स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २२३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं त्रैलोक्यपूजितम् ॥
गात्रोत्सर्गमिति ख्यातं तस्य दक्षिणतः स्थितम्॥ १ ॥
यत्र गात्रं परित्यक्तं बलभद्रेण धीमता ॥
अन्यैश्चैव महाभागैर्यादवैस्तत्र संयुगे ॥ २ ॥
यत्र ते यादवाः क्षीणा ब्रह्मशापबलाहिना ॥
एतत्पुरुषोत्तमं क्षेत्रं समन्ताद्धनुषां शतम्॥ ३ ॥
यत्र साक्षात्स्वयं देवि तिष्ठते पुरुषोत्तमः ॥
तदेव वैष्णवं क्षेत्रं कलौ पातकनाशनम्॥ ४ ॥
रहस्यं परमं देवि तीर्थानां प्रवरं हि तत्॥
पूर्वं कृतयुगे देवि प्रेततीर्थं च संस्मृतम् ॥
कलौ युगे तु संप्राप्ते गात्रोत्सर्गमिति त्वभूत् ॥ ५ ॥
ऋणमोचनपार्श्वे तु मध्ये तु पापमोचनात्॥
एतन्मध्यं समाश्रित्य मृतः पापैर्विमुच्यते ॥ ६ ॥
तस्य किं वर्ण्यते देवि यत्रानन्तफलं महत् ॥
अथमेधसहस्रस्य फलं स्नात्वा ह्यवाप्यते ॥ ७ ॥
यत्राश्वत्थं समासाद्य समाधिन्यस्तमानसः ॥
मुमोच दुस्त्यजान्प्राणान्ब्रह्मद्वारेण केशवः ॥ ८ ॥
तत्र नारायणं साक्षाद्बलभद्रं च रुक्मिणीम् ॥
पूजयित्वा विधानेन मुच्यते पातकत्रयात् ॥ ९ ॥
तत्र स्नात्वा नरो भक्त्या यः संतर्पयते पितॄन् ॥
प्रेतत्वात्पितरो मुक्ता भवन्ति श्राद्धदायिनः ॥ 7.1.223.१० ॥।
गोघ्नः सुरापो दुर्मेधा ब्रह्महा गुरुतल्पगः ॥
तत्र स्नात्वा नरः सद्यो विपापः संप्रपद्यते ॥ ११ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वापि यः करोति नरः प्रिये ॥
तत्र स्नात्वा प्रमुच्येत तीर्थे गात्रप्रमोचने ॥ १२ ॥
तत्र पिण्डप्रदानेन पितॄणां जायते परा ॥
तृप्तिर्वर्षशतं यावदेतदाह पुरा हरिः ॥ १३ ॥
यः पुनश्चान्नदानं तु तत्र कुर्यात्समाहितः ॥
तस्यान्वयेऽपि देवेशि न प्रेतो जायते नरः ॥१४॥ ॥
॥श्रीदेव्युवाच ॥ ॥
प्रेततीर्थमिति प्रोक्तं पश्चाद्गात्रविमोचनम् ॥
वद मे देवदेवेश प्रेततीर्थस्य कारणम्॥ १९ ॥
॥ ईश्वर उवाच॥ ॥
शृणु देवि प्रवक्ष्यामि प्रेततीर्थस्य कारणम्॥
यच्छ्रुत्वा मानवो भक्त्या मुक्तः स्यात्सर्वकिल्बिषैः ॥ १६ ॥
पुराऽऽसीद्गौतमोनाम महर्षिः शंसितव्रतः ॥
भृगुकल्पात्समायातः क्षेत्रे प्राभासिके शुभे ॥ १७ ॥
अयने चोत्तरे पुण्ये श्रीसोमेशदिदृक्षया ॥
