स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
अथ श्राद्धविधिं वक्ष्ये पार्वणस्य विधानतः ॥
यथाक्रमं महादेवि शृणुष्वैकमनाः प्रिये ॥ १ ॥
कृत्वापसव्यं पूर्वेद्युः पितृपूर्वं निमंत्रयेत् ॥
भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ ॥ २ ॥
सवर्णान्प्रेषयेदाप्तान्द्विजानामुपमन्त्रणे ॥ ३ ॥
अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितैः ॥
तथैव ब्राह्मणस्यान्नं ब्राह्मणेन निमन्त्रितौः ॥ ४ ॥
ब्राह्मणान्नं ददेच्छूद्रः शूद्रान्नं ब्राह्मणो ददेत् ॥
उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ ५ ॥
उपनिक्षेपधर्मेण शूद्रान्नं यः पचेद्द्विजः ॥
अभोज्यं तद्भवेदन्नं स च विप्रः पतेदधः ॥ ६ ॥
शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥
शूद्राज्ज्ञानागमश्चैव ज्वलंतमपि पातयेत् ॥ ७ ॥
शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ॥
कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः ॥८॥
नग्नः स्यान्मलवद्वासा नग्नः कौपीनवस्त्रधृक् ॥
द्विकच्छोऽनुत्तरीयश्च विकच्छोऽवस्त्र एव च ॥९॥
नग्नः काषायवस्त्रः स्यान्नग्नश्चार्धपटः स्मृतः ॥
अच्छिन्नाग्रं तु यद्वस्त्रं मृदा प्रक्षालितं तु यत् ॥ 7.1.206.१० ॥
अहतं धातुरक्तं वा तत्पवित्रमिति स्थितम् ॥
अग्रतो वसते मूर्खो दूरे चास्य गुणान्वितः ॥ ११ ॥
गुणान्विते च दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ॥
दूरस्थं पूजयेन्मूढो गुणाढ्यं नरकं व्रजेत् ॥ १२ ॥
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ॥
क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम्॥१३॥
संध्ययोरुभयोर्जाप्ये भोजने दंतधावने॥
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः॥
गुरूणां संनिधौ दाने योगे चैव विशेषतः ॥
एतेषु मौनमातिष्ठन्स्वर्गं प्राप्नोति मानवः ॥ १५ ॥
यदि वाग्यमलोपः स्याज्जपादिषु कथंचन ॥
व्याहरेद्वैष्णवं मंत्रं स्मरेद्वा विष्णुमव्ययम् ॥ १६ ॥
दाने स्नाने जपे होमे भोजने देवतार्चने ॥
देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥ १७ ॥
उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ॥
अग्निना भस्मना वापि यवेनाप्युदकेन वा ॥
द्वारसंक्रमणेनापि पंक्तिदोषो न विद्यते ॥ १८ ॥
इष्टश्राद्धे क्रतुर्दक्षो वृद्धौ सत्यवसू स्मृतौ ॥
नैमित्तिके कालकामौ काम्ये चाध्वविरोचनौ ॥ १९ ॥
पुरूरवा आर्द्रवश्च पार्वणे समुदाहृतौ ॥
पुष्टिं प्रजां च न्यग्रोधे बुद्धिं प्रज्ञां धृतिं स्मृतिम् ॥ 7.1.206.२० ॥
रक्षोघ्नं च यशस्यं च काश्मीर्यं पात्रमुच्यते ॥
सौभाग्यमुत्तमं लोके मधूके समुदाहृतम् ॥ २१ ॥
फाल्गुनपात्रे तु कुर्वाणः सर्वकामानवाप्नुयात् ॥
परां द्युतिमथार्के तु प्राकाश्यं च विशेषतः ॥ २२ ॥
बिल्वे लक्ष्मीं तपो मेधां नित्यमायुष्यमेव च ॥
क्षेत्रारामतडागेषु सर्वपात्रेषु चैव हि ॥ २३ ॥
वर्षत्यजस्रं पर्जन्ये वेणुपात्रेषु कुर्वतः ॥
एतेषां लभ्यते पुण्यं सुवर्णै रजतैस्तथा ॥ २४ ॥
पलाशफलन्यग्रोधप्लक्षाश्वत्थविकंकताः ॥
औदुम्बरस्तथा बिल्वं चंदनं यज्ञियाश्च ये ॥ २५ ॥
सरलो देवदारुश्च शालाश्च खदिरास्तथा ॥
समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २६ ॥
श्लेष्मातको नक्तमाल्यः कपित्थः शाल्मली तथा ॥
निंबो बिभीतकश्चैव श्राद्धकर्मणि गर्हिताः ॥२७॥
अनिष्टशब्दां संकीर्णा रूक्षां जन्तुमतीमपि ॥
प्रतिगंधां तु तां भूमिं श्राद्धकर्मणि गर्हयेत् ॥२८॥
त्रैशंकवं त्यजेद्देशंसर्वद्वादशयोजनम् ॥
उत्तरेण महानद्या दक्षिणेन च केवलम् ॥ २९ ॥
देशस्त्रैशं कवोनाम वर्जितः श्राद्धकर्मणि ॥
कारस्काराः कलिंगाश्च सिंधोरुत्तरमेव च ॥
प्रणष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥7.1.206.३०॥
ब्राह्मणं तु कृतं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥३१॥
कृते तु पितरः पूज्यास्त्रेतायां च सुरास्तथा ॥
मुनयो द्वापरे नित्यं पाखंडाश्च कलौ युगे ॥३२॥
शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ॥
कृष्णपक्षेऽपराह्ने तु रौहिणं न विलंघयेत् ॥३३॥
रत्निमात्रप्रमाणं च पितृतीर्थं तु संस्कृतम् ॥
उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः॥।
तथा श्यामाकनीवारा दूर्वाश्च समुदाहृताः ॥
स्व कीर्तिमतां श्रेष्ठो बहुकेशः प्रजापतिः ॥३५॥
तस्य केशा निपतिता भूमौ काशत्वमागताः ॥
तस्मान्मेध्याः सदा काशाः श्राद्धकर्मणि पूजिताः ॥३६॥
पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता॥
उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेशयेत्॥ ३७॥
अन्यत्र फलपुष्पेभ्यः पानकेभ्यश्च पण्डितः॥
हस्ते दत्त्वा तु वै स्नेहाल्लवणं व्यञ्जनानि च॥
आयसेन च पात्रेण तद्वै रक्षांसि भुञ्जते॥
द्विजपात्रेषु दत्त्वान्नं तूष्णीं संकल्पमाचरेत्॥३९॥
दर्व्यादिस्थेन नो तेषां संबन्धो दृश्यते यतः ॥
यश्च शूकरवद्भुंक्ते यश्च पाणितले द्विजः ॥
न तदश्नंति पितरो यः सवाचं समश्नुते ॥ 7.1.206.४० ॥
द्विहायनस्य वत्सस्य विशंत्यास्यं यथा सुखम् ॥
तथा कुर्यात्प्रमाणेन पिण्डान्व्यासेन भाषितम् ॥ ४१ ॥
न स्त्री प्रचालयेत्तानि ज्ञानहीनो न चाव्रतः ॥
स्वयं पुत्रोऽथवा यस्य वाञ्छेदभ्युदयं परम् ॥ ४२ ॥
भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः ॥
तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥ ४३ ॥
अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् ॥
एकं वै जुहुयादग्नावेषा तु त्रिविधा गतिः ॥ ४४ ॥
छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बह्वृचम् ॥
पुष्टिकर्मण्यथाध्वर्युं शान्तिकर्मण्यथर्वणम् ॥ ४५ ॥
द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखौ च निवेशयेत् ॥
पित्र्ये ह्युदङ्मुखान्कुर्याद्बह्वृचाध्वर्युसामगान् ॥ ४६ ॥
जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्॥ ४७ ॥
मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ॥
श्राद्धकर्मणि शस्तानि सैंधवं त्रपुसं तथा ॥ ४८॥
ब्राह्मणः कम्बलो गावः सूर्योग्निरतिथिश्च वै ॥
तिला दर्भाश्च कालश्च नवैते कुतपाः स्मृताः ॥ ४९ ॥
आपद्यनग्नौ तीर्थे च चंद्रसूर्यग्रहे तथा ॥
नाचरेत्संग्रहे चैव तथैवास्तमुपागते ॥ 7.1.206.५० ॥
संशुद्धा स्याच्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥ ५१ ॥
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ॥
आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ ५२ ॥
सर्पविप्रहतानां च दंष्ट्रिशृंगिसरीसृपैः ॥
आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥ ५३ ॥
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ॥
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ ५४ ॥
सर्वैरनुमतं कृत्वा ज्येष्ठेनैव च यत्कृतम् ॥
द्रव्येण च विभक्तेन सर्वैरेव कृतं भवेत् ॥ ॥ ५५ ॥
अमावास्यां पितृश्राद्धे मंथनं यस्तु कारयेत् ॥
तत्तक्रं मदिरातुल्यं घृतं गोमांसवत्स्मृतम् ॥ ५६ ॥
भुंजंति क्रमशः पूर्वे तथा पिंडाशिषो ऽपि च ॥
निमंत्रितो द्विजः श्राद्धे न शयीत स्त्रिया सह ॥ ५७ ॥
श्रादभुक्प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ॥
श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥ ५८ ॥
वर्षेवर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि ॥
मलमासे न कर्तव्यं व्यासस्य वचनं यथा ॥ ५९ ॥
गर्भे वार्धुषिके प्रेते भृत्ये मासानुमासिके ॥
आब्दिके च तथा श्राद्धे नाधिमासो विधीयते ॥ 7.1.206.६० ॥
विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ॥
आब्दिके पितृकार्ये तु चान्द्रो मासः प्रशस्यते ॥ ६१ ॥
यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ॥
तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि ॥ ६२ ॥
वषट्कारश्च होमश्च पर्व चाग्रायणं तथा ॥
मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत् ॥ ६३ ॥
अग्न्याध्येयं प्रतिष्ठां च यज्ञदानव्रतानि च ॥
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ ६४ ॥
मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥
नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ॥
तीर्थे स्नानं गज च्छायां प्रेतश्राद्धं तथैव च ॥ ६५ ॥
रसा यत्र प्रशस्यन्ते भोक्तारो बंधुगोत्रिणः ॥
राजवार्तादि संक्रंदो रक्षःश्राद्धस्य लक्षणम्॥ ६६ ॥
श्राद्धं कृत्वा परश्राद्धे यस्तु भुंक्ते च विह्वलः ॥
पतंति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥६७॥
तैलमुद्वर्तनं स्नानं दन्तधावनमेव च ॥
क्लृप्तरोमनखेभ्यश्च दद्याद्गत्वापरेऽहनि ॥ ६८ ॥
निमन्त्रिता यथान्यायं हव्ये कव्ये द्विजोत्तमाः ॥
कथंचिदप्यतिक्रामेत्पापः शूकरतां व्रजेत् ॥ ६९ ॥
दैवे च पितृ श्राद्धे चाप्याशौचं जायते यदा ॥
आशौचान्तेऽथवा तत्र तेभ्यः श्राद्धं प्रदीयते ॥ 7.1.206.७० ॥
अथ श्राद्धावसाने तु आशिषस्तत्र दापयेत् ॥
दीर्घा नागास्तथा नद्यो विष्णोस्त्रीणि पदानि च ॥
एवमेषां प्रमाणेन दीर्घमायुरवाप्नुयाम् ॥ ७१ ॥
अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ॥
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ॥ ७२॥
लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ॥
लक्ष्मीर्वसतु वासे मे सौमनस्यं ददातु मे ॥ ७३ ॥
अक्षतं चाऽस्तु मे पुण्यं शांतिः पुष्टिर्धृतिश्च मे ॥
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ ७४ ॥
दक्षिणायां तु सर्वत्र बहुदेयं तथास्तु नः ॥
एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत् ॥७५ ॥
पिंडमग्नौ सदा देयाद्भोगार्थी सततं नरः ॥
प्रजार्थं पत्न्यै वै दद्यान्मध्यमं मंत्रपूर्वकम् ॥ ७६ ॥
