स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २००

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
एवं विध्वंसिते यज्ञे गतास्ते ब्राह्मणा गृहम् ॥
अप्राप्तकामना देवि ये चान्ये तत्र वै गताः ॥ १ ॥
हरोऽपि विगतामर्षः कैलासं पर्वतं गतः ॥ २ ॥
एतस्मिन्नेव काले तु तारकोनाम दानवः ॥
उत्पन्नः स महाबाहुर्देवानां बलदर्पहा ॥ ३ ॥
तेन इन्द्रादिकान्सर्वान्सुराञ्जित्वा महाहवे ॥
स्वर्गः स्वैर्व्यापितो देवि ब्रह्मलोकं ततो गताः ॥
ऊचुः सुरा दुःखयुक्ता ब्रह्माणं पर्वतात्मजे ॥ ४ ॥
तारकेण सुरश्रेष्ठ स्वर्गान्निर्वासिता वयम् ॥
स्वयमिन्द्रः समभवद्वसवोऽन्ये तथा कृताः ॥ ५ ॥
रुद्राः साध्यास्तथा विश्वे अश्विनौ मरुतस्तथा ॥
आदित्याश्च वधोपायं तस्माद्वद पितामह ॥ ६ ॥
॥ ब्रह्मोवाच ॥ ॥
अवध्यः स तु सर्वेषां देवानामिति मे मतिः ॥
ऋते तु शांकरं तेजो नान्येन विनिपात्यते ॥
तस्माद्गच्छत भद्रं वो देवदेवं महेश्वरम् ॥ ७ ॥
तस्य भार्या मृता पूर्वं जाता हिमवतो गृहे ॥
तस्यां च जायते पुत्रः स हनिष्यति तारकम् ॥
तस्मात्प्रसादयध्वं वै तदर्थं शूलपाणिनम् ॥ ८ ॥
ततो देवैः समादिष्टः कामदेवो वरानने ॥
मृतभार्यं हरं गत्वा ततः पीडय सायकैः ॥ ९ ॥
येनासौ कामसंतप्तो भार्यार्थं यत्नवान्भवेत् ॥६
अयं गच्छतु ते भ्राता वसंतश्च मनोहरः ॥ 7.1.200.१० ॥
स तथेति प्रतिज्ञाय कैलासं पर्वतं गतः ॥
ततो दृष्ट्वा महादेवः कामदेवं धृतायुधम् ॥ ११ ॥
वसन्तसहितं देवि रुद्रोऽन्धकनिषूदनः ॥
गंगाद्वारमनुप्राप्य अपश्यद्यावदग्रतः ॥ १२ ॥
दत्तायुधं कामदेवं दुद्रुवे स भयात्पुनः ॥
ततो वाराणसीं गत्वा नैमिषं पुष्करं तथा ॥ १३ ॥
श्रीकंठं रुद्रकोटिं च कुरुक्षेत्रं गयां तथा ॥
ज्वालामार्गं प्रयागं च विशालामर्बुदं शुभम् ॥ १४ ॥
बहून्वर्षगणानेवं भ्रमन्स धरणीतले ॥
कामदेवभयाद्देवि देवदेवो महेश्वरः ॥ १५ ॥
अवैक्षत तदा कामं विस्फार्य नयनं तदा ॥
तृतीयं देवदेवेशि देवदेवस्त्रिलोचनः ॥ १६ ॥
तस्य तं वीक्षमाणस्य संजाताः पावकार्चिषः ॥
ताभिः स धनुषा युक्तो भस्मसात्समपद्यत ॥ १७ ॥
तं दग्ध्वा भगवाञ्छंभुर्गत्वा रोषस्य निर्णयम् ॥
निवासमकरोत्तत्र क्षेत्रे प्राभासिके शुभे ॥ १८ ॥
तस्मिन्दग्धे तदा कामे रतिः शोकपरायणा ॥
विललाप सुदुःखार्ता पतिभक्तिपरायणा ॥ १९ ॥
हा नाथनाथ भोः स्वामिन्किं जहासि पतिव्रताम् ॥
पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो ॥ 7.1.200.२० ॥
एवं विलपतीं तां तु वागुवाचाशरीरिणी ॥
मा त्वं रुद विशालाक्षि पुनरेव पतिस्तव ॥ २१ ॥
प्रसादाद्देवदेवस्य उच्छ्वास्यति शिवस्य तु ॥
एतां वाचं रतिः श्रुत्वा ततः स्वस्था बभूव ह ॥ २२ ॥
ततो देवाः शिवं नत्वा प्रार्थयामासुरीश्वरि ॥
कलत्रसंग्रहं देव कुरु कार्यार्थसंग्रहे ॥ २३ ॥
एष कामस्त्वया दग्धः क्रोधेन महता स्वयम् ॥
विना तेन विभो नष्टा सृष्टिर्वै धरणीतले ॥ २४ ॥
॥ भगवानुवाच ॥ ॥
एष कामो मया दग्धः क्रोधेन सुरसत्तमाः ॥
तस्मादनंग एवैष प्रजासु प्रचरिष्यति ॥
तद्वीर्यस्तत्प्रभावश्च विना देहं भविष्यति ॥ २५ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्कुरु पूर्वं त्वं संस्मरस्व रतीश्वरम् ॥
हिताय सर्व लोकानां यथा नः प्रत्ययो भवेत् ॥ २६ ॥
ततः स स्मृतवान्कामं स्वयं देवो महेश्वरः ॥
ततस्तच्छाश्वतं लिंगं समुत्तस्थौ महीतले ॥ २७ ॥
कृतस्मरः पुनस्तत्र अनंगो बलवांस्तथा ॥
तेनोढा शैलजा तेन शंकरेण महात्मना ॥ २८ ॥
जातः स्कन्दः सुरश्रेष्ठस्तारको येन सूदितः ॥
पतितेनैव लिंगेन यस्माच्चैव कृतस्मरः ॥ २९ ॥
तस्मात्कृतस्मरो लोके कीर्त्यते स महीतले ॥
तं दृष्ट्वा न जडो नांधो नासुखी न च दुर्भगः ॥
जायते तु कदा मर्त्यो न दरिद्रो न रोगवान् ॥ 7.1.200.३० ॥
एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
दग्धो यथा स्मरः पूर्वं पुनर्वीर्यान्वितः स्थितः ॥ ३१ ॥
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं कुण्डं दक्षिणेन कृतस्मरात् ॥
कामकुंडेति वै नाम यत्रोद्भूतः पुनः स्मरः ॥ ३२ ॥
अनंगरूपी देव्यत्र स्नानाद्वै रूपवान्भवेत् ॥
इक्षवस्तत्र वै देयाः सुवर्णं गास्तथैव च ॥
वस्त्राणि चैव विधिवद्ब्राह्मणे वेदपारगे ॥३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामकुण्डमाहात्म्यवर्णनंनाम द्विशततमोऽध्यायः ॥ २०० ॥