दृष्ट्वा सोमेश्वरं देवं स्नात्वा तीर्थेषु कृत्स्नशः ॥ १८ ॥
स गच्छंस्तीर्थयात्रायां गात्रोत्सर्गं ततो गतः ॥ १९ ॥
अथासौ ब्राह्मणो देवि यावत्सीमामुपागतः ॥
तावद्विष्णुप्रियं तत्र ददृशे वैष्णवं वनम् ॥ 7.1.223.२० ॥
पुरुषोत्तमनामाढ्यं क्षेत्रं च धनुषां शतम् ॥
तस्मिन्क्षेत्रे स चापश्यत्पंच प्रेतान्सुदारुणान् ॥ २१ ॥
महावृक्षसमारूढान्महाकायान्महोत्कटान्॥
ऊर्ध्वकेशाञ्छंकुकर्णान्स्नायुनद्धकलेवरान् ॥ २२ ॥
विमांसरुधिरान्नग्नानथ कृष्णकलेवरान् ॥
दृष्ट्वाऽसौ भयसंत्रस्तो विनष्टोऽस्मीत्यचिन्तयत् ॥ २३ ॥
ध्यात्वाऽऽह सुचिरं कालं धैर्यमास्थाय यत्नतः ॥
के यूयं विकृताकारा दृष्टाः पूर्वं मया पुरा ॥ २४ ॥
न कदाचिद्यथा यूयं किमर्थं क्षेत्रमध्यतः ॥
धावमानाः सुदुःखार्ता एतन्मे कौतुकं महत् ॥ २५ ॥
॥ प्रेता ऊचुः ॥ ॥
वयं प्रेता महाभाग दूरादिह समागताः ॥
श्रुत्वा तीर्थवरं पुण्यं प्रवेशं न लभामहे ॥२६॥
गणैरंतर्धानगतैः प्रहारैर्जर्जरीकृताः ॥
लेखको रोहकश्चैव सूचकः शीघ्रगस्तथा ॥ २७ ॥
अहं पर्युषितोनाम पञ्चमः पापकृत्तमः ॥ २८ ॥
॥ गौतम उवाच ॥ ॥
प्रेतयोनौ प्रवृत्तानां केन नामानि कृत्स्नशः ॥
युष्माकं निर्मितान्येवमेतन्मे कौतुकं महत् ॥ २९ ॥
॥ प्रेता ऊचुः ॥ ॥
याचमानस्य विप्रस्य लिखत्येष धरातले ॥
नोत्तरं पठते किञ्चित्तेनासौ लेखकः स्मृतः ॥ 7.1.223.३० ॥
द्वितीयो ब्राह्मणभयात्प्रासादमधिरोहति ॥
ततोऽसौ रोहकाख्योऽभूच्छृणु विप्र तृतीयकम् ॥ ३१ ॥
सूचिता बहवोऽनेन ब्राह्मणा वित्तसंयुताः ।
राज्ञे पापेन तेनासौ सूचको भुवि विश्रुतः ॥ ३२॥
ब्राह्मणैः प्रार्थ्यमानस्तु शीघ्रं धावति नित्यशः ॥
न कदाचिद्ददाति स्म तेनासौ शीघ्रगः स्मृतः ॥ ३३ ॥
मया कदन्नं दत्तं च पर्युषितं ब्राह्मणोत्तमे ॥
ब्राह्मणेभ्यः सदा दानं मिष्टान्नेन तु पोषणम् ॥
तस्मात्पर्युषितोनाम संजातोऽहं धरातले ॥ ३४ ॥
॥ गौतम उवाच ॥ ॥
न विना भोजनेनैव वर्तन्ते प्राणिनो भुवि ॥
किमाहारा भवन्तो वै वदध्वं मम कौतुकात् ॥ ३५ ॥
॥ प्रेता ऊचुः ॥ ॥
प्राप्ते भोजनकाले तु यत्र युद्धं प्रवर्तते ॥
तस्यान्नस्य रसं सर्वं भुंजामो द्विजसत्तम ॥ ३६ ॥
नानुलिप्ते धरापृष्ठे यत्र भुंजन्ति मानवाः ॥
भ्रष्टशौचा द्विजश्रेष्ठ तदस्माकं तु भोजनम् ॥ ३७ ॥
