स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वैवस्वतेश्वरम्॥
देव्या दक्षिणदिग्भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
वैवस्वतेन मनुना स्थापितं सर्वकामदम्॥
तत्समीपे देवखातं तिष्ठते तु महाद्भुतम् ॥ २ ॥
स्नात्वा तत्र वरारोहे यस्तं पूजयते नरः ॥
पञ्चोपचारैर्विधिना भक्तिप्रह्वो जितेन्द्रियः ॥
जपेदघोरविधिना स्तोत्रं सिद्धिं स चाप्नुयात् ॥ ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैवस्वतेश्वरमाहात्म्य वर्णनंनामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥ १६९ ॥