स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २२४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगमिंद्रप्रतिष्ठितम् ॥
पापमोचननामाढ्यं दक्षिणे पुरुषोत्तमात्॥ १ ॥
वृत्रं हत्वा पुरा शक्रो ब्रह्महत्यासमन्वितः ॥
अब्रवीत्स ऋषीन्दिव्यान्कथमेषा गमिष्यति ॥ २ ॥
ब्रह्महत्या हि दुष्प्रेक्ष्या विवर्णजननी मम ॥
दुर्गंधचारिणी चैव सर्वतेजोविनाशिनी ॥ ३ ॥
अथोचुस्तं सुरगणा नारदाद्या महर्षयः ॥
प्रभासं गच्छ देवेश क्षेत्रं पापहरं हि तत् ॥ ४ ॥
तत्राराध्य महादेवं मोक्ष्यसे ब्रह्महत्यया ॥
स तथेति प्रतिज्ञाय गतस्तत्र वरानने ॥ ५ ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥
तस्य पूजारतो नित्यं धूपगंधानुलेपनैः ॥ ६ ॥
ततोऽस्य गात्रदौर्गंध्यं नाशमाश्वभ्यगच्छत ॥
विवर्णत्वं गतं सर्वं वपुश्चाभूत्तथोत्तमम्॥ ७ ॥
अथ हृष्टमना भूत्वा वाक्यमेतदुवाच ह ॥
तत्रागत्य नरो भक्त्या यश्चैनं पूजयिष्यति ॥ ८ ॥
ब्रह्महत्यादिकं पापं नाशं तस्य प्रयास्यति ॥
एवमुक्त्वा सहस्राक्षः प्रहृष्टस्त्रिदिवं ययौ ॥ ९ ॥
ब्रह्महत्याविनिर्मुक्तः पूज्यमानो दिवौकसैः ॥
गोदानं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
ब्रह्महत्यापनोदार्थं तत्र श्राद्धं समाचरेत् ॥ 7.1.224.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