स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यादवस्थलमुत्तमम् ॥
यादवा यत्र नष्टा वै षट्पंचाशच्च कोटयः ॥ १ ॥
यत्र वज्रेश्वरो देवो वज्रेणाराधितः सदा ॥
यत्राभूद्दिव्यदृष्टीनामृषीणामाश्रमं कुलम् ॥ २ ॥
॥ देव्युवाच ॥ ॥
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ॥
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ ३ ॥
केन शप्तास्तु ते वीरा नष्टा वृष्ण्यन्धकादयः ॥
भोजाश्चैव महादेव विस्तरेण वदस्व मे ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
षट्त्रिंशे च कलौ वर्षे संप्राप्तेऽन्धकवृष्णयः ॥
अन्योन्यं मुशलैस्ते हि निजघ्नुः कालनोदिताः ॥ ५ ॥
विश्वामित्रं च कण्वं च नारदं च यशस्विनम् ॥
सारणप्रमुखान्भोजान्ददृशुर्द्वारकां गतान् ॥ ६ ॥
ते वै सांबं समानिन्युर्भूषयित्वा स्त्रियं यथा ॥
अब्रुवन्नुपसंगम्य देवदंडनिपीडिताः ॥ ७ ॥
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ॥
ऋषयः साधु जानीत किमियं जनयिष्यति ॥ ८ ॥
इत्युक्तास्ते तदा देवि विप्रलंभप्रधर्षिताः ॥
प्रत्यब्रुवंस्तान्मुनयस्तच्छृणुष्व यथातथम् ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
वृष्ण्यन्धकविनाशाय मुशलं घोरमायसम्॥
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥ 7.1.237.१० ॥
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ॥
उच्छेत्तारः कुलं सर्वमृते रामाज्जनार्द्दनात् ॥ ११ ॥
त्यक्त्वा यास्यति वः श्रीमांत्यक्त्वा भूमिं हलायुधः ॥
जरा कृष्णं महाभागं शयानं तु निवेत्स्यति ॥ १२ ॥
इत्यब्रुवंस्ततो देवि प्रलब्धास्ते दुरात्मभिः ॥
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥ १३ ॥
तथोक्ता मुनयस्ते तु ततः केशवमभ्ययुः ॥
अथावदत्तदा वृष्णीञ्छ्रुत्वैवं मधुसूदनः ॥ १४ ॥
अभिज्ञो मतिमांस्तस्य भवितव्यं तथेति तत् ॥
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् ॥ १५ ॥
कृतांतमन्यथाकर्त्तुं नैच्छत्स जगतः प्रभुः ॥
श्वोभूते सततः सांबो मुसलं तदसूत वै ॥१६॥
येन वृण्ष्यन्धककुले पुरुषा भस्मसात्कृताः॥
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥ १७ ॥ (किंकर – यमकिंकर)
असूत शापजं घोरं तच्च राज्ञे न्यवेदयत् ॥
विषण्णोऽथ ततो राजा सूक्ष्मं चूर्णमकारयत् ॥ १८ ॥
प्राक्षिपत्सागरे तत्र पुरुषो राजशासितः ॥
अथोवाच स्वनगरे वचनादाहुकस्य हि ॥ १९ ॥
जनार्द्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥
अद्यप्रभृति सर्वेषां वृष्णन्धकगृहेष्विह ॥
सुरासवो न कर्त्तव्यः सर्वैर्विषयवासिभिः ॥ 7.1.237.२॥।
यश्च वो विदितं कुर्यादेवं कश्चित्क्वचिन्नरः ॥
स जीवञ्छूलमारोहेत्स्वयं कृत्वा सबांधवः ॥ २१ ॥
ततो राजभयात्सर्वे नियमं तत्र चक्रिरे ॥
नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः ॥ २२ ॥
एवं प्रयतमानानां वृष्णीनामन्धकैः सह ॥
कालो गृहाणि सर्वाणि परिचक्राम नित्यशः ॥ २३ ॥
करालो विकटो मुंडः पुरुषः कृष्णपिंगलः ॥
सम्मार्जनी महाकेतुर्जपापुष्पावतंसकः ॥ २४ ॥
कृकलासवाहनश्च रत्तिकाकर्णभूषणः ॥
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥ २५ ॥