अप्रक्षालितपादस्तु यो भुंक्ते दक्षिणामुखः ॥
यो वेष्टितशिरा भुंक्ते प्रेता भुंजन्ति नित्यशः ॥ ३८ ॥
श्राद्धं संपश्यते श्वा चेन्नारी चैव रजस्वला ॥
अन्त्यजः शूकरश्चान्नं तदस्माकं तु भोजनम् ॥ ३९ ॥
त्यक्त्वा क्रमागतं विप्रं पूजितं प्रपितामहैः ॥
यो दानं ददतेऽन्यस्मै तस्मै चाऽतुष्टचेतसा ॥ 7.1.223.४० ॥
तस्य दानस्य यत्पुण्यं तदस्माकं प्रजायते ॥
यस्मिन्गृहे सदोच्छिष्टं सदा च कलहो भवेत् ॥
वैश्वदेवविहीने तु तत्र भुंजामहे वयम् ॥ ४१ ॥
॥ गौतम उवाच ॥ ॥
युष्माकं कीदृशे गेहे प्रवेशो न च विद्यते ॥
सत्यं वदत माऽसत्यं सत्यं साधुषु संगतम् ॥ ४२ ॥
॥ प्रेता ऊचुः ॥ ॥
वैश्वदेवोद्भवा यत्र धूमवर्तिः प्रदृश्यते ॥
तस्मिन्गेहे न चास्माकं प्रवेशो विद्यते द्विज ॥ ४३ ॥
यस्मिन्गृहे प्रभाते तु क्रियते चोपलेपनम् ॥
विद्यते वेद निर्घोषस्तत्रास्माकं न किंचन ॥ ४४ ॥
॥ गौतम उवाच ॥ ॥
केन कर्मविपाकेन प्रेतत्वं व्रजते नरः ॥
एतन्मे विस्तरेणैव यथावद्वक्तु मर्हथ ॥ ४५ ॥
॥ प्रेता ऊचुः ॥ ॥
मृषाऽपहारिणो ये च ये चोच्छिष्टा व्रजन्ति च ॥
गोब्राह्मणहताश्चैव प्रेतत्वं ते व्रजन्ति हि ॥ ४६ ॥
पैशुन्यनिरता ये च कूटसाक्ष्यरता नराः ॥
न्यायपक्षे न वर्तंते मृताः प्रेता भवंति ते ॥ ४७ ॥
श्लेष्ममूत्रपुरीषाणि ये क्षिपन्ति सरोवरे ॥
प्रेतत्वं ते समासाद्य विचरंति च मानवाः ॥४८॥
दीयमानं तु विप्राणां गोषु विप्रातुरेषु च ॥
मा देहीति प्रजल्पन्तस्ते च प्रेता भवंति च ॥४९॥
शूद्रान्नेनोदरस्थेन यदि विप्रो म्रियेत वै ॥
प्रेतत्वं यात्यसौ नूनं यद्यपि स्यात्षडंगवित् ॥ 7.1.223.५० ॥
यस्त्रीन्हले बलीवर्दान्वाहयेन्मदसंयुतः ॥
अमावास्यां विशेषेण स प्रेतो जायते नरः ॥ ५१ ॥
नास्तिको निंदकः क्षुद्रो नित्यनैमित्त्यवर्जितः ॥
ब्राह्मणान्द्वेष्टि यो नूनं स प्रेतो जायते नरः ॥ ५२ ॥
विश्वासघातको यस्तु ब्रह्महा स्त्रीवधे रतः ॥
गोघ्नो गुरुघ्रः पितृहा स प्रेतो जायते नरः॥५३॥
यस्य नैव प्रदत्तानि एकोद्दिष्टानि षोडश ॥
मृतस्य न वृषोत्सर्गः स प्रेतो जायते नरः ॥ ५४ ॥
एतद्धि सर्वमाख्यातं यत्पृष्टाः स्म द्विजोत्तम ॥
भूयो ब्रूहि द्विजश्रेष्ठ यश्चास्ति तव संशयः ॥ ५५ ॥
॥ गौतम उवाच ॥ ॥
येन कर्मविपाकेनन प्रेतो जायते नरः ॥