उत्तमां द्युतिमविच्छन्गोषु नित्यं प्रदापयेत् ॥
आज्ञामिच्छेद्यशः कीर्तिमप्सु नित्यं प्रवेशयेत् ॥ ७७ ॥
प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रदापयेत् ॥
कुमारलोकमन्विच्छन्कुक्कुटेभ्यः प्रदापयेत् ॥ ७८ ॥
आकाशे प्रक्षिपेद्वापि स्थितो वा दक्षिणामुखः ॥
पितॄणां स्थानमाकाशं दक्षिणा चैव दिक्तथा ॥ ७९ ॥
नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ॥
सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शनात् ॥ 7.1.206.८० ॥
उपरागे न कुर्याद्यः पंके गौरिव सीदति ॥
कुर्वाणस्तु तरेत्पापं सा च नौरिव सागरे ॥ ८१ ॥
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः ॥
महायवा व्रीहियवास्तथैव च मसूरिकाः ॥ ८२ ॥
कृष्णाः श्वेताश्च वा ग्राह्याः श्राद्धकर्मणि सर्वदा ॥
बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम् ॥ ८३ ॥
भव्यं पारापतं चैव खर्जूरं करमर्द्दकम् ॥
सकोरका बदर्यश्च तालकंदं तथा बिसम् ॥ ८४ ॥
तमालासनकंदं च मावेल्लं शतकंदली ॥
कालेयं कालशाकं च मुद्गान्नं च सुवर्चलम्॥८५॥
मांसं क्षीरं दधि शाकं व्योषं वेत्रांकुरस्तथा ॥
कट्फलं वज्रकं द्राक्षां लकुचं मोचमेव च ॥ ॥ ८६ ॥
प्रियामलकदुर्ग्रीवं तिंडुकं मधुसाह्वयम् ॥
वैकंकतं नालिकेरं शृङ्गाटकपरूषकम् ॥ ८७ ॥
पिप्पलीमरिचं चैव पटोली बृहतीफलम्॥
आरामस्य तु सीमाऽन्तः संभवं सर्वमेव तु ॥८८॥
एवमादीनि चान्यानि पुष्पाणि श्राद्धकर्मणि॥
मसूराः शतपुष्प्याश्च कुसुमं श्रीनिकेतनम् ॥८९॥
वर्या स्वातियवा नित्यं तथा वृषयवासकौ ॥
वंशा करीरा सुरसा मार्जिता भूतृणानि च ॥ 7.1.206.९० ॥
वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥
लशुनं गृंजनं चैव पलांडुं पिण्डमूलकम् ॥
मोगरं चात्र वैदेहं दीर्घमूलकमेव च ॥ ९१ ॥
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ॥
आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते ॥ ९२ ॥
चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ॥
वृथा श्राद्धमवाप्नोति दाता च नरकं व्रजेत् ॥ ९३ ॥
लेखाप्रभृत्यथादित्ये मुहूर्तास्त्रय एव च ॥
प्रातस्तस्योत्तरं कालं भगमाहुर्विपश्चितः ॥ ९४ ॥
संगवस्त्रिमुहूर्तोऽयं मध्याह्नस्तु समन्ततः ॥
ततश्च त्रिमुहूर्ताश्च अपराह्णो विधीयते ॥ ९५ ॥
पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः ॥ ९६ ॥
॥ तथा च श्रुतिः ॥ ॥
यदैवादित्योऽथ वसन्तो यदा संगविकोऽथ ग्रीष्मो यदा वा माध्यंदिनोऽथ वर्षा यदपराह्णोऽथ शरत् ॥
घदेवास्तमेत्यथ हेमन्त इति ॥ ९७ ॥
प्रारभ्य कुतपे श्राद्धे कुर्यादारोहणं बुधः ॥
विधिज्ञो विधिमास्थाय रोहिणं न तु लंघयेत् ॥ ९८ ॥
अष्टमो यो मुहूर्तश्च कुतपः स निगद्यते ॥
नवमो रौहिणः प्रोक्त इति श्राद्धविदो विदुः ॥ ९९ ॥
एकोद्दिष्टं तु मध्याह्नं प्रातर्वै जातकर्मणि ॥
पित्र्यार्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ॥ 7.1.206.१०० ॥
वैश्वदेवे न पित्र्यार्थं न पित्र्यं वैश्वदेविके ॥
कृत्वा श्राद्धं महादेवि ब्राह्मणांश्च विसर्ज्य च ॥ १०१ ॥
वैश्वदेवादिकं कर्म ततः कुर्याद्वरानने ॥
बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ॥ १०२ ॥
