स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४७

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्सूर्यं पापप्रणाशनम् ॥
तथा च पिंगलां देवीं पार्वतीरूपधारिणीम् ॥ १ ॥
तृतीयायां विशेषेण ह्युपवासं करोति यः ॥
सर्वान्कामानवाप्नोति धनवान्पुत्रवान्भवेत् ॥ २ ॥
तत्रैव संस्थितं पश्येच्छुक्रेश्वरमिति श्रुतम् ॥
तं दृष्ट्वा मानवो देवि मुक्तः स्यात्सर्वपातकैः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