स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पर्णादित्यं सुरेश्वरम् ॥
प्राचीसरस्वतीकूले तटे चोत्तरतः स्थितम्॥ १ ॥
पुरा त्रेतायुगे देवि पर्णादोनाम वै द्विजः ॥
प्रभासं क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥
आराधयामास रविं भक्त्या परमया युतः ॥ २ ॥
तर्पयित्वा ततः सूर्यं धूपमाल्यविलेपनैः ॥
वेदोक्तैः स्तवनैः सूक्तैर्दिवारात्रं समाहितः ॥ ३ ॥
एवं च ध्यायतस्तस्य कालेन महता ततः ॥
तुतोष भगवान्सूर्यो वाक्यमेतदुवाच ह ॥ ४ ॥
परितुष्टोऽस्मि विप्रेन्द्र तपसानेन सुव्रत ॥
वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम्॥ ५ ॥
॥ ब्राह्मण उवाच ॥ ॥
एष एव वरः कामो यत्तुष्टो भगवान्स्वयम् ॥
दर्शनं तव देवेश स्वप्नेष्वपि च दुर्ल्लभम्॥ ६ ॥
अवश्यं यदि दातव्यो वरो मम दिवाकर ॥
अत्र संनिहतो देव सदा त्वं भव भास्कर ॥ ७ ॥
तव प्रसादात्ते यांतु तव लोकं दिवा कर ॥
एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ॥ ८ ॥
पर्णादोऽपि स्थितस्तत्र तस्याराधनतत्परः ॥
तत्र भाद्रपदे मासे षष्ठ्यां स्नानं समाचरेत् ॥
पर्णादित्यं ततः पश्येन्न स दुःखमवाप्नुयात् ॥ ९ ॥
गोशतस्य प्रयागे तु सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं लभते मर्त्यः पर्णादित्यस्य दर्शनात् ॥ 7.1.259.१० ॥
ये सेवंते महाकुष्ठं पांगुल्यं च विवर्चिकाः ॥
पर्णादित्यं न जानंति नूनं ते मंदबुद्धयः ॥ ११ ॥
इति श्रीस्कान्दे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पर्णादित्यमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥२५९॥