विधूमे लेलिहाने च कुर्यात्कर्म प्रसिद्धये ॥
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ॥ ॥ १०३ ॥
यजमानो भवेदन्धः कुपुत्र इति निश्चितम् ॥
दुर्गन्धश्चैव कृष्णश्च नीलश्चैव विशेषतः ॥ १०४ ॥
भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥
अर्चिष्मान्पिंगलशिखः सर्पिःकांचनसप्रभः ॥ १०५ ॥
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥
अंजनाभ्यंजनं गंधान्मन्त्रप्रणयनं तथा ॥ १०६ ॥
काशैः पुनर्भवेत्कार्यं हयमेधफलं लभेत् ॥
अष्टजातिकपुष्पं च अञ्जनं नित्यमेव हि ॥ १०७ ॥
कृष्णेभ्यश्च तिलेभ्यश्च तैलं यत्नात्सुरक्षितम् ॥
चन्दनागरुणी चोभे तमालोशीरपद्मकम् ॥ १०८ ॥
धूपश्च गौग्गुलः श्रेष्ठस्तौरुष्को धूप एव च ॥
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ १०९ ॥
गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥
निशिगंधा जपा भिण्डिरूपकः सकुरंटकः ॥ 7.1.206.११० ॥
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ॥ १११ ॥
रजतस्य तथा किञ्चिद्दर्शनं पुण्यदायकम् ॥
कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च ॥ ११२ ॥
रक्षोघ्नं चैव वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥
अथ मन्त्रं प्रवक्ष्यामि अमृतं ब्रह्मनिर्मितम् ॥ ११३ ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥
नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ ११४ ॥
आद्यावसाने श्राद्धस्य त्रिरावर्तमिमं जपन् ॥
अश्वमेधफलं ह्येतद्विप्रैः संज्ञाय पूजितम् ॥११५ ॥
पिण्डनिर्वपणे वापि जपेदेनं समाहितः ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ ११६ ॥
सप्तार्चिषं प्रवक्ष्यामि सर्वकामशुभप्रदम् ॥ ११७ ॥
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ॥
नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम् ॥ ११८ ॥
इन्द्रादीनां च नेतारो दक्षमारीचयस्तया ॥
तान्नमस्यामि सर्वान्वै पितॄंश्चैवौषधीस्तथा ॥ ११९ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनपि ॥
द्यावापृथिव्योश्च सदा नमस्यामि कृताञ्जलिः ॥ 7.1.206.१२० ॥
नमः पितृभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥
स्वयंभुवे नमस्यामो ब्रह्मणे योगचक्षुषे ॥१२१॥
एतत्त्वदुक्तं सप्तर्षिब्रह्मर्षिगणसेवितम् ॥
पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ १२२॥
अनेन विधिना युक्तस्त्रीन्वारांस्तु जपेन्नरः ॥
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ॥१२३॥
सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥
स तु सप्तसमुद्रायाः पृथिव्या एकराड्भवेत् ॥१२४॥
श्राद्धकल्पं पठेद्यो वै स भवेत्पंक्तिपावनः ॥
अष्टादशानां विद्यानां स च वै पारगः स्मृतः ॥ १२५ ॥
पूजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ॥
प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥ १२६ ॥
एवं प्रभासक्षेत्रे स सरस्वत्यब्धिसंगमे ॥
कुर्याच्छ्राद्धं विधानेन प्रभासे चैव भामिनि ॥ १२७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये सरस्वत्यब्धिसंगमे श्राद्धकल्पे श्राद्धविधिवर्णनंनाम षडुत्तरद्विशततमोऽध्यायः ॥ २०६ ॥