स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्रस्थां भूतमातृकाम् ॥
सावित्र्या वारूणे भागे शतधन्वंतरे स्थिताम् ॥
नवकोटि गणैर्युक्तां प्रेतभूतसमाकुलाम् ॥
पूजितां सिद्धगंधर्वैर्देवादिभिरनेकशः ॥ २ ॥
॥ देव्युवाच ॥ ॥
भूतमातेति संहृष्टा ग्रामेग्रामे पुरेपुरे ॥
गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥ ३ ॥
उन्मत्तवत्प्रलपते क्षितौ पतति मत्तवत् ॥
क्रुद्धवद्धावति परान्मृतवत्कृष्यते हि सः ॥ ४ ॥
सुखभंगांश्च कुरुते लोको वातगृहीतवत् ॥
भूतवद्भस्ममूत्रांबुकर्दमानवगाहते ॥ ५ ॥
किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ॥
मुह्यते मे मनो देव तेन त्वं वक्तुमर्हसि ॥ ६ ॥
कथं सा पुरुषैः पूज्या प्रभासक्षेत्रवासिभिः ॥
कस्मात्तत्र गता देवी कस्मिन्काले समागता ॥
कस्मिन्दिने तु मासे तु तस्याः कार्यो महोत्सवः ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यत्ते किंचिन्मनोगतम् ॥
आस्तिकाः श्रद्दधानाश्च भवन्तीति मतिर्मम ॥ ८ ॥
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतेऽन्तरे ॥
दक्षापमानात्संजाता तदा पर्वतपुत्रिका ॥ ९ ॥
द्वापरे तु द्वितीये वै दत्ता त्वं पर्वतेन मे ॥
विवाहे चैव संजाते सर्वदेवमनोरमे ॥ 7.1.167.१० ॥
त्वया च सहितः पूर्वं मन्दरे चारुकंदरे ॥
अक्रीडं च मुदा युक्तो दिव्यक्रीडनकैः प्रिये ॥
पीनोन्नतनितंबेन भ्राजमाना कुचोन्नताम् ॥ ११ ॥
सिताब्जवदनां हृष्टां दृष्ट्वाऽहं त्वां महाप्रभाम् ॥
दग्धकामतरोः कन्दकंदलीमिव निःसृताम् ॥
महार्हशयनस्थां त्वां तदा कामितवानहम् ॥ १२ ॥
सुरते तव संजातं दिव्यं वर्षशतं यदा ॥
तदा देवि समुत्थाय निरोधान्निर्गता बहिः ॥ ॥ १३ ॥
तवोदकात्समुत्तस्थौ नार्येका गह्वरोदरा ॥
कृष्णा करालवदना पिंगाक्षी मुक्तमूर्धजा ॥ १४ ॥
कपालमालाभरणा बद्धमुण्डार्धपिंडका ॥
खट्वांगकंकालधरा रुण्डमुंडकरा शिवा ॥ १५ ॥
द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखला ॥
डमड्डमरुकारा च फेत्कारपूरिताम्बरा ॥ १६ ॥
तस्याश्च पार्श्वगा अन्यास्तासां नामानि मे शृणु ॥
सख्यो ब्राह्मणराक्षस्यस्तासां चैव सुदर्शनाः ॥ १७ ॥
दशकोटिप्रभेदेन धरां व्याप्य सुसंस्थिताः ॥
मुख्यास्तत्र चतस्रो वै महाबलपराक्रमाः ॥ १८ ॥
रक्तवर्णा महाजिह्वाऽक्षया वै पापकारिणी ॥
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १९ ॥
