स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्मिन्स्थाने महादेवि स्मशानं कालभैरवम् ॥
ब्रह्मकुण्डं वरारोहे यावद्देवः कृतस्मरः॥१॥
तत्र ये प्राणिनो दग्धा मृताः कालविपर्ययात् ॥
ते सर्वे मुक्तिमायांति महापातकिनोऽपि वा ॥२॥
कृतस्मरान्महादेवि यावन्मंकीश्वरः स्थितः ॥
महास्मशानं तद्देवि अपुनर्भवदायकम् ॥३॥
तस्मिन्स्थाने वहेद्यत्र विषुवं प्राणिनां प्रिये ॥
तत्रोषरं स्मृतं क्षेत्रं तन्मे प्रियतरं सदा ॥४॥
कल्पांतेऽपि न मुंचामि अविमुक्तात्प्रियं मम॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालभैरवस्मशानमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥



[सम्पाद्यताम्]

टिप्पणी

वहेद्यत्र विषुवं प्राणिनां प्रिये -- एतेन - तन्महास्मशानपरीक्षा प्रोच्यते - यस्मिन्स्थाने स्थितानां प्राणिनां विषुवं वहेत् - नासापुटद्वयात् समानतया श्वासोच्छ्वासनिर्गमनं भवति अर्थात् सुषुम्नासमुद्भवो भवति - तन्महास्मशानमपुनर्भवदायकम् इत्यर्थो बोध्यः।- स्कन्दपुराणे टीका।