सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कूपं त्रैलोक्यपूजितम् ॥
पश्चिमे तस्य तीर्थस्य पांडवानां महात्मनाम् ॥ १ ॥
यदाऽरण्यमनुप्राप्ताः पांडवाः पृथिवीतले ॥
भ्रममाणा महादेवि प्रभासं क्षेत्रमागताः ॥ २ ॥
ततस्ते न्यवसंस्तत्र किंचित्कालं समाहिताः ॥
गत्वा क्षेत्रं महापुण्यं ततः कृष्णाऽब्रवीदिदम् ॥ ३ ॥
ब्राह्मणानां सहस्राणि भुंजते भवतां गृहे ॥
दूरे जलाश्रयश्चैव न तावंतश्च किंकराः ॥ ४ ॥
तस्माज्जलाश्रयः कार्यं आश्रमस्य समीपतः ॥
यत्र स्नानं करिष्यामि युष्माकं संप्रसादतः ॥ ५ ॥
ततस्तु पांडवाः सर्वे सहितास्ते वरानने ॥
अखनंस्तत्र ते कूपं द्रौपदीवाक्यप्रेरिताः ॥ ६ ॥
अथाजगाम तत्रैव भगवान्देवकीसुतः ॥
श्रुत्वा समागतान्पार्थान्द्वारावत्याः सबांधवः ॥ ७ ॥
प्रद्युम्नेन च सांबेन गदेन निषधेन च ॥
युयुधानेन रामेण चारुदेष्णेन धीमता ॥ ८ ॥
अन्यैः परिवृतः शूरैर्यादवैर्युद्ध दुर्मदैः ॥
ते समेत्य यथान्यायं समस्ता यदुपुंगवाः ॥ ९ ॥
ततः कथावसाने च कस्मिंश्चित्कारणांतरे ॥
वासुदेवः पांडुसुतमिदं वचनमब्रवीत् ॥ ॥ 7.1.232.१० ॥
युधिष्ठिर महाबाहो किं ते कामकरोम्यहम् ॥
राज्यं धान्यं धनं चापि अथवा रिपुनाशनम् ॥ ११ ॥
॥ युधिष्ठिर उवाच ॥ ॥
शक्तस्त्वं यादवश्रेष्ठ सर्वकर्मस्वसंशयः ॥
प्रतिज्ञातं त्वया पूर्वं वर्षैर्द्वादशभिः प्रियम्॥ १२ ॥
तन्नास्ति त्रिषु लोकेषु यन्न सिद्ध्यति भूतले ॥
त्वयि तुष्टे जगन्नाथ सर्वदेवनमस्कृते ॥ १३ ॥
अवश्यं यदि तुष्टोऽसि मम सर्वजगत्पते ॥
अत्र सांनिध्यमागच्छ कूपे नित्यं जनार्दन ॥ १४ ॥
अत्रागत्य नरो यस्तु भक्त्या स्नानं समाचरेत् ॥
स यातु वैष्णवं स्थानं प्रसादात्तव केशव ॥ १५ ॥
॥ ईश्वर उवाच ॥ ॥
एवं भविष्यतीत्युक्त्वा तदाऽमन्त्र्य युधिष्ठिरम् ॥
प्रययौ द्वारकां कृष्णः सर्वलोकनमस्कृतः ॥ १६ ॥
तस्मिञ्छ्राद्धं नरः कृत्वा वाजिमेधफलं लभेत् ॥
प्रसादाद्देवदेवस्य विष्णोरमिततेजसः ॥ १७ ॥
तदर्धं तर्पणेनैव स्नानात्पादमवाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥ १८ ॥
ज्येष्ठस्य पौर्णमास्यां यः स्नानं श्राद्धं करिष्यति ॥
सावित्रीं चैव संपूज्य स यास्यति परमं पदम् ॥ १९ ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥7.1.232.२०॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पांडवकूपमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २३२ ॥ ॥ छ ॥