स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मंकीश्वर महालयम् ॥
रामेशादुत्तरे भागे देवमातुः समीपगम् ॥ १ ॥
अर्कस्थलात्ततो याम्ये पूर्वतश्च कृतस्मरात् ॥
लिंगं महाप्रभावं तु मंकिना स्थापितं पुरा ॥ २ ॥
तं दृष्ट्वा मानवः सम्यगश्वमेधफलं लभेत् ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कोऽसौ मंकिर्महादेव कथं लिंगं प्रतिष्ठितम् ॥
किं प्रभावं च तल्लिंगमेतन्मे वद विस्तरात् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
मंकिर्नामाभवत्पूर्वं कुब्जकायो द्विजोत्तमः ॥
प्रभासं क्षेत्रमासाद्यतपस्तेपे महत्तमम् ॥ ५ ॥
प्रतिष्ठाप्य महादेवं शिवभक्तिपरायणः ॥
न तुतोष हरस्तस्य वहुवर्षगणार्चितः ॥ ६ ॥
तस्यैवं तप्यमानस्य सिद्धिं प्राप्ता ह्यनेकशः ॥
तत्राराध्य महादेवं स्वर्गलोकमितो गताः ॥ ७ ॥
ततो दुःखं समभवन्मंकेस्तत्र वरानने ॥
कस्मान्मे भगवांस्तुष्टिं न गच्छति महेश्वरः ॥ ८ ॥
ततस्तीव्ररतिं चक्रे कृत्वा तीव्रनिवर्तनम् ॥
एवं वृद्धत्वमापन्नो जपध्यानपरायणः ॥ ९ ॥
तस्य तुष्टो महादेवो वयसोऽन्ते वरं ददौ ॥
परितुष्टोऽस्मि ते मंके ब्रूहि किं करवाणि ते ॥ 7.1.203.१० ॥
॥ मंकिरुवाच ॥ ॥
किं वरेण सुरश्रेष्ठ मम वृद्धस्य सांप्रतम् ॥
किञ्चिन्मे परमं दुःखं स्थितस्यात्र परं प्रभो ॥ ११ ॥
॥ शिव उवाच ॥ ॥
शृणु यत्कारणं तत्र तेषां तव तपस्विनाम् ॥
व्रतचर्याप्तये विप्राः पूजयन्त्यधिकं हि ते ॥१२॥
ते पुष्पाणि समानीय नानावर्णानि सर्वशः ॥
वृक्षाणामतिगंधीनि न तेषां हर्षकारणम् ॥ १३ ॥
त्वं पुनः कुब्जरूपश्च यज्ञपूजापरायणः ॥
न च प्राप्नोषि वृक्षाणां शाखाग्राण्यतियत्नवान् ॥ १४ ॥
एकेनापि प्रदत्तेन पुष्पेण द्विजसत्तम ॥
भक्त्या शिरसि लिंगस्य लभ्यते याज्ञिकं फलम्॥ १५ ॥
लिंगस्य दक्षिणे ब्रह्मा स्वयमेव व्यवस्थितः ॥
वामे च भगवान्विष्णुर्मध्येहं वै प्रतिष्ठितः ॥ १६ ॥
त्रयोऽपि पूजितास्तेन येन लिंगं प्रपूजितम् ॥ १७ ॥
बिल्वपत्रं शमीपत्रं करवीरं च मालतीम् ॥
उन्मत्तकं चम्पकं च सद्यः प्रीतिकरं भवेत् ॥ १८ ॥
चंपकाशोक कह्लारैः करवीरैस्तथा मम ॥
पूजेष्टा द्विजशार्दूल ये चान्ये वहुगंधिनः ॥
एतैर्हि पूजितो नित्यं शीघ्रं तुष्टिं प्रयाम्यहम् ॥ १९ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
इहागत्य नरः स्नात्वा यो जलेनापि सिञ्चति ॥ 7.1.203.२० ॥
लिंगमेतद्धि सर्वासां पूजानां फलमाप्नुयात् ॥
अद्यप्रभृति ये वृक्षा दैविकाः पार्थिवाश्च ये ॥
तेषां सान्निध्यमत्रास्तु प्रसादात्तव शंकर ॥ २१ ॥
॥ भगवानुवाच ॥ ॥
सलिलेनापि यः पूजामस्मिँल्लिंगे विधास्यति ॥
तस्य पूजाफलं सर्वं भविष्यति द्विजोत्तम ॥ ॥ २२ ॥
वृक्षाणामत्रसान्निध्यं सर्वेषां च भविष्यति ॥
अद्यप्रभृति नाम्नैतन्नागस्थानं भविष्यति ॥ २३ ॥
यतस्तु सर्वनागानां सांनिध्य मत्र संस्थितम् ।
त्वमपि द्विजशार्दूल प्रयास्यसि ममान्तिकम् ॥ २४ ॥
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥
मंकिस्तु देहमुत्सज्य शिवलोकं ततो गतः ॥ २५ ॥
इत्येवं कथितं देवि मंकीशोद्भवमुत्तमम् ॥
श्रुतं हरति पापानि सम्यक्छ्रद्धासमन्वितैः ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ ॥ २०३ ॥