स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सावित्रीं लोकमातरम् ॥
महा पापप्रशमनीं सोमेशादीशदिक्स्थिताम् ॥ १ ॥
संयतात्मा नरः पश्येत्तत्र तां नियतात्मवान् ॥ २ ॥
ब्रह्मणा यष्टुकामेन सावित्री सहधर्मिणी ॥
कृता तां बलतो ज्ञात्वा गायत्रीