रवीत् ॥ ११ ॥
को हर्षविषयः कस्मात्त्वयैतन्नृत्यते द्विज ॥
तस्मात्कार्यं वदाशु त्वं परं कौतूहलं द्विजः ॥ १२ ॥
॥ ऋषिरुवाच ॥ ॥
किं न पश्यसि मे ब्रह्मन्कराच्छाकर सं च्युतम्॥
अत एव हि मे नृत्यं सिद्धोऽहं नात्र संशयः ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भगवांस्त्रिपुरांतकः ॥
अंगुष्ठं ताडयामास अंगुल्यग्रेण भामिनि ॥ १४ ॥
ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम् ॥
अथाब्रवीत्प्रहस्यैनं भगवान्भूतभावनः ॥ १५ ॥
पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥
न नृत्येऽहं न मे हर्षस्तथापि मुनिसत्तम ॥ १६ ॥
तद्दृष्ट्वा सुमहाश्चर्यं विस्मयं परमं गतः ॥
अब्रवीत्प्रांजलिर्भूत्वा हर्षगद्गदया गिरा ॥ १७ ॥
नान्यं देवमहं मन्ये .त्वां मुक्त्वा वृषभध्वजम् ॥
नान्यस्य विद्यते शक्तिरीदृशी धरणीतले ॥ १८ ॥ ॥
॥ भगवानुवाच ॥ ॥
ज्ञातोऽस्मि मुनिशार्दूल त्वया वेदविदां वर ॥
वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम् ॥ १९ ॥
॥ ऋषिरुवाच ॥ ॥
प्रसादाद्देवदेवस्य नृत्येन महता विभो ॥
यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम् ॥ 7.1.270.२० ॥
॥ शंभुरुवाच ॥ ॥
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ॥
प्राचीमन्विह वत्स्यामि त्वया सार्द्धमहं सदा ॥ २१ ॥
सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः ॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ॥ २२ ॥
प्राचीने ह्यृषिशार्दूल न चेहागच्छते पुनः ॥
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥ २३ ॥
नियमैश्चोप वासैश्च शोषयन्देहमात्मनः॥
जलाहारा वायुभक्षाः पर्णाहाराश्च तापसाः ॥
तथा च स्थंडिलशया ये चान्ये नियताः पृथक् ॥।२४॥
ये स्नानमाचरिष्यंति तीर्थेऽस्मिन्नियमान्विताः ॥
ते यांति परमां सिद्धिं ब्रह्मणः परमं पदम् ॥ २५ ॥
अस्मिंस्तीर्थे तु यो दानं त्रुटिमात्रं च कांचनम् ॥
ददाति द्विजमुख्याय मेरुतुल्यं भवेत्फलम् ॥२६॥
अस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंतीह मानवाः॥
एकविंशत्कुलोपेताः स्वर्गं यास्यंति ते ध्रुवम् ॥२७॥
पितॄणां वल्लभं तीर्थं पिंडेनैकेन तर्पिताः ॥
ब्रह्मलोकं गमिष्यंति सुपुत्रेणेह तारिताः ॥ २८ ॥
भूयश्चान्नं प्रयच्छंति मोक्षमार्गं व्रजंति ते ॥ २९ ॥
अत्र ये शुभ कर्माणः प्रभासस्थां सरस्वतीम् ॥
पश्यंति तेपि यास्यंति स्वर्गलोकं द्विजोत्तमाः ॥7.1.270.३०॥
ये पुनस्तत्र भावेन नराः स्नानपरायणाः ॥
ब्रह्मलोकं समासाद्य ते रमिष्यंति सर्वदा ॥ ३१ ॥
दधि प्रदद्याद्योऽपीह ब्राह्मणाय मनोरमम् ॥
सोऽप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान् ॥ ३२ ॥
ऊर्णाप्रावरणं योऽपि भक्त्या दद्याद्द्विजोत्तमे ॥
सोऽपि याति परां सिद्धिं मर्त्यैरन्यैः सुदुर्लभाम् ॥ ३३ ॥
ये चात्र मलनाशाय विशेयुर्मानवा जलम् ॥
गोप्रदानफलं तेषां सुखेन फलमादिशेत् ॥ ३४ ॥
भावेन हि नरः कश्चित्तत्र स्नानं समाचरेत् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ३५ ॥
तर्पणात्पिंडदानाच्च नरकेष्वपि संस्थिताः ॥
स्वर्गं प्रयांति पितरः सुपुत्रेणेह तारिताः ॥ ३६ ॥
ते लभंतेऽक्षयांल्लोका न्ब्रह्मविष्ण्वीशशब्दितान् ॥
भूयस्त्वन्नं प्रयच्छन्ति मोक्षमार्गं लभंति ते ॥ ३७ ॥
स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥
नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥ ३८ ॥
प्राची सरस्वती चैव अन्यत्रैव तु दुर्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥ ३९ ॥
प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते ॥
स करस्थं समुत्सृज्य कूर्परेण समाचरेत् ॥ 7.1.270.४० ॥
कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा ॥
पिण्याकेंगुदकेनापि पिंडं तत्र ददाति यः ॥
पितॄणामक्षयं भूयात्पितृलोकं स गच्छति ॥ ४१ ॥
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ॥
सरस्वतीं प्राप्य गता दिवं नराः पुनः स्मरिष्यंति नदीं सरस्वतीम् ॥ ४२ ॥
॥ ईश्वर उवाच ॥ ॥
उक्त्वैवं भगवान्देवस्तत्रैवांतरधीयत ॥
सांनिध्यमकरोत्तत्र ततःप्रभृति शंकरः ॥ ४३ ॥
अत्र गाथा पुरा गीता विष्णुना प्रभविष्णुना ॥
स्नेहार्द्रेण च चित्तेन धर्मपुत्रं प्रति प्रिये ॥ ४४ ॥
मा गंगां व्रज कौंतेय मा प्रयागं च पुष्करम् ॥
तत्र गच्छ कुरुश्रेष्ठ यत्र प्राची सरस्वती ॥ ४५ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
माहात्म्यं च सरस्वत्या भूयः किं श्रोतुमिच्छसि ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्राचीसरस्वतीमंकीश्वरमाहात्म्यवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७० ॥