तस्य चासन्महेष्वासाः शरैः शतसहस्रशः ॥
न चाशक्यत वेद्धुं स सर्वभूताप्ययं सदा ॥ २६ ॥
उत्पेदिरे महावाता दारुणा हि दिने दिने ॥
वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः ॥ २७ ॥
विवृद्ध्य मूषिका रथ्यावितुन्नमणिकास्तथा ॥
केशान्ददंशुः सुप्तानां नृणां युवतयो निशि ॥ २८ ॥
चीचीकूचीत्यवाशंत सारिका वृष्णिवेश्मसु ॥
नोपशाम्यति शब्दश्च स दिवारात्रमेव वा ॥ २९ ॥
अन्वकुर्वन्नुलूकाश्च वायसान्वृष्णिवेश्मसु ॥
अजाः शिवानां च रुतमन्वकुर्वत भामिनि ॥ 7.1.237.३० ॥
पांडुरारक्तपादाश्च विहगाः कालप्रेरिताः ॥
वृष्ण्यन्धकगृहेष्वेवं कपोता व्यचरंस्तदा ॥ ३१ ॥
व्यजायंत खरा गोषु करभाश्चाश्वतरीषु च ॥
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥ ३२ ॥
तापत्रयांत पापानि कुर्वंतो वृष्णयस्तथा ॥
अद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥३३॥
गुरूंश्चाप्यवमन्यंते न तु रामजनार्दनौ ॥
भार्याः पतीन्व्युच्चरंति पत्नीश्च पुरुषास्तथा ॥ ३४ ॥
विभावसुः प्रज्वलितो वामं विपरिवर्त्तते ॥
नीललोहितमांजिष्ठा विसृजंश्चार्चिषः पृथक् ॥ ३५ ॥
उदयास्तमने नित्यं पर्यस्तः स्याद्दिवाकरः ॥
व्यदृश्यत सकृत्पुंभिः कबन्धैः परिवारितः ॥ ३६ ॥
महानसेषु सिद्धांते संस्कृतेऽन्ने तु भामिनि ॥
उत्तार्यमाणे कृमयो दृश्यंते च वरानने ॥ ३७ ॥
पुण्याहे वाच्यमाने च पठत्सु च महात्मसु ॥
अभिधावंति श्रूयंते न चादृश्यत कश्चन ॥ ३८ ॥
परस्परस्य नक्षत्रं हन्यमानं पुनःपुनः ॥
ग्रहैरपश्यन्सर्वैस्ते नात्मनस्तु कथञ्चन ॥ ३९ ॥
न हुतं पाचयत्यग्निर्वृष्ण्यंधकपुरस्कृतम् ॥
समंतात्प्रत्यवाशंत रासभा दारुणस्वनाः ॥ 7.1.237.४० ॥
एवं पश्यन्हृषीकेशः संप्राप्तान्कालपर्ययान् ॥
त्रयोदशीं ह्यमावास्यां तां दृष्ट्वा प्राब्रवीदिदम्॥ ४१ ॥
त्रयोदशी पंचदशी कृतेयं राहुणा पुनः ॥
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ ४२ ॥
धिग्धिगित्येवकालं तं परिचिंत्य जनार्दनः ॥
मेने प्राप्तं स षट्त्रिंशं वर्षं केशिनिषूदनः ॥
पुत्रशोकाभिसंतप्ता गांधारी यदुवाच ह ॥ ४३ ॥
एवं पश्यन्हृषीकेशस्तदिदं समुपस्थितम्॥
इदं च समनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ॥ ४४ ॥
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान्॥
पुण्यग्रन्थस्य श्रवणाच्छांतिहोमाद्विशोधनात् ॥४५॥
पूततीर्थाभिषेकांच्च नान्यच्छ्रेयो भवेदिति ॥
इत्युक्त्वा वासुदेवस्तच्चिकीर्षन्सत्यमेव च ॥
आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥ ४६ ॥
अघोषयंत पुरुषास्तत्र केशवशासनात् ॥
तीर्थयात्रा प्रभासे वै कार्येति वरवर्णिनि ॥ ४७ ॥
अथारिष्टानि वक्ष्यामि पुरीं द्वारवतीं प्रति ॥
काली स्त्री पांडुरैर्दंतैः प्रविश्य नगरीं निशि ॥ ४८ ॥
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां प्रति धावति ॥
अग्निहोत्रनिकेतं च सुमेध्येषु च वेश्मसु ॥ ४९ ॥
वृष्ण्यंधकांश्च खादंती स्वप्ने दृष्टा भयानका ॥
कुर्वंती भीषणं नादं कुर्कुटश्वानसंयुता ॥ 7.1.237.५० ॥
तथा सहस्रशो रौद्राश्चतुर्बाहव एव च ॥
स्त्रीणां गर्भेष्वजायंत राक्षसा गुह्यकास्तथा ॥ ॥ ५१ ॥
अलंकाराश्च च्छत्राणि ध्वजाश्च कवचानि च ॥
