स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २२६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वभागे तु नैर्ऋते पापमोचनात् ॥
मेघेश्वरेति विख्यातं सर्वपातकनाशनम् ॥ १ ॥
अनावृष्टिभये जाते शांतिं तत्रैव कारयेत् ॥
वारुणीं विप्रमुख्यैस्तु भावयेदुदकैर्महीम् ॥ २ ॥
मेघैः प्रतिष्ठितं लिंगं यत्र नित्यं प्रपूज्यते ॥
अनावृष्टिभयं किंचिन्न च तत्र प्रजायते ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मेघेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥ ॥