श्लेष्मातकतरौ ह्येते प्रायशः सुकृतालयाः ॥
उत्तालतालचपला नृत्यंति च हसंति च ॥ 7.1.167.२० ॥
विज्ञेया इह लोकेऽस्मिन्भूतानां मूलनायकाः ॥
अतिकृष्णा भवन्त्येते व्यंतरान्तरचारिणः ॥ २१ ॥
वृक्षाग्रमात्रमाकाशं ते चरंति न संशयः ॥ ॥ २२ ॥
तथैव मम वीर्यात्तु मद्रूपाभरणः पुमान् ॥
कपालखट्वांगधरो जातश्चर्मविगुण्ठितः ॥ २३ ॥
अनुगम्यमानो बहुभिर्भूतैरपि भयंकरः ॥
सिंहशार्दूलवदनैर्वदनोल्लिखितांबरैः ॥ २४ ॥
एवं देवि तदा जातः क्षुधाक्रान्तो बभाष माम् ॥
अतोऽहं क्षुधितं दृष्ट्वा वरं हीमं च दत्तवान् ॥ २५ ॥
युवयोर्हस्तसंस्पर्शान्नक्तमेवास्तु सर्वशः ॥
नक्तं चैव बलीयांसौ दिवा नातिबलावुभौ ॥
पुत्रवद्रक्षतं लोकान्धर्मश्चैवानुपाल्यताम् ॥ ॥ २६ ॥
इत्युक्तौ तौ मया तत्र भूतमातृगणौ प्रिये ॥
एकीभूतौ क्षणेनैव तौ भवानीभवोद्भवौ ॥ २७ ॥
दृष्ट्वा हृष्टमनाश्चाहमवोचं त्वां शुचिस्मिते ॥ २८ ॥
कल्याणि पश्यपश्यैतौ ममांशाच्च समुद्भवौ ॥
बीभत्साद्भुतशृंगारधारिणौ हास्यकारिणौ ॥२९॥
भ्रातृभांडा भूतमाता तथैवोदकसेविता ॥
संज्ञात्रयं स्मृतं देवि लोके विख्यातपौरुषम् ॥7.1.167.३०॥
पुनः कृतांजलिपुटौ दृष्ट्वा मामूचतुस्तदा ॥
आवयोर्भगवन्कुत्र स्थाने वासो भविष्यति ॥३१॥
इत्युक्तवन्तौ तौ तत्र वरेण च्छन्दितौ मया ॥
अस्ति सौराष्ट्रविषये भारते क्षेत्रमुत्तमम् ॥३२॥
प्रभासेति समाख्यातं तत्र क्षेमं मम प्रियम् ॥
कूर्मस्य नैर्ऋते भागे स्थितं वै दक्षिणे परे॥३३॥
स्वाती विशाखा मैत्रं च यत्र ऋक्षत्रयं स्मृतम्॥
तस्मिन्स्थाने सदा स्थेयं यावन्मन्वन्तरावधि॥३४॥
अन्यदा जीविकं वच्मि तव भूतप्रिये सदा ॥ ३५ ॥
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ॥
भार्या पुनर्भूर्वल्मीकस्तास्ते वसतयश्चिरम् ॥ ३६ ॥
यस्मिन्गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ॥
अन्धकारेंधनाग्निश्च तद्गृहे वसतिस्तव ॥ ३७ ॥
भूतैः प्रेतैः पिशाचैश्च यत्स्थानं समधिष्ठितम् ॥
एकावि चाष्टबालेयं त्रिगवं पञ्चमाहिषम् ॥
षडश्वं सप्तमातंगं तद्गृहे वसतिस्तव ॥ ३८ ॥
उद्दालकान्नपिटकं तद्वत्स्थाल्यादिभाजनम् ॥
यत्र तत्रैव क्षिप्तं च तव तच्च प्रतिश्रयम् ॥ ३९ ॥
मुशलोलूखले स्त्रीणामास्या तद्वदुदुंबरे ॥
भाषणं कटुकं चैव तत्र देवि स्थितिस्तव ॥ 7.1.167.४० ॥
खाद्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥
