स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १९५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो वृद्धप्रभासं तु गच्छेच्च नियतात्मवान् ॥
आदिप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम् ॥ १ ॥
चतुर्मुखं महालिंगं दर्शनात्पापनाशनम् ॥ २ ॥
॥ श्रीदेव्युवाच ॥ ॥
कथं वृद्धप्रभासं तु नाम तस्याभवत्प्रभो ॥
तस्मिन्दृष्टे फलं किं स्यात्स्तुते संपूजिते तथा ॥ ३ ॥
एतत्कथय मे देव संक्षेपान्नातिविस्तरात् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
आदौ स्वायंभुवे देवि पूर्वमन्वन्तरे पुरा ॥
त्रेतायुगे चतुर्थे तु प्रभासे क्षेत्र उत्तमे ॥ ५ ॥
तस्मिन्काले महादेवि पूर्वमन्वंतरे पुरा ॥
त्रेतायुगे चतुर्थे तु ऋषयस्तत्र संगताः ॥ ६ ॥
दर्शनार्थं प्रभासस्य उत्तरापथगामिनः ॥
तं दृष्ट्वाऽऽच्छादितं देवं वज्रेण तु महेश्वरि ॥ ७ ॥
विषादं परमं जग्मुर्वाक्यं चेदमथाबुवन् ॥
अदृष्ट्वा शांकरं लिगं न यास्यामो वयं गृहम् ॥ ८ ॥
स्वर्गार्थिनो वयं प्राप्ता महदध्वानमेव हि ॥
तस्मादत्रैव तिष्ठामो यावल्लिंगस्य दर्शनम् ॥ ९ ॥
एवं ते निश्चयं कृत्वा परस्मिंस्तपसि स्थिताः ॥
वर्षास्वाकाशगा भूत्वा हेमंते सलिलाश्रयाः ॥ 7.1.195.१० ॥
पञ्चाग्निसाधना ग्रीष्मे नियता ब्रह्मचारिणः ॥
बहून्वर्षगणान्विप्रा जराग्रस्तास्तदाऽभवन् ॥ ११ ॥
एवं वृद्धत्वमापन्ना यदा ते वरवर्णिनि ॥
छन्द्यमाना वरैस्ते तु शंकरेण महात्मना ॥ १२ ॥
लिंगस्य दर्शनं मुक्त्वा न तेऽन्यं वव्रिरे वरम् ॥ १३ ॥
तेषां तु निश्चयं ज्ञात्वा सर्वेषां वृषभध्वजः ॥
अनुकम्पापरो भूत्वा स्वलिंगं तानदर्शयत् ॥ १४ ॥
एतस्मिन्नेव काले तु भित्त्वा चैव वसुन्धराम् ॥
उत्थितं सहसा लिंगं तदेव वरवर्णिनि ॥ १५ ॥
ऋषयस्ते च तं दृष्ट्वा सर्वे च त्रिदिवं गताः ॥
अथ तेषु प्रयातेषु शक्रस्तप्तमना ह्यभूत् ॥ १६ ॥
तमपि च्छादयामास वज्रेण शतपर्वणा ॥ १७ ॥
वृद्धभावे यतस्तेषामृषीणां दर्शनं गतः ॥
अतो वृद्धप्रभासं तत्कीर्त्यते वसुधातले ॥ १८ ॥!
तस्मिन्दृष्टे वरारोहे अद्यापि लभते फलम् ॥
राजसूयाश्वमेधानां नरो भक्तिसमन्वितः ॥ १९ ॥
एवं तत्र समुत्पन्नं प्रभासं वृद्धसंज्ञकम् ॥
तत्रोक्षा ब्राह्मणे देयः सम्यग्यात्राफलेप्सुभिः ॥ 7.1.195.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृद्धप्रभासमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