तन्मे वदत निःशेषं कौतुकं मेऽत्र विद्यते ॥ ५६ ॥
॥ प्रेता ऊचुः ॥ ॥
तीर्थयात्रा रतो यस्तु देवार्चनपरायणः ॥
ब्राह्मणेषु सदा भक्तो न प्रेतो जायते नरः ॥ ५७ ॥
नित्यं शृणोति शास्त्राणि नित्यं सेवति पंडितान्॥
वृद्धांस्तु पृच्छते नित्यं न स प्रेतो विजायते ॥ ५८ ॥
एतस्मात्कारणात्प्राप्ता वयं सर्वे सुदूरतः ॥
शक्नुमो प्रवेष्टुं च पुण्येऽस्मिन्क्षेत्र उत्तमे ॥ ५९ ॥
निर्विण्णाः प्रेतरूपेण तस्मात्त्वं द्विजसत्तम ॥
गतिर्भव महाभाग सर्वेषां नः प्रयत्नतः ॥ 7.1.223.६० ॥
॥ गौतम उवाच ॥ ॥
कथं वो जायते मोक्षो वदध्वं कृत्स्नशो मम ॥
कृपयाविष्टचित्तोऽहं यतिष्ये नात्र संशयः ॥६१॥
॥ प्रेता ऊचुः ॥ ॥
प्रभूतकालमस्माकं प्रेतत्वे तिष्ठतां विभो ॥
न त्वभ्येति पुमान्कश्चिदस्माकं यो गतिर्भवेत् ॥ ६२ ॥
तस्मात्त्वं देहि नः श्राद्धं गत्वा क्षेत्रं तु वैष्णवम्॥
नामगोत्राणि चादाय मोक्षं यास्यामहे ततः ॥ ६३ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
ततोऽसौ ब्राह्मणो गत्वा दयाविष्टो हरेर्गृहम् ॥
श्राद्धं च प्रददौ तेषामेकैकस्य पृथक्पृथक् ॥ ६४ ॥
यस्ययस्य यदा श्राद्धं करोति द्विजसत्तमः ॥
स रात्रौ स्वप्न एत्यैनं दर्शने वाक्यमब्रवीत् ॥ ६५ ॥
प्रसादात्तव विप्रेन्द्र मुक्तोऽहं प्रेतयोनितः ॥
स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥ ६६ ॥
एवं संतारितास्तेन चत्वारस्ते द्विजोत्तमाः ॥ ६७ ॥
अथासौ ब्राह्मणश्रेष्ठः संप्राप्ते पञ्चमे दिने ॥
प्रददौ विधिपूर्वं तु श्राद्धं पर्युषितस्य च ॥ ६८ ॥
अथापश्यत स्वप्नान्ते प्राप्तं पर्युषितं नरम् ॥
दीनवाक्यं परिक्लिष्टं निःश्वसन्तं मुहुर्मुहुः ॥ ६९॥ ॥
॥ पर्युषित उवाच ॥ ॥
न मे जाता गतिर्विप्र मंदभाग्यस्य पापिनः ॥
मया हृतं तडागार्थं यद्वित्तं प्रगुणीकृतम् ॥ 7.1.223.७० ॥
॥ गौतम उवाच ॥ ॥
कथं ते जायते मोक्षो वद शीघ्रमशेषतः ॥
करिष्ये नात्र संदेहो यद्यपि स्यात्सुदुर्लभम् ॥ ७१ ॥
॥ पर्युषित उवाच ॥ ॥।
अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥
श्राद्धं त्वं देहि मे नूनं ततो गतिर्भविष्यति ॥ ७२ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्तः स विप्रेन्द्रस्तेन प्रेतेन वै मुनिः ॥
अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥
प्रददौ विधिवच्छ्राद्धं ततः पर्युषिताय च ॥ ७३ ॥
ततः पर्युषितो रात्रौ स्वप्नान्ते वाक्यमब्रवीत् ॥
प्रसन्नवदनो भूत्वा दिव्यमाल्यवपुर्धरः ॥ ७४ ॥
॥ पर्युषित उवाच ॥ ॥
मुक्तोऽहं त्वत्प्रसादेन प्रेतभावाद्द्विजोत्तम ॥
स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥ ७५ ॥
देवत्वं च मया प्राप्तं समर्थोऽहं द्विजोत्तम ॥
वरं ददामि ते विप्र गृहाण त्वं वरं शुभम् ॥ ७६ ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ७७ ॥
॥ गौतम उवाच ॥ ॥
यदि देयो वरोऽस्माकं समर्थोऽसि वरप्रद ॥
यत्र स्थाने मया दृष्टाः प्रेता यूयं सुदुःखिताः ॥
तत्राहं चाश्रमं कृत्वा करिष्ये चोत्तमं तपः ॥ ७८ ॥
निर्गतास्मि गृहं भूयो स्नात्वा तीर्थमिदं महत् ॥
तत्र यो भानवो भक्त्या पितॄनुद्दिश्य भक्तितः ॥ ७९ ॥
विधिवद्दास्यति श्राद्धं स्नात्वा संतर्प्य देवताः ॥
युष्मत्प्रसादतस्तस्य ह्यन्वयेऽपि कदाचन ॥
मा भूयात्प्रेतभावो हि अपि पापान्वितस्य भोः ॥ 7.1.223.८० ॥
॥ पर्युषित उवाच ॥ ॥
गच्छ त्वं चाश्रमं तत्र कुरु ब्राह्मणसत्तम ॥
गमिष्यसि परां सिद्धिं लोके ख्यातिं गमिष्यसि ॥ ८१ ॥
तत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥
पितॄणां ते विमानस्था यास्यंति त्रिदिवालयम् ॥ ८२ ॥
न तेषां वंशजः कश्चित्प्रेतत्वं च गमिष्यति ॥
प्राहुः सप्तपदीं मैत्रीं पंडिताः स्थिरबुद्धयः ॥ ८३ ॥
मित्रतां तु पुरस्कृत्य किं तद्वक्ष्यामि तच्छृणु ॥
तवाश्रमपदं पुण्यं भविष्यति महीतले ॥ ८४ ॥
सर्वपापप्रशमनं सर्वदुःखवि नाशनम् ॥
मन्नाम्ना ख्यातिमायातु प्रेततीर्थमिति प्रभो ॥ ८५ ॥
॥ ईश्वर उवाच ॥ ॥
तं तथेति प्रतिज्ञाय गतस्तत्र द्विजोत्तमः ॥
यथा वेदोक्तमार्गेंण सर्वं कृत्यं चकार सः ॥ ८६ ॥
सोऽपि स्वर्गमनुप्राप्तो हृष्टः पर्युषितः प्रिये ॥
एतत्सर्वं पुरावृत्तं स्थानेऽस्मिन्गात्रमोचने ॥ ८७ ॥
यः शृणोति नरः सम्यक्सर्वपापैः स मुच्यते ॥
शयनोत्थापने योगे यः पश्येत्पुरुषोत्तमम् ॥
गात्रोत्सर्गे तु गत्वाऽसौ यज्ञायुतफलं लभेत् ॥ ८८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुरुषोत्तमतीर्थप्रेततीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२३ ॥