तद्वच्छाखाश्च तत्र त्वं भूतैः सह चरिष्यसि ॥ ४१ ॥
स्थालीपिधाने यत्राग्निं ददते विकला नराः ॥
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥ ४२ ॥
मानुष्यास्थि गृहे यत्र अहोरात्रे व्यवस्थितम् ॥
तत्रायं भूतनिवहो यथेष्टं विचरिष्यति ॥ ४३ ॥
सर्वस्मादधिकं ये न प्रवदन्ति पिनाकिनम् ॥
साधारणं वदंत्येनं तत्र भूतैः समाविश ॥ ४४ ॥
कन्या च यत्र वै वल्ली रोहीनाम जटी गृहे ॥
अगस्त्य पादपो वापि बंधुजीवो गृहेषु वै ॥ ४५ ॥
करवीरो विशेषेण नंद्यावर्तस्तथैव च ॥
मल्लिका वा गृहे येषां भूतयोग्यं गृहं हि तत् ॥ ४६ ॥
तालं तमालं भल्लातं तिंतिणीखंडमेव वा ॥
बकुलं कदलीखंडं कदंबः खदिरोऽपि वा ॥४७॥
न्यग्रोधो हि गृहे येषामश्वत्थं चूत एव वा ॥
उदुंबरश्च पनसः सर्वभूत प्रियं हि तत् ॥४८॥
यत्र काकगृहं वै स्यादारामे वा गृहेऽपि वा ॥
भिक्षुबिंबं च वै यत्र गृहे दक्षिणके तथा ॥४९॥
बिंबमूर्ध्वं च यत्रस्थं तत्र भूतनिवेशनम् ॥7.1.167.५०॥
लिंगार्चनं न यत्रैव यत्र नास्ति जपादिकम् ॥
यत्र भक्तिविहीना वै भूतानां तान्गृहान्वदेत् ॥५१॥
मलिनास्यास्तु ये मर्त्या मलिनांबर धारिणः ॥
मलदंता गृहस्था ये गृहं तेषां समाविश ॥५२॥
अगम्यनिरता ये तु मैथुने व्यभिचारतः ॥
संध्यायां मैथुनं यांति गृहं तेषां समाविश ॥ ॥ ५३ ॥
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥
रुद्रभक्तिविहीना ये गृहं तेषां समाविश ॥ ५४ ॥
अदत्त्वा भुंजते योऽन्नं बंधुभ्योऽन्नं तथोदकम् ॥
सपिण्डान्सोदकांश्चैव तत्कालात्तान्नरान्भज ॥ ५५ ॥
यत्र भार्या च भर्ता च परस्परविरोधिनौ ॥
सह भूतैर्गृहं तस्य विश त्वं भयवर्ज्जिता ॥ ५६ ॥
वासुदेवे रतिर्नास्ति यत्र नास्ति सदा हरिः ॥
जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ॥ ५७ ॥
पर्वस्वप्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥ ५८ ॥
कृष्णाष्टम्यां च ये मर्त्याः संध्यायां भस्मवर्जिताः ॥
पंचदश्यां महादेवं न यजंति च यत्र वै ॥५९॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धा महोत्सवाः ॥
क्रियते पूर्ववन्नैव तद्गृहं वसतिस्तव ॥ 7.1.167.६० ॥
वेदघोषो न यत्रास्ति गुरुपूजादिकं न च ॥
पितृकर्मविहीनं च तद्भूतस्य गृहं स्मृतम् ॥। ॥ ६१ ॥
रात्रौरात्रौ गृहे यस्मिन्कलहो जायते मिथः ॥
बालानां प्रेक्षमाणानां यत्र वृद्धश्च पूर्वतः ॥
भक्षयेत्तत्र वै हृष्टा भूतैः सह समाविश ॥६२॥
