स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६६

विकिस्रोतः तः

॥ देव्युवाच ॥ ॥
प्रभासे संस्थिता या तु सावित्री ब्रह्मणः प्रिया ॥
तस्याश्चरित्रं मे ब्रूहि देवदेव जगत्पते ॥ १ ॥
व्रतमाहात्म्यसंयुक्तमितिहाससमन्वितम् ॥
पाति व्रत्यकरं स्त्रीणां महाभाग्यं महोदयम् ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
कथयामि महादेवि सावित्र्याश्चरितं महत् ॥
प्रभासक्षेत्रसंस्थायाः स्थल स्थाने महेश्वरि ॥
यथा चीर्णं व्रतकरं सावित्र्या राजकन्यया ॥ ३ ॥
आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ॥
पार्थिवोऽश्वपतिर्नाम पौरजानपद प्रियः ॥ ४ ॥
क्षमावाननपत्यश्च सत्यवादी जितेन्द्रियः ॥
प्रभासक्षेत्रयात्रायामाजगाम स भूपतिः ॥
यात्रां कुर्वन्विधानेन सावित्रीस्थलमागतः ॥ ५ ॥
स सभार्यो व्रतमिदं तत्र चक्रे नृपः स्वयम् ॥
सावित्रीति प्रसिद्धं यत्सर्वकामफलप्रदम् ॥ ६ ॥
तस्य तुष्टाऽभवद्देवि सावित्री ब्रह्मणः प्रिया ॥
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता ॥ ७ ॥
कमंडलुधरा देवी जगामादर्शनं पुनः ॥
कालेन वहुना जाता दुहिता देवरूपिणी ॥ ८ ॥
सावित्र्या प्रीतया दत्ता सावित्र्याः पूजया तथा ॥
सावित्रीत्येव नामाऽस्याश्चक्रे विप्राज्ञया नृपः॥ ९ ॥
सा विग्राहवतीव श्रीः प्रावर्धत नृपात्मजा ॥
सावित्री सुकुमारांगी यौवनस्था बभूव ह ॥ 7.1.166.१० ॥
या सुमध्या पृथुश्रोणी प्रतिमा काञ्चनी यथा ॥
प्राप्तेयं देवकन्या वा दृष्ट्वा तां मेनिरे जनाः ॥ ॥ ११ ॥
सा तु पद्मा विशालाक्षी प्रज्वलतीव तेजसा ॥
चचार सा च सावित्री व्रतं यद्भृगुणोदितम् ॥१२॥
अथोपोष्य शिरःस्नाता देवतामभिगम्य च ॥
हुत्वाग्निं विधिवद्विप्रान्वाचयेद्वरवर्णिनी ॥१३॥
तेभ्यः सुमनसः शेषां प्रतिगृह्य नृपात्मजा॥
सखीपरिवृताऽभ्येत्य देवी श्रीवत्सरूपिणी ॥१४॥
साऽभिवाद्य पितुः पादौ शेषां पूर्वं निवेद्य च ॥
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ १५ ॥
तां दृष्ट्वा यौवनप्राप्तां स्वां सुतां देवरूपिणीम् ॥
उवाच राजा संमन्त्र्य पुत्र्यर्थं सह मन्त्रिभिः ॥ १६ ॥
पुत्रि प्रदानकालस्ते न हि कश्चिद्वृणोति माम् ॥
विचारयन्न पश्यामि वरं तुल्यमिहात्मनः ॥ ॥१७॥
देवादीनां यथा वाच्यो न भवेयं तथा कुरु ॥
पठ्यमानं मया पुत्रि धर्मशास्त्रेषु च श्रुतम् ॥१८॥
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥
ब्रह्महत्या पितुस्तस्य सा कन्या वृषली स्मृता ॥ १९ ॥
अतोऽर्थं प्रेषयामि त्वां कुरु पुत्रि स्वयंवरम् ॥
वृद्धैरमात्यैः सहिता शीघ्रं गच्छावधारय ॥ ॥ 7.1.166.२० ॥
एवमस्त्विति सावित्री प्रोच्य तस्माद्विनिर्ययौ ॥
तपोवनानि रम्याणि राजर्षीणां जगाम सा ॥ २१ ॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमाणि च ॥ २२ ॥
आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः ॥
तत्रापश्यत देवर्षिं नारदं पुरतः शुचिम् ॥ २३ ॥
आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ॥
कथयामास तत्कार्यं येनारण्यं गता च सा ॥ २४ ॥
॥ सावित्र्युवाच ॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ॥
द्युमत्सेन इति ख्यातो दैवादन्धो वभूव सः ॥ २५ ॥
आर्यस्य बालपुत्रस्य द्युमत्सेनस्य रुक्मिणा ॥
सामन्तेन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ २६ ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ॥ २७ ॥
स तस्य च वने वृद्धः पुत्रः परमधार्मिकः ॥
सत्यवागनुरूपो मे भर्तेति मनसेप्सितः ॥ २८ ॥
॥ नारद उवाच ॥ ॥
अहो बत महत्कष्टं सावित्र्या नृपते कृतम् ॥
बालस्वभावादनया गुणवान्सत्यवाग्वृतः ॥ २९ ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥
सत्यं वदेति मुनिभिः सत्यवान्नाम वै कृतम् ॥7.1.166.३०॥
नित्यं चाश्वाः प्रियास्तस्य करोत्यश्वाश्च मृन्मयान् ॥
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ ३१ ॥
सत्यवान्रंतिदेवस्य शिष्यो दानगुणैः समः ॥
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ ३२ ॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ॥
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३३ ॥
एको दोषोऽस्ति नान्यश्च सोऽद्यप्रभृति सत्यवान् ॥
संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति ॥ ३४ ॥
नारदस्य वचः श्रुत्वा दुहिता प्राह पार्थिवम् ॥ ३५ ॥
॥ सावित्र्युवाच ॥ ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति ब्राह्मणाः ॥
सकृत्कन्या प्रदीयेत त्रीण्येतानि सकृत्सकृत् ॥ ३६ ॥
दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा ॥
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ३७ ॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते ॥
क्रियते कर्मणा पश्चात्प्रमाणं हि मनस्ततः ॥ ३८ ॥
॥ नारद उवाच ॥ ॥
यद्येतदिष्टं भवतः शीघ्रमेव विधीयताम् ॥
अविघ्नेन तु सावित्र्याः प्रदानं दुहितुस्तव ॥ ३९ ॥
एवमुक्त्वा समुत्पत्य नारूदस्त्रिदिवं गतः ॥
राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ॥
शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः ॥ 7.1.166.४० ॥
सावित्र्यपि च तं लब्ध्वा भर्तारं मनसेप्तितम् ॥।
मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ॥ ४१ ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ॥
कालस्तु पश्यतां किञ्चिदतिचक्राम पार्वति ॥ ४२ ॥
सावित्र्यास्तु तदा नार्यास्तिष्ठन्त्याश्च दिवानिशम् ॥
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ ४३ ॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ॥
