स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं सिद्धेश्वरं परम् ॥
तस्यैव पश्चिमे भागे सिद्धैः संस्थापितं पुरा ॥१ ॥
सिद्धा नाम सुराः पूर्वं तत्रागत्य वरानने ॥
लिंगं संस्थापयामासुः सिद्ध्यर्थं सर्ववस्तुषु ॥ २॥
ततस्तुष्टो महादेवि तेषां दृष्ट्वा तपो महत् ॥
अणिमादिकमैश्वर्यं तेषां सर्वं ददौ शिवः ॥ ३ ॥
अब्रवीदत्र मे नित्यं सानिध्यं च भविष्यति ॥ ४ ॥
चैत्रे शुक्लचतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥
स यास्यति परं स्थानं प्रसादान्मम पुण्यकृत् ॥ ५ ॥
एवमुक्त्वाऽथ भगवाञ्जगामादर्शनं ततः ॥
सिद्धाश्चैव तदाऽऽगत्य पूजयंति महेश्वरम् ॥ ६ ॥
यस्तमाराधयेद्भक्त्या संसिद्धिं लभतेऽद्भुताम्॥
ईप्सितां च सुरश्रेष्ठे तस्मात्तं पूजयेत्सदा ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