स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सर्वकामफलप्रदम् ॥
प्रभासपंचकं पुण्यमाद्यं तत्र व्यवस्थितम् ॥ १ ॥
तस्यैव पश्चिमे भागे प्रभास इति चोच्यते ॥
वृद्धप्रभासश्च ततो दक्षिणे नातिदूरतः ॥ २ ॥
जल प्रभासश्च ततो दक्षिणेन वरानने ॥
कृतस्मरप्रभासश्च श्मशानं यत्र भैरवम् ॥ ३ ॥
एवं पंचप्रभासान्यः पश्येद्भक्तया समन्वितः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ ४ ॥
न निवर्तति यत्प्राप्य दुष्प्राप्यं त्रिदशैरपि ॥
प्रभासं प्रथमं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ५ ॥
देवानामपि दुष्प्राप्यं महापातकनाशनम् ॥
प्रभासे त्वेकरात्रेण अमावास्यां कृतोदकः ॥ ६ ॥
मुच्यते पातकैः सर्वैः शिवलोकं स गच्छति ॥
सप्तजन्मकृतं पापं गंगासागरसंगमे ॥ ७ ॥
जन्मनां च सहस्रेण यत्पापं कुरुते नरः ॥
स्नानादेवास्य नश्येत सागरे लवणांभसि ॥ ८ ॥
चतुर्दश्याममावास्यां पञ्चदश्यां विशेषतः ॥
अहोरात्रोषितो भूत्वा ब्राह्मणान्भोज्य शक्तितः ॥ ९ ॥
दत्त्वा गां कांचनं तेभ्यः शिवः प्रीतो भवत्विति ॥
एवं कृत्वा नरो देवि कुलानां तारयेच्छतम् ॥ 7.1.187.१० ॥
॥ देव्युवाच ॥ ॥
प्रभासपंचकं ह्येतद्यत्त्वया परिकीर्तितम् ॥
कथमत्र समुद्भूतमेतन्मे कौतुकं महत् ॥ ११ ॥
एक एव श्रुतोऽस्माभिः प्रभासस्तीर्थवासितः ॥
प्रभासाः पंच देवेश यत्त्वया परिकीर्तिताः ॥ १२ ॥
एतन्मे संशयं सर्वं यथावद्वक्तुमर्हसि ॥ ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मानवो भक्त्या प्राप्नोति परमां गतिम् ॥ १४ ॥
पुरा महेश्वरो देवश्चचार वसुधामिमाम् ॥
दिव्यरूपधरः कान्तो दिग्वासाः स यदृच्छया ॥ १५ ॥
एवं च रममाणस्तु ऋषीणामाश्रमं महत् ॥
जगाम कौतुकाविष्टो भिक्षार्थं दारुके वने ॥ १६ ॥
भ्रममाणस्य तस्याथ दृष्ट्वा रूपमनुत्तमम् ॥
ता नार्यः कामसंतप्ता बभूवुर्व्यथितेन्द्रियाः ॥ १७ ॥
सानुरागास्ततः सर्वा अनुगच्छंति तं सदा ॥
समालिंगंति ताः काश्चित्काश्च वीक्षंति रागतः ॥ १८ ॥
प्रार्थयंति तथा चान्याः परित्यज्य गृहान्स्वकान् ॥ १९ ॥
एवं तासां स्वरूपं ते दृष्ट्वा सर्वे महर्षयः ॥
कोपेन महता युक्ताः शेपुस्तं वृषभध्वजम् ॥ ॥ 7.1.187.२० ॥
यस्मात्त्वं नग्नतामेत्य आश्रमेऽस्मिन्ममागतः ॥
मोहयानः स्त्रियोऽस्माकं लज्जां नैवं करोषि च ॥
तस्मात्ते पतताल्लिंगं सद्य एव वृषध्वज ॥ २१ ॥
ततस्तत्पतितं लिंगं तत्क्षणाच्छंकरस्य च ॥
तस्मिन्प्रपतिते भूमौ प्राकंपत वसुंधरा ॥ २२ ॥
क्षुभिताः सागराः सर्वे मर्यादा विजहुस्तदा ॥
शीर्णानि गिरिशृंगाणि त्रस्ताः सर्वे दिवौकसः ॥ २३ ॥
ततो देवाः सगन्धर्वाः समहोरगकिन्नराः ॥
ऊचुः पितामहं गत्वा किमेतत्कारणं विभो ॥ २४ ॥