कस्मिन्मासे दिने चापि भवित्री लोकपूजिता ॥
इत्युक्तोऽहं तया देवि तामवोचं पुनः प्रिये ॥६३॥
अमा या माधवे मासि तस्मिन्या च चतुर्दशी ॥
तस्यां महोत्सवस्तत्र भविता ते चिरंतनः॥६४॥
याः स्त्रियस्तां च यक्ष्यंति तस्मिन्काले महोत्सवे॥
बलिभिः पुष्पधूपैश्च मा तासां त्वं गृहे विश॥६५॥
नारायण हृषीकेश पुण्डरीकाक्ष माधव ॥
अच्युतानंत गोविंद वासुदेव जनार्दन ॥ ६६ ॥
नृसिंह वामनाचिंत्य केशवेति च ये जनाः ॥
रुद्र रुद्रेति रुद्रेति शिवाय च नमोनमः ॥ ६७ ॥
वक्ष्यंति सततं हृष्टास्तेषां धनगृहादिषु ॥
आरामे चैव गोष्ठे च मा विशेथाः कथंचन ॥ ६८ ॥
देशाचाराञ्ज्ञा तिधर्माञ्जपं होमं च मंगलम् ॥
दैवतेज्यां विधानेन शौचं कुर्वंति ये जनाः ॥
लोकापवादभीता ये पुमांसस्तेषु मा विश ॥६९॥
॥ देव्युवाच ॥
कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ॥
पुरुषैर्देवदेवेश एतन्मे वक्तुमर्हसि ॥ 7.1.167.७० ॥
॥ ईश्वर उवाच ॥ ॥
सर्वत्रैषा भगवती बालानां हितकारिणी ॥
नामभेदैः कालभेदैः क्रियाभेदैश्च पूज्यते ॥७१॥
प्रतिपत्प्रभृति वैशाखे यावच्चतुर्दशीतिथिः ॥
तावत्पूजा प्रकर्तव्या प्रेरणीप्रेक्षणीयकैः ॥ ७२ ॥
भग्नामपि गतां चैनां जरत्तरुतले स्थिताम् ॥
सेचयिष्यंति ये भक्त्या जलसंपूर्णगंडुकैः ॥ ७३ ॥
ग्रीवासूत्रकसिन्दूरैः पुष्पैर्धूपैस्तथार्चयेत्॥
तत्र सिद्धवटः पूज्यः शाखां चास्य विनिक्षिपेत्॥ ७४ ॥
पूजितां तां नरैर्यत्नादवलोक्य शुभेप्सुभिः ॥
भोजयेत्क्षिप्रासंयावकृशरापूपपायसैः ॥७५॥
एवं विधिं यः कुरुते पुरुषो भक्तिभावतः ॥
स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ॥७६॥
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥
पीडां कुर्वन्ति शिशवो यान्ति वृद्धिमनामयाम् ॥ ७७ ॥
अथ देवि प्रवक्ष्यामि प्रतिपत्प्रभृति क्रमात् ॥
यथोत्सवो नरैः कार्यः प्रेरणीप्रेक्षणीयकैः ॥७८॥
विकर्मफलनिर्द्देशैः पाखंडानां विटंबनैः ॥
प्रदर्श्यते हास्यपरैर्नरैरद्भुतचेष्टितैः ॥ ७९ ॥
पञ्चम्यां तु विशेषेण रात्रौ कोलाहलः शुभे ॥
जागरं तत्र कुर्वीत देवीं पूज्य प्रयत्नतः ॥ 7.1.167.८० ॥
विश्वस्य धनलोभेन स्वाध्यायो निहतः पतिः॥
आरोप्यमाणं शूलाग्रमेनं पश्यत भो जनाः॥८१॥
दृष्टो भवद्भिर्दुष्टः स परदारावमर्शकः ॥
छित्त्वा हस्तौ च खड्गेन खरारूढस्तु गच्छति ॥ ८२ ॥
शीर्णश्चैवासिपत्रेण अस्याभरणभूषितः ॥
सुखासन समारूढः सुकृती यात्यसौ सुखम् ॥ ८३ ॥
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ॥
करपत्रैर्विदार्यंतमुच्छलच्छोणितान्तरम् ॥ ८४ ॥
चौरः किलायं संप्राप्तः सर्वोद्वेगकरः परः ॥
दंडप्रहाराभिहतो नीयते दंडपाशकैः ॥ ८५ ॥
प्रेक्षकैश्चेष्टितः शश्वदारटन्विविधैः स्वरैः ॥
संयम्य नीयते हन्तुं लज्जितोऽधोमुखो जनाः ॥ ८६ ॥
सितकेशं सितश्मश्रुं सितांबरधरध्वजम् ॥
विटंकाद्यैश्च चेटीभिर्हन्यमानं न पश्यथि ॥८७॥
गृहान्निष्क्राम्य मां रंडां गृहं नीत्वाऽकरोद्रतिम् ॥
कस्मादसौ न कुरुते मूढो भरणपोषणम् ॥ ८८ ॥
भैरवाभरणो नेता सदा घूर्णितलोचनः ॥
प्रवृत्ततंद्रवन्मूढो वध्यश्चासावितस्ततः ॥८९॥
निर्वेदेकोऽस्य हृदये धनक्षेत्रादिसंभवः ॥
गृहीतं यदनेनाद्य बालेनापि महाव्रतम् ॥
रक्ताक्षं काककृष्णांगं सत्वरं किं न पश्यथि ॥ 7.1.167.९० ॥
तरुकोटरगान्बद्ध्वा अन्याञ्छृंखलया तथा ॥
शरौघैः काष्ठकैश्चैव बहुभिः शकलीकृतान् ॥ ९१ ॥
विमुक्तहक्काहुंकारा न्सुप्रहारान्निरीक्षत ॥ ९२ ॥
इमां कृष्णार्धवदनां ग्रहीष्यसि दुरात्मिकाम् ॥
विमुक्तकेशां नृत्यन्तीं पश्यध्वं योगिनीमिव ॥ ९३ ॥
गम्भीर नूपुरध्वानप्रवृद्धोद्धततांडवा ॥
उन्मत्तनेत्रचरणा यात्येषा डिम्भमण्डली ॥ ९४ ॥
कटीतटस्थपिटिकोल्लसत्कंबलधारिणी ॥
अटते नटती ह्युर्वी परितश्च गृहाद्गृहम् ॥ ९५ ॥
इत्येवमादिभिर्नित्यं प्रेरणीप्रेक्षणीयकैः ॥
प्रेरयेत्तान्महानित्थं पुत्रभ्रातृसुहृद्वृतः ॥ ९६ ॥
एकादश्यां नवम्यां वा दीपं प्रज्वाल्य कुण्डकम् ॥
मुखबिंबानि तत्रैव लेपदारुकृतानि वै ॥ ९७ ॥
विचित्राणि महार्हाणि रौद्रशान्तानि कारयेत् ॥
मातृणां चण्डिकादीनां राक्षसानां तथैव च ॥ ९८ ॥
भूतप्रेतपिशाचानां शाकिनीनां तथैव च ॥
मुखानि कारयेत्तत्र हावभावकृतानि च ॥ ९९ ॥
रक्षिभिर्बहुभिर्गुप्तं तिर्य ग्ध्वनिपुरःसरम् ॥
अमावास्यां महादेवि क्षिपेत्पूजाक्रमैर्नरः ॥ 7.1.167.१०० ॥
ततः प्रदोषसमये यत्र देवी जनैर्वृता ॥
तत्र गच्छेन्महारावैः फेत्कारा कुलकीर्तनैः ॥ १०१ ॥
वीरचर्याविधानेन नगरे भ्रामयेन्निशि ॥
वीरचर्या स कथितो दीपः सर्वार्थसाधकः ॥ १०२ ॥
नित्यं निष्क्रामयेद्दीपं याव त्पञ्चदशी तिथिः ॥
पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥
तस्य गृहेश्वरं यावद्गृहे विघ्नं न जायते ॥ १०३ ॥
अथ कालान्तरेऽतीते भूतमातुः शरीरतः ॥
