स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १७०

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मातृगणान्सुधीः ॥
तत्रैव बलदेवीं च नातिदूरे व्यवस्थिताम् ॥ १ ॥
श्रावण्यां श्रावणे मासि यस्तां पूजयते नरः ॥
पायसैर्मधुना वापि दिव्यपुष्पोपहारकैः ॥ ॥ २ ॥
तस्य वर्षं महादेवि सुखं गच्छेत्सुपूजितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मातृगणबलदेवीमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोध्यायः ॥ १७० ॥