सागराः क्षुभिता येन प्लावयंति वसुंधराम् ॥
शीर्यंते गिरिशृङ्गाणि कंपते च वसुंधरा ॥ २५ ॥
चिह्नानि लोकनाशाय दृश्यन्ते दारुणानि च ॥
तेषां तद्वचन श्रुत्वा ब्रह्मलोके पितामहः ॥ २६ ॥
ध्यात्वा तु सुचिरं कालं वाक्यमेतदुवाच ह ॥
शिवलिंगं निपतितं पृथिव्यां सुरसत्तमाः ॥ २७ ॥
शापेन ऋषिमुख्यानां भार्गवाणां महात्मनाम् ॥
तस्मिन्निपतिते भूमौ त्रैलोक्यं सचराचरम् ॥ २८ ॥
एतदवस्थतां प्राप्तं तस्मात्तत्रैव गम्यताम् ॥
विष्णुना सह गीर्वाणास्तथा नीतिर्विधीयताम् ॥ २९ ॥
ततः क्षीरोदधिं जग्मुर्ब्रह्माद्यास्त्रिदिवौकसः ॥
यत्र शेते चतुर्बाहुर्योगनिद्रां च संगतः ॥ 7.1.187.३० ॥
तस्मै सर्वं समाचख्युस्तेनैव सहितास्ततः ॥
जग्मुर्यत्र महादेवो लिंगेन रहितो विभुः ॥ ३१ ॥
ऊचुः समाहिताः सर्वे प्रणिपत्य दिवौकसः ॥३२॥
लिंगमुत्क्षिप्यतामेतद्यत्क्षितौ पतितं विभो ॥
एते महार्णवाः सर्वे प्लावयंति वसुंधराम् ॥३३॥
॥ भगवानुवाच ॥ ॥
ऋषिभिः पातितं ह्येतन्मम लिंगं सुरेश्वराः ॥
न तु शक्यो मया कर्तुं बाधस्तेषां महात्मनाम् ॥३४॥
शापो हि भार्गवेन्द्राणामतो मे श्रूयतां वचः ॥
पूजयध्वं सुराः सर्वे ब्रह्मविष्णुपुरस्सराः ॥३५॥
लिंगमेतत्ततः सर्वे सर्वं लिप्सथ सत्तमाः ॥
प्रकृतिं सागराः सर्वे यास्यंति गिरयस्तथा ॥ ३६ ॥
एतत्पुण्यतमे क्षेत्रे धृत्वा सर्वे समाहिताः ॥
अथोद्धृत्य सुराः सर्वे प्रभासं क्षेत्रमागताः ॥३७॥
तत्रैव निदधुः सर्वे ततः पूजां प्रचक्रिरे ॥
ब्रह्मणा पूजितं लिंगं विष्णुना प्रभविष्णुना ॥ ३८ ॥
शक्रेणाथ कुबेरेण यमेन वरुणेन च ॥
ऊचुश्चैव ततो देवा लिंगं संपूज्य भक्तितः ॥ ३९ ॥
अद्यप्रभृति रुद्रस्य लिंगं संपूज्य भक्तितः ॥
भविष्यामो न संदेहस्तथा पितृगणाश्च ये ॥ 7.1.187.४० ॥
य एनं पूजयिष्यंति भक्तियुक्ताश्च मानवाः ॥
यास्यंति ते सुरावासं सशरीरा नरोत्तमाः ॥ ४१ ॥
अत्रैव प्रथमं लिगं यतोस्माऽभिः प्रतिष्ठितम् ॥
प्रभासं नाम चास्यापि प्रभासेति भविष्यति ॥ ४२ ॥
एवमुक्त्वा गताः सर्वे त्रिदिवं सुरसत्तमाः ॥
तं दृष्ट्वा त्रिदिवं यान्ति भूयांसः प्राणिनो भुवि ॥ ४३ ॥
ततस्त्रिविष्टपं व्याप्तं बहुभिः प्राणिभिः प्रिये ॥
तद्दृष्ट्वा त्रिदिवं व्याप्तं सहस्राक्षः सुदुःखितः ॥ ४४ ॥
ज्ञात्वा लिंगप्रभावं तु ततश्चागत्य भूतलम् ॥
वज्रेणाच्छादयामास समंतात्स वरानने ॥ ४५ ॥
ततः प्रभृति नो देवि स्वर्गं गच्छंति मानवाः ॥
इति संक्षेपतः प्रोक्तः प्रभासस्य महोदयः ॥
सर्वपापोपशमनः सर्वकामफलं प्रदः ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये प्रभासपञ्चकमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ १८७ ॥