स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं वै संगमेश्वरम् ॥
गोलक्षमिति विख्यातं सर्वपातकनाशनम् । १ ॥
तस्यैव पश्चिमे भागे सर्वकामफलप्रदम् ॥
ऋषिरुद्दालकोनाम पुरा ह्यासीन्महातपाः ॥ २ ॥
स पुरा संगमं प्राप्य सर्वपापप्रणाशनम् ॥
सरस्वत्याश्च पिंगायास्तपस्तेपे सुरेश्वरि ॥ ३ ॥
ततस्तपस्यतस्तस्य तपो रौद्रं महात्मनः ॥
पुरतो ह्युत्थितं लिंगं भक्त्या युक्तस्य सुन्दरि ॥ ४ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
उद्दालक महाबाहो शृणुष्वैतद्वचो मम ॥ ५ ॥
अद्यप्रभृति वासोऽत्र मम नित्यं भविष्यति ॥
यस्मादत्र समुत्पन्नं संगमे लिंगमुत्तमम् ॥
संगमेश्वरमित्येव नाम चास्य भवि ष्यति ॥ ६ ॥
येत्र स्नानं नराः कृत्वा संगमे लोकविश्रुते ॥
संगमेश्वरमीक्षन्ते ते यांति परमां गतिम् ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
ततस्तं पूजयामास दिवारात्रमतंद्रितः ॥
ततो देहावसानेऽसौ गतो यत्र महेश्वरः ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे ,प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