स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव पश्चिमे भागे नातिदूरे व्यवस्थितम् ॥
चण्डिका कर्ममोटी च योगिनी कोटिसंयुता ॥
पीठत्रयं महादेवि आद्यं त्रैलोक्यवन्दितम् ॥ १ ॥
नवम्यां तत्र संपूज्य देवीपीठं च योगिनीम् ॥
स सर्वान्प्राप्नुयात्कामान्भवेत्स्वर्गांगनाप्रियः ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये कर्ममोटीमाहात्म्यवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः ॥ १८९ ॥