जाताः प्रस्वेदबिन्दुभ्यः पिशाचाः पञ्चकोटयः ॥ १०४ ॥
सर्वे ते क्रूरवदना जिह्वाज्वालाकृशोदराः ॥
पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ॥ १०५ ॥
धमनीसंतताः शुष्काः श्मश्रुलाश्चर्मवाससः ॥
उलूखलैराभरणैः शूर्पच्छत्रासनांबराः ॥ १०६ ॥
नक्तं ज्वलितकेशाढ्या अंगारानुद्गिरंति वै ॥
अंगारकाः पिशाचास्ते मातृमार्गानुसारिणः ॥ १०७ ॥
आकर्णदारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥
बलाढ्यास्ते पिशाचा वै सूतिकागृहवासिनः ॥ १०८ ॥
पृष्ठतः पाणिपादाश्च पृष्ठगा वातरंहसा ॥
विषादनाः पिशाचास्ते संग्रामे पिशिताशनाः ॥ ॥ १०९ ॥
एवंविधान्पिशाचांस्तु दृष्ट्वा दीनानुकम्पया ॥
तेभ्योऽहमवदं किञ्चित्कारुण्यादल्पचेतसाम् ॥ 7.1.167.११० ॥
अन्तर्धानं प्रजादेहे कामरूपित्वमेव च ॥
उभयोः संध्ययोश्चारं स्थानान्याजीवितं तथा ॥ १११ ॥
गृहाणि यानि नग्नानि शून्यान्यायतनानि च ॥
विध्वस्तानि च यानि स्यू रचनारोषितानि च॥ ११२ ॥
राजमार्गोपरथ्याश्च चत्वराणि त्रिकाणि च ॥
द्वाराण्यट्टालकांश्चैव निर्गमान्संक्रमांस्तथा ॥ ॥ ११३ ॥
पथो नदीश्च तीर्थानि चैत्यवृक्षान्महापथान् ॥
स्थानानि तु पिशाचानां निवासायाददां प्रिये ॥ ११४ ॥
अधार्मिका जनास्तेषामा जीवो विहितः पुरा ॥
वर्णाश्रमाचारहीनाः कारुशिल्पिजनास्तथा ॥ ११५ ॥
अनुतापाश्च साधूनां चौरा विश्वासघातिनः ॥
एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः ॥ ११६ ॥
आरभ्यते क्रिया यास्तु पिशाचास्तत्र देवताः ॥
मधुमासदिने दध्ना तिलचूर्णसुरासवैः ॥ ११७ ॥
पूपैर्हारिद्रकृशरैस्तिलैरिक्षुगुडौदनैः ॥
कृष्णानि चैव वासांसि धूम्राः सुमनसस्तथा ॥ ११८ ॥
सर्वभूतपिशाचानां कृता देवी मया शुभा ॥
एवंविधा भूतमाता सर्वभूतगणैर्वृता ॥ ११९ ॥
प्रभासे संस्थिता देवी समुद्रादुत्तरेण तु ॥
य एतां वेद वै देव्या उत्पत्तिं पापनाशिनीम् ॥ 7.1.167.१२० ॥
कुत्सिता संतति स्तस्य न भवेच्च कदाचन ॥
भूतप्रेतपिशाचानां न दोषैः परिभूयते ॥ १२१ ॥
सर्वपापविनिर्मुक्तः सर्वसौभाग्यसंयुतः ॥
सर्वान्कामानवाप्नोति नारीहृदयनंदनः ॥ १२२ ॥
ये मानयंति निजहासकलैर्विलासैः संसेवया अभयदा भवभूतमाताम् ॥
ते भ्रातृभृत्यसुतबंधुजनैर्युताश्च सर्वोपसर्ग रहिताः सुखिनो भवन्ति ॥ १२३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भूत मातृकामाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