ह्रियमाणानि दृश्यंते रक्षोभिस्तु भयानकैः ॥ ५२॥
यच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ॥
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ ५३ ॥
युक्तं रथं दिव्यमादित्यवर्णं भयावहं पश्यतो दारुकस्य ॥
ते सागरस्योपरिष्टाद्वर्तमानान्मनोजवांश्चतुरो वाजिमुख्यान् ॥ ५४ ॥
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ॥
उच्चैर्जगुः स्वप्सरसो दिवानिशं वाचं चोचुर्गम्यतां तीर्थयात्राम् ॥ ५५ ॥
ततो जिगमिषंतस्ते वृष्ण्यंधकमहारथाः ॥
सांतःपुरास्तीर्थयात्रामीहंते स्म नरर्षभाः ॥५६॥
ततो मांसपरा हृष्टाः पेयं वेश्मसु वृष्णयः ॥
बहु नानाविधं चक्रुर्मांसानि विविधानि च ॥ ५७ ॥
तथा सीधुषु बद्धेषु निर्ययुर्नगराद्बहिः ॥
यानैरश्वैर्गजैश्चैव श्रीमंतस्तिग्मतेजसः ॥ ५८ ॥
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ॥
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ ५९ ॥
निर्विष्टांस्तान्निशम्याथ समुद्रांते स योगवित् ॥
जगामामंत्र्य तान्वीरानुद्धवोर्थविशारदः ॥ 7.1.237.६० ॥
प्रस्थितं तं महात्मानमभिवाद्य कृतांजलिम्॥
जानन्विनाशं भोजानां नैच्छद्वारयितुं हरिः ॥ ६१ ॥
ततः कालपरीतास्ते वृष्ण्यंधकमहारथाः ॥
अपश्यन्नुद्धवं यांतं तेजसाऽऽदीप्य रोदसी ॥ ६२ ॥
ब्राह्मणार्थेषु यत्क्लृप्तमन्नं तेषां वरानने ॥
तद्वाहनेभ्यः प्रददुः सुरागंधरसान्वितम्॥६३॥
ततस्तूर्यशताकीर्णं नटनर्त्तकसंकुलम्॥
प्रावर्त्तत महापानं प्रभासे तिग्मतेजसाम्॥ ६४॥
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ॥
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥६५॥
ततः परिषदो मध्ये युयुधानो मदोत्कटः ॥
अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥ ६६ ॥
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ॥
न तन्मृष्यत हार्दिक्यस्त्वया तत्साधु यत्कृतम् ॥ ६७ ॥
इत्युक्ते युयुधानेन पूजयामास तद्वचः ॥
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमथ भर्त्सयन् ॥ ६८ ॥
ततः पुनरपि क्रुद्धः कृतवर्मा तमब्रवीत् ॥
निर्विशन्निव सावज्ञं तदा सव्येन पाणिना ॥ ६९ ॥
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायोगतस्त्वया ॥
व्याधेनेव नृशंसेन कथं वैरेण घातितः ॥ 7.1.237.७० ॥
इति तस्य वचः श्रुत्वा केशवः परवीरहा ॥
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे समः पुमान् ॥ ७१ ॥
मणिं स्यमंतकं चैव यः स सत्राजितोऽभवत् ॥
स कथं स्मारयामास सात्यकिर्मधुसूदनम् ॥ ७२ ॥
तच्छ्रुत्वा केशवस्यांकमगमद्रुदती सती ॥
सत्यभामा प्रक्षुभिता कोपयन्ती जनार्द्दनम् ॥ ७३ ॥
तत उत्थाय स क्रोधात्सात्यकिर्वाक्यमब्रवीत् ॥
पंचानां द्रौपदेयानां धृष्टद्युम्नशिखंडिनः ॥ ७४ ॥
एष गच्छामि पदवीं सत्ये तव पथे सदा ॥
सौप्तिके निहता ये च सुप्तास्तेन दुरात्मना ॥ ७५ ॥
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥
समाप्तं चायुरस्याद्य यशश्चापि सुमध्यमे ॥ ७६ ॥
इतीदमुक्त्वा खङ्गेन केशवस्य समीपतः ॥
अभिहत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ ७७ ॥
तथान्यानपि निघ्नंतं युयुधानं समंततः ॥