प्राप्तः कालोऽथ मर्तव्यो यत्र सत्यव्रतो नृपः ॥ ४४ ॥
ज्येष्ठमासे सिते पक्षे द्वादश्यां रजनीमुखे ॥
गणयंत्याश्च सावित्र्या नारदोक्तं वचो हृदि ॥ ४५ ॥
चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ॥
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽऽश्रमे ॥ ४६ ॥
ततस्त्रिरात्रं न्यवसत्स्नात्वा संतर्प्य देवताम् ॥
श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी ॥ ४७ ॥
अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ॥
सावित्र्यपि च भर्तारं गच्छंतं पृष्ठतोऽन्वयात् ॥ ४८ ॥
ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ॥
अथ शुष्काणि चादाय काष्ठभारमकल्पयत् ॥ ४९ ॥
अथ पाटयतः काष्ठं जाता शिरसि वेदना ॥
काष्ठभारं क्षणात्त्यक्त्वा वटशाखावलंबितः ॥ 7.1.166.५० ॥
सावित्रीं प्राह शिरसो वेदना मां प्रबाधते ॥
तवोत्संगे क्षणं तावत्स्वप्तुमिच्छामि सुन्दरि ॥ ५१ ॥
विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ॥
पश्चादपि गमिष्यामि ह्याश्रमं श्रमनाशनम् ॥ ॥ ५२ ॥
यावदुत्संगगं कृत्वा शिरोस्य तु महीतले ॥
तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम् ॥ ५३ ॥
किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ॥
तमुवाचाथ सावित्री प्रणम्य मधुराक्षरम् ॥ ५४ ॥
कस्त्वं देवोऽथवा दैत्यो यो मां धर्षितुमागतः ॥
न चाहं केनचिच्छक्या स्वधर्माद्देव रोधितुम् ॥ ५५ ॥
विद्धि मां पुरुषश्रेष्ठ दीप्तामग्निशिखामिव ॥ ५६ ॥
॥ यम उवाच ॥ ॥
यमः संयमनश्चास्मि सर्वलोकभयंकरः ॥ ५७ ॥
क्षीणायुरेष ते भर्ता संनिधौ ते पतिव्रते ॥
न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः ॥ ५८ ॥
एवमुक्त्वा सत्यव्रतशरीरात्पाशसंयुतः ॥
अंगुष्ठमात्रं पुरुषं निचकर्ष यमो बलात् ॥ ५९ ॥
अथ प्रयातुमारेभे पंथानं पितृसेवितम् ॥
सावित्र्यपि वरारोहा पृष्ठतोऽनुजगाम ह ॥ 7.1.166.६० ॥
पतिव्रतत्वाच्चाश्रांता तामुवाच यमस्तथा ॥
निवर्त गच्छ सावित्रि मुहूर्तं त्वमिहागता ॥ ६१ ॥
एष मार्गो विशालाक्षि न केनाप्यनुगम्यते ॥ ६२ ॥
॥ सावित्र्युवाच ॥ ॥
न श्रमो न च मे ग्लानिः कदाचिदपि जायते ॥
भर्तारमनुगच्छन्त्या विशिष्टस्य च संनिधौ ॥ ६३ ॥
सतां सन्तो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ॥
वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ॥ ६४ ॥
सर्वेषामेव भूतानां स्थानमस्ति महीतले ॥
भर्त्तारमेकमुत्सृज्य स्त्रीणां नान्यः समाश्रयः ॥ ६५ ॥
एवमन्यैः सुमधुरैर्वाक्यैर्धर्मार्थसंहितैः ॥
तुतोष सूर्यतनयः सावित्रीं वाक्यमब्रवीत् ॥ ६६ ॥
॥ यम उवाच ॥ ॥
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ॥
सापि वव्रे च राज्यं स्वं विनयावनतानना ॥ ६७ ॥
चक्षुःप्राप्तिं तथा राज्यं श्वशुरस्य महात्मनः ॥
पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः ॥ ६८ ॥
जीवितं च तथा भर्तुर्धर्मसिद्धिं च शाश्वतीम् ॥
धर्मराजो वरं दत्त्वा प्रेषयामास तां ततः ॥ ६९ ॥
अथ भर्तारमासाद्य सावित्री हृष्टमानसा ॥
जगाम स्वाश्रमपदं सह भर्त्रा निराकुला ॥ 7.1.166.७० ॥
ज्येष्ठस्य पूर्णिमायां च तया चीर्णं व्रतं त्विदम् ॥
माहात्म्यतोऽस्य नृपतेश्चक्षुःप्राप्तिरभूत्पुरः ॥ ७१ ॥
ततः स्वदेशराज्यं च प्राप निष्कण्टकं नृपः ॥
पितास्याः पुत्रशतकं सा च लेभे सुताञ्छतम् ॥ ७२ ॥
एवं व्रतस्य माहात्म्यं कथितं सकलं मया ॥ ७३ ॥ ॥
॥ देव्युवाच ॥ ॥
कीदृशं तद्व्रतं देव सावित्र्या चरितं महत् ॥
तस्मिंस्तु ज्येष्ठमासे हि विधानं तस्य कीदृशम् ॥ ७४ ॥
का देवता व्रते तस्मिन्के मन्त्राः किं फलं विभो ॥
विस्तरेण महेश त्वं ब्रूहि धर्मं सनातनम् ॥ ७६ ॥
॥ ईश्वर उवाच ॥ ॥
श्रूयतां देवदेवेशि सावित्रीव्रतमा दरात् ॥
कथयामि यथा चीर्णं तया सत्या महेश्वरि ॥ ७६ ॥
त्रयोदश्यां तु ज्येष्ठस्य दन्तधावनपूर्वकम् ॥
त्रिरात्रं नियमं कुर्यादुपवासस्य भामिनि ॥ ७७ ॥
अशक्तस्तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ॥
अयाचितं चतुर्दश्यां ह्युपवासेन पूर्णिमाम् ॥ ७८ ॥
नित्यं स्नात्वा तडागे वा महानद्यां च निर्झरे ॥
पांडुकूपे तु सुश्रोणि सर्वस्नानफलं लभेत् ॥ ७९ ॥
विशेषात्पूर्णिमायां तु स्नानं सर्षपमृज्जलैः ॥ 7.1.166.८० ॥
गृहीत्वा वालुकं पात्रे प्रस्थमात्रे यशस्विनि ॥
अथवा धान्यमादाय यवशालितिलादिकम् ॥ ८१ ॥
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते ॥
सावित्रीप्रतिमां कृत्वा सर्वावयवशोभिताम्॥ ८२ ॥
सौवर्णीं मृन्मयीं वापि स्वशक्त्या दारुनिर्मिताम् ॥
रक्तवस्त्रद्वयं दद्यात्सावित्र्या ब्रह्मणः सितम् ॥ ८३ ॥
सावित्रीं ब्रह्मणा सार्धमेवं शक्त्या प्रपूजयेत् ॥
गन्धैः सुगन्धपुष्पैश्च धूपनैवेद्यदीपकैः ॥ ९४ ॥
पूर्णकोशातकैः पक्वैः कूष्माण्डकर्कटीफलैः ॥
नालिकेरैः सखर्जूरैः कपित्थैर्दाडिमैः शुभैः ॥ ८५ ॥
जंबूजंबीरनारिंगैरक्षोटैः पनसैस्तथा ॥
जीरकैः कटुखण्डैश्च गुडेन लवणेन च ॥ ८६ ॥
विरूढैः सप्तधान्यैश्च वंशपात्रप्रकल्पितैः ॥
रंजयेत्पट्टसूत्रैश्च शुभैः कुंकुमकेसरैः ॥ ८७ ॥
अवतारं करोत्येवं सावित्री ब्रह्मणः प्रिया ॥ ८८ ॥
तामर्च्चयीत मन्त्रेण सावित्र्या ब्रह्मणा समम्॥
इतरेषां पुराणोक्तो मंत्रोऽयं समुदाहृतः ॥ ८९ ॥
ओंकारपूर्वके देवि वीणापुस्तकधारिणि ॥
वेदांबिके नमस्तुभ्यमवैधव्यं प्रयच्छ मे ॥7.1.166.९०॥
एवं संपूज्य विधिवज्जागरं तत्र कारयेत्॥
गीतवादित्रशब्देननरनारीकदंबकम् ॥
नृत्यद्धसन्नयेद्रात्रिं नृत्यशास्त्रविशारदैः ॥ ९१ ॥
सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमान्॥
यावत्प्रभातसमयं गीतभावरसैः सह ॥ ९२ ॥
