स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १९८

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि महाप्रभासमुत्तमम् ॥
जलप्रभासतो याम्ये यममार्गविघातकम् ॥ १ ॥
शृणु तस्यैव माहात्म्यं यथा जातं धरातले ॥ ॥ २ ॥
पूर्वं त्रेतायुगे देवि स्पर्शलिंगं तु तत्स्मृतम् ॥
दिव्यं तेजोमयं नृणां स्पर्शनान्मुक्तिदायकम् ॥ ३ ॥
अथ काले च कस्मिंश्चिद्वज्रिणाच्छादितं प्रिये ॥
इन्द्रेणागत्य वसुधां भयाक्रांतेन सुन्दरि ॥ ४ ॥
उष्मा तदुद्भवो देवि निर्गच्छन्नवरोधितः ॥
दशकोटिप्रविस्तीर्णं ज्वालाग्रं लिंगरूपधृक् ॥ ५ ॥
प्रभासक्षेत्रमास्थाय भित्त्वाऽऽविर्भावमास्थितम् ॥
वज्रेण रुंधिते देवि भित्त्वा चैव वसुंधराम् ॥ ६ ॥
धूमसंघैः समेतं तु व्यापयामास तज्जगत् ॥
ततस्त्रैलोक्यमखिलं ज्वालाभिर्व्याकुलीकृतम् ॥ ७ ॥
ततः सुरगणाः सर्व ऋषयो वेदपारगाः ॥
अस्तुवन्विविधैः सूक्तैर्वेदोक्तैः शशिशेखरम् ॥ ८ ॥
संहरस्व सुरश्रेष्ठ तेजः स्वदहनात्मकम् ॥ त्रै
लोक्यं व्याकुलीभूतमेवं सर्वं चराचरम् ॥
न यावत्प्रलयं याति तावद्रक्ष सुरेश्वर ॥ ९ ॥
॥ ईश्वर उवाच ॥ ॥
एवमाभाषमाणेषु त्रिदिवेषु सुरेश्वरि ॥
तत्तेजः पञ्चधाविष्टं व्याप्याशेषं जगत्त्रयम् ॥ ॥ 7.1.198.१० ॥
पञ्चप्रभासरूपेण भित्त्वा तत्र वसुन्धराम्॥
येन मार्गेण निष्क्रान्तं तन्मार्गे च महन्महः ॥ ११ ॥
तत्र तैः स्थापितं द्वारं सुप्रदेशेऽश्मजं प्रिये ॥
पिहितेऽथ च रंध्रेऽस्मिन्धूमो नाशमुपेयिवान् ॥ १२ ॥
स्वस्थाश्चैवाभवँल्लोकास्तेजस्तत्रैव संस्थितम् ॥
एवं मया प्रेरितास्ते लिंगं तत्र समादधुः ॥ १३ ॥
तन्महस्तत्र देवेशि विश्राममकरोत्तदा ॥
ततो महाप्रभासेति कीर्त्यते देवदानवैः ॥ १४ ॥
यस्तं पूजयते भक्त्या लिंगं पुष्पैः पृथग्विधैः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १५ ॥
दृष्टेन तेन देवेशि मुच्यते पातकैर्नरः ॥
लभते वाञ्छितान्कामान्मनसा चेप्सितान्प्रिये ॥ १६ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे शंसितव्रते ॥
गोदानं विधिवत्तत्र देयं चैव द्विजन्मने ॥ १७ ॥
एवं कृत्वा महादेवि लभते जन्मनः फलम् ॥
राजसूयाश्वमेधानां प्राप्नुयात्फलमूर्जितम् ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पञ्चमप्रभासक्षेत्रमाहात्म्यवर्णनंनामाष्टानवत्युत्तरशततमोऽध्यायः ॥ १९८ ॥