स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि गुफेश्वरमनुत्तमम्॥
हिरण्या उत्तरे भागे सर्वपातकनाशनम् ॥
तं दृष्ट्वा मानवो देवि कोटिहत्यां व्यपोहति॥ १ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुफेश्वरमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५३॥