विवाहमेवं कृत्वा तु सावित्र्या ब्रह्मणा सह ॥
परिधाप्य सितैर्वस्त्रैर्दंपतीनां तु सप्तकम् ॥ ९३ ॥
गृहदानं प्रदातव्यं सर्वोपस्करसंयुतम् ॥
ब्राह्मणे वेदविदुषे सावित्रीं विनिवेदयेत् ॥ ९४ ॥
अथ सावित्रीकल्पज्ञे सावित्र्याख्यानवाचके ॥
दैवज्ञे ह्युञ्छवृत्तिस्थे दरिद्रे चाग्निहोत्रिणि ॥ ९५ ॥
एवं दत्त्वा विधानेन तस्यां रात्रौ निमन्त्रयेत् ॥
पौर्णमास्यां वटाधस्ताद्दंपतीनां चतुर्दश ॥ ९६ ॥
ततः प्रभातसमये उषःकाल उपस्थिते ॥
भक्ष्यभोज्यादिकं सर्वं सावित्रीस्थलमानयेत् ॥ ९७॥
पाकं कृत्वा तु शुचिना रक्षां कृत्वा प्रयत्नतः ॥
ब्राह्मणान्गृहिणीयुक्तांस्तत आह्वानयेत्सुधीः ॥ ९८ ॥
सावित्र्याः स्थलके तत्र कृत्वा पादाभिषेचनम् ॥
सुस्नातान्ब्राह्मणांस्तत्र सभार्यानुपवेशयेत् ॥ ९९ ॥
सावित्र्याः पुरतो देवि दंपत्योर्भोजनं ददेत् ॥
तेनाहं भोजितस्तत्र भवामीह न संशय ॥ 7.1.166.१०० ॥
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः ॥
लक्ष्म्याः सहायो वरदो वरांस्तस्य प्रयच्छति ॥ १०१ ॥
सावित्र्या सहितो ब्रह्मा तृतीये भोजितो भवेत् ॥
एकैकं भोजनं तत्र कोटिभोजसमं स्मृतम् ॥ १०२ ॥
अष्टादशप्रकारेण षड्रसीकृतभोजनम् ॥
देव्यास्तत्र महादेवि सावित्रीस्थलसन्निधौ ॥ १०३ ॥
विधवा न कुले तस्य न वंध्या न च दुर्भगा ॥
न कन्याजननी चापि न च स्याद्भर्तुरप्रिया ॥
अष्टौ दोषास्तु नारीणां न भवंति कदाचन ॥ १०४ ॥
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे च भोजनम् ॥
दातव्यं सर्वदा देवि कटुनीलविवर्जितम् ॥ १०५ ॥
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन ॥
पंचप्रकारं मधुरं हृद्यं सर्वं सुसंस्कृतम् ॥ १०६ ॥
घृतपूर्णापूपकाश्च बहुक्षीरसमन्विताः ॥
पूपकास्तादृशाः कार्या द्वितीयाऽशोकवर्तिका ॥ १०७ ॥
तृतीया पूपिका कार्या खर्जुरेण समन्विताः ॥
चतुर्थश्चैव संयावो गुडाज्याभ्यां समन्वितः ॥ ॥ १०८ ॥
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा ॥
धनधान्यजनोपेतं नारीनरशताकुलम् ॥
पूपकैस्तु कुलं तस्या जायते नात्र संशयः ॥ ॥ १०९ ॥
न ज्वरो न च संतापो दुःखं च न वियोगजम् ॥
अशोकवर्तिदानेन कुलानामेकविंशतिः ॥ 7.1.166.११० ॥
वधूभिश्च सुतैश्चैव दासीदासैरनन्तकैः ॥
पूरितं च कुलं तस्याः पूरिका या प्रयच्छति ॥ १११ ॥
पुत्रिण्यो वै दुहितरो वधूभिः सहिताः कुले ॥
शिखरिणीप्रदात्रीणां युवतीनां न संशयः ॥ ११२ ॥
मोदते च कुलं सर्वं सर्वसिद्धिप्रपूरितम् ॥
मोदकानां प्रदानेन एवमाह पितामहः ॥ ११३ ॥
एतच्च गौरिणीनां तु भोजनं हि विशिष्यते ॥ ११४ ॥
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता ॥
सहस्रभोजिनी देवि भवेज्जन्मनिजन्मनि ॥ ११५ ॥
पानानि चैव मुख्यानि हृद्यानि मधुराणि च ॥
द्राक्षापानं तु चिंचायाः पानं गुडसमन्वितम् ॥ ११६ ॥
