स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २१५
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
मार्कण्डेश्वरतो देवि दक्षिणे नातिदूरतः ॥
धनुर्विंशतिभिस्तत्र स्थितं स्वामिप्रतिष्ठितम् ॥ १ ॥
ततः कृत्वा तपो घोरं कार्त्तिकेयेन भाभिनि ॥
परदारापहारोत्थपापानां नाशहेतवे ॥ २ ॥
लिंगं स्थापितवांस्तत्र स मुक्तः किल्विषात्ततः ॥
वैराग्याद्यौवनं त्यक्त्वा कौमारं पुनराददे ॥ ३ ॥
पितॄन्हत्वा सुमाली च तमाराधितवान्पुरा ॥
सोऽपि मुक्तोऽभवद्देवि पापात्पितृवधोद्भवात् ॥ ४ ॥
कुमारेश्वरनामैतत्पूजितं वै सुरासुरैः ॥
तस्याग्रतः कुमारस्य कूपस्तिष्ठति भामिनि ॥ ५ ॥
तत्र स्नात्वा पूजयेद्यः शूलिनं स्वामिपूजितम् ॥
स मुक्तः पातकैः सर्वैर्गच्छेत्स्वामिपुरं महत् ॥ ६ ॥
शातकौंभमयं यस्तु ताम्रचूडं द्विजातये ॥
दद्यात्स्वामिनमुद्दिश्य स तु यात्राफलं लभेत् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥ २१५ ॥ ॥