स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शशापानमिति स्मृतम् ॥
तस्यैव दक्षिणे तीर्थं सर्वपापप्रणाशनम् ॥ १ ॥
यस्मिन्स्नात्वा नरः सम्यङ्नापमृत्युभयं लभेत् ॥
शृणु यस्मात्तदुत्पत्तिं वदतो मम वल्लभे ॥ २ ॥
मथित्वा सागरं देवा गृहीत्वाऽमृतमुत्तमम् ॥
सत्वरास्तत्र ते गत्वा पपुश्चैव यथेप्सया ॥ ३ ॥
पिबतां तत्र पीयूषं देवानां वरवर्णिनि ॥
बिंदवः पतिता भूमौ शतशोथ सहस्रशः ॥ ४ ॥
एतस्मिन्नेव काले तु शशकस्तत्र चागतः ॥
प्रविष्टः सलिले तत्र तृषार्तो वरवर्णिनि ॥ ५ ॥
अमरत्वमनुप्राप्तो वर्द्धते सलिलालये ॥
तं दृष्ट्वा त्रिदशाः सर्वे स्पर्द्धमाना मुहुर्मुहुः ॥
ज्ञात्वामृतान्वितं तोयं मंत्रं चक्रुर्भयान्विताः ॥ ६ ॥
अमृतं पतितं भूमौ भक्षयिष्यंति मानवाः ॥
ततोऽमर्त्त्या भविष्यंति नात्र कार्या विचारणा ॥ ७ ॥
तिर्यग्योन्यां समुत्पन्नः कृपणः शशको ह्ययम् ॥
अस्माभिः स्पर्द्धते तस्मात्ततो भयमुपस्थितम् ॥ ८ ॥
अथ प्राप्तो निशानाथो व्याधिना स परिप्लुतः ॥
अब्रवीत्त्रिदशान्सर्वानमृतं मे प्रयच्छत ॥ ९ ॥
कृच्छ्रेण महता प्राप्तो नाहं शक्तो विसर्पितुम् ॥
अथोचुस्त्रिदशाः सर्वे सर्वमस्माभिर्भक्षितम् ॥ 7.1.258.१० ॥
विस्मृतस्त्वं निशानाथ चिरात्कस्मादिहागतः ॥
कुरुष्व वचनं चंद्र अस्माकं तिमिरापह ॥ ॥ ११ ॥
अस्मिञ्जलेऽमृतं भूरि पतितं पिबतां हि नः ॥
तत्पिबस्व निशानाथ सर्वमेतज्जलाशयम् ॥ १२ ॥
अर्द्धं निपतितं चात्र सत्यमेतन्निशामय ॥
तेषां तद्वचनं श्रुत्वा शीतरश्मिस्त्वरान्वितः ॥ १३ ॥
तृषार्तो वाऽपिबत्तोयं शशकेन समन्वितम् ॥
अस्थिशेषं तु तत्तस्य कायं पीयूषभक्षणात् ॥ १४ ॥
तत्क्षणात्पुष्टिमगमत्कांत्या परमया युतः ॥
धातुषु क्षीयमाणेषु पुष्टो हि सुधया हि सः ॥ १५ ॥
स चापि शशकस्तस्य न मृतो जठरं गतः ॥
अद्यापि दृश्यते तत्र देहे पीयूषभक्षणात् ॥१६॥
तत्क्षणात्तुष्टिमगमत्कांत्या परमया युतः ॥
अब्रुवन्खन्यतामेतद्यथा भूयो जलं भवेत् ॥ ॥ १७ ॥
अस्माकं संगमादेतच्छुष्कं श्वभ्रं जलाशयम् ॥
तद्युक्तं च कृतं कर्म नैतत्साधुविचेष्टितम् ॥ १८ ॥
ततोऽखनंश्च ते सर्वे यावत्तोयविनिर्गमः ॥
अथाब्रुवंस्ततः सर्वे हर्षेण महतान्विताः ॥ १९ ॥
यस्माच्छशेन संयुक्तं पीतमेतज्जलाशयम् ॥
चंद्रेण हि शशापानं तस्मादेतद्भविष्यति ॥ ॥ 7.1.258.२० ॥
अत्रागत्य नरः स्नानं यः करिष्यति भक्तितः ॥
स यास्यति परं स्थानं यत्र देवो महेश्वरः ॥ २१ ॥
अत्रान्नं संप्रदास्यंति ब्राह्मणेभ्यः समा हिताः ॥
सर्वयज्ञफलं तेषां भविष्यति न संशयः ॥ २२ ॥
अस्मिन्दृष्टे सुराः सर्वे दृष्टाः स्युः सर्वदेवताः ॥
एवमुक्त्वा सुराः सर्वे जग्मुश्चैव सुरालयम्॥ २३ ॥
अथ कालेन महता प्राप्ता तत्र सरस्वती ॥
वडवाग्निं समादाय तयानुप्लावितं पुनः ॥२४॥
ततो मेध्यतरं जातं तीर्थं च वरवर्णिनि ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ २५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शशापानमाहात्म्यवर्णनंनामाष्टापञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥ ॥ छ ॥