सरसेन तु तोयेन कृतखण्डेन वै शुभम् ॥
सुवासिनीनां पेयं वै दातव्यं च द्विजन्मनाम् ॥ ११७ ॥
इतरैरितराण्येव वर्णयोग्यानि यानि च ॥
सुरभीणि च पानानि तासु योग्यानि दापयेत् ॥ ११८ ॥
प्रतिपूज्य विधानेन वस्त्रदानैः सकंचुकैः ॥
कुङ्कुमेनानुलिप्तांगाः स्रग्दामभिरलंकृताः ॥
गंधैर्धूपैश्च संपूज्य नालिकेरान्प्रदापयेत् ॥ ११९ ॥
नेत्राणां चाञ्जनं कृत्वा सिन्दूरं चैव मस्तके ॥
पूगीफलानि हृद्यानि वासितानि मृदूनि च ॥
हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेत् ॥ 7.1.166.१२० ॥
स्वयं च भोजयेत्पश्चाद्बंधुभिर्बालकैः सह ॥ १२१ ॥
अथवा नैव संपद्येत्तीर्थे चैव तु भोजनम् ॥
गृहे गत्वा प्रभोक्तव्यं तुष्टा देवी यथा भवेत् ॥ ११२ ॥
एवमेव पितॄणां च आगम्य स्वे च मन्दिरे ॥
पिण्डप्रदानपूर्वं तु श्राद्धं कृत्वा विधानतः ॥
पितरस्तस्य तुष्टा वै भवन्ति ब्रह्मणो दिनम् ॥१२३॥
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतः शुभे ॥
न च पश्यन्ति वै नीचाः श्राद्धं दत्तं द्विजातिभिः ॥ १२४ ॥
एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते ॥
नीचं दृष्ट्वा हतं तत्तु पितॄणां नोपतिष्ठति ॥ १२५ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत् ॥
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा ॥१२६॥
गौरीभोज्यादिका या तु उत्सर्गात्क्रियते क्रिया ॥
राजसी सा समाख्याता जनानां कीर्तिदायिनी ॥ १२७ ॥
इदं दानं सदा देयमात्मनो हित मिच्छता ॥
श्राद्धे चैव विशेषेण यदीच्छेत्सात्त्विकं फलम् ॥ १२८ ॥
इदमुद्यापनं देवि सावित्र्यास्तु व्रतस्य च ॥
सर्वपातकशुद्ध्यर्थं कार्यं देवि नरैः सदा ॥
अकामतः कामतो वा पापं नश्यति तत्क्षणात् ॥ १२९ ॥
इह लोके तु सौभाग्यं धनं धान्यं वराः स्त्रियः ॥
भवंति विविधास्तेषां यैर्यात्रा तत्र वै कृता ॥ 7.1.166.१३० ॥
इदं यात्राविधानं तु भक्त्या यः कुरुते नरः ॥
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥ १३१ ॥
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलके शुभे ॥
प्रदक्षिणा यः कुरुते फलदानैर्यथाविधि ॥ १३२ ॥
अष्टोत्तरशतं वापि तदर्धार्धं तदर्धकम् ॥
यः करोति नरो देवि सृष्ट्वा तत्र प्रदक्षिणाम् ॥ १३३ ॥
अगम्यागमनं यैश्च कृतं ज्ञानाच्च मानवैः ॥
अन्यानि पातकान्येवं नश्यंते नात्र संशयः ॥ १३४ ॥
यैर्गत्वा स्थलके संध्या सावित्र्याः समुपासिता ॥
स्वपत्न्याश्चैव हस्तेन पांडुकूपजलेन च ॥ १३५ ॥
भृंगारकनकेनैव मृन्मयेनाथ भामिनि ॥
आनीय तु जलं पुण्यं संध्योपास्तिं करोति यः ॥
तेन द्वादशवर्षाणि भवेत्संध्या ह्युपासिता ॥ १३६ ॥
अश्वमेधफलं स्नाने दाने दशगुणं तथा ॥
उपवासे त्वनंतं च कथायाः श्रवणे तथा ॥ १३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