स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मंकीश्वरमनुत्तमम् ॥
त्रिसंगमसमीपस्थं सर्वपातकनाशनम्॥ १ ॥
मंकीनाम ऋषिः पूर्वमासीत्स तपतां वरः ॥
स च ज्ञात्वा महाक्षेत्रं प्रभासं शंकरप्रियम् ॥ २ ॥
अतपद्वै तपो घोरं कन्दमूलफलाशनः ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥
ततस्तुष्टो महादेवो ददौ प्रीतो वरं तदा ॥
स वव्रे यदि तुष्टोऽसि अस्मिन्स्थाने स्थितो भव ॥ ४ ॥
मन्नामांकितलिंगस्तु वस कल्पायुतायुतम् ॥
एवमस्त्वित्यथेत्युक्त्वा तत्रैवान्तरधीयत ॥ ५ ॥
तदाप्रभृति तल्लिंगं मंकीश्वरमिति श्रुतम्॥
माघे मासे त्रयोदश्यां चतुर्दश्यामथापि वा ॥ ६ ॥
पूज्याः पंचोपचारेण प्राप्नुयादीप्सितं फलम् ॥
गोदानं तत्र वै देयं सम्यग्यात्राफलेप्सुभिः ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ १८४ ॥