अन्वधावद्धृषीकेशो विनिवारयिषुस्तथा ॥ ७८ ॥
एकीभूतास्ततस्तस्य कालपर्यायप्रेरिताः ॥
भोजांधका महाराजं शैनेयं पर्यवारयन् ॥ ७९ ॥
तान्दृष्ट्वाऽऽपततस्तूर्णमभिक्रुद्धाञ्जनार्द्दनः ॥
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ 7.1.237.८० ॥
ते च पानमदाविष्टाश्चोदिताश्चैव मन्युना ॥
युयुधानमथाजघ्नुरुच्छिष्टै र्भोजनैस्तथा ॥ ८१ ॥
हन्यमाने तु शैनेये कुद्धो रुक्मिणिनंदनः ॥
तदंतरमथाधावन्मोक्षयिष्यञ्छिनेः सुतम् ॥ ८२ ॥
स भोजैः सह संयुक्तः सात्यकिश्चांधकैः सह ॥
बहुत्वात्तु हतौ वीरावुभौ कृष्णस्य पश्यतः ॥ ८३ ॥
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनंदनः ॥
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥ ८४ ॥
तदभून्मुशलं घोरं वज्रकल्पमयस्मयम् ॥
जघान तेन कृष्णोपि ये तस्य प्रमुखे स्थिताः ॥ ८९ ॥
ततोंऽधकाश्च भोजाश्च शिनयो वृष्णयस्तदा ॥
न्यघ्नन्नन्योन्यमाक्रन्दैर्मुशलैः कालप्रेरिताः ॥ ८६ ॥
यश्चैकामेरकां कश्चिज्जग्राह रुषितो नरः ॥
वज्रभूता च सा देवि ह्यदृश्यत तदा प्रिये ॥ ८७ ॥
तृणं च मुशलीभूतमण्वपि तत्र दृश्यते ॥
ब्रह्मदंडकृतं सर्वमिति तद्विद्धि भामिनि ॥ ८८ ॥
आविध्याविध्य देवेशि प्रहरंति स्म सायकान्॥
तद्वज्रभूतं मुशलमपश्यंत तदा दृढम् ॥ ८९ ॥
अवधीत्पितरं पुत्रः पिता पुत्रं च भामिनि ॥
मत्तास्ते पर्यटंति स्म योधमानाः परस्परम् ॥ 7.1.237.९० ॥
पतंगा इव चाग्नौ तु न्यपतन्यदुपुंगवाः ॥
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ ९१ ॥
तं तु पश्यन्महाबाहुर्जानन्कालस्यपर्ययम् ॥
मुशलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ ९२ ॥
सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ॥
प्रद्युम्नमनिरुद्धं च ततश्चुक्रोध भामिनि ॥ ९३ ॥
यादवान्क्ष्माशयानांश्च भृशं कोपसमन्वितः ॥
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ ९४ ॥
एवं तत्र महादेवि अभवद्यादव स्थलम् ॥
गव्यूतिमात्रं तद्देवि यादवानां चिताः स्मृताः ॥ ९५ ॥
तेषां किलास्थिनिचयैः स्थलरूपं बभूव तत् ॥
भस्मपुंजनिभाकारं तेनाभूद्यादव स्थलम् ॥ ९६ ॥
दिव्यरत्नसमायुक्तं मणिमाणिक्यपूरितम् ॥
यादवानां किरीटैश्च दिव्यगन्धैः सुपूरितम्॥ ९७ ॥
तेषां रक्षानिमित्तं हि गंगा गणपतिस्तथा ॥
यादवानां तु सर्वेषां जीवितो वज्र एव हि ॥ ९८ ॥
वयसोंते ततः सोऽपि प्रभासं क्षेत्रमागतः ॥
निषिच्य स्वसुतं राज्ये नाम्ना ख्यातं महद्बलम् ॥ ९९ ॥
तेनापि स्थापितं लिंगं यादवेन्द्रेण धीमता ॥
वज्रेश्वरमिति ख्यातं तत्स्थितं यादवस्थले ॥7.1.237.१००॥
तत्रैव सुचिरं कालं तपस्तप्तं सुपुष्कलम् ॥
नारदस्योपदेशेन प्रभासे पापनाशने ॥ १०१ ॥
प्राप्तवान्परमां सिद्धिं स राजा यादवोत्तमः ॥
तत्रैव यो नरः सम्यक्स्नात्वा जांबवती जले ॥ १०२ ॥
वज्रेश्वरं तु संपूज्य ब्राह्मणांस्तत्र भोजयेत् ॥
यादवस्थलसामीप्ये गोसहस्रफलं लभेत् ॥ १०३ ॥
षट्कोणं तत्र दातव्यमंगुल्या यादवस्थले ॥
यात्राफलमवाप्नोति सम्यक्छ्रद्धासमन्वितः ॥ १०४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये यादवस्थलोत्पत्तौ वज्रेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३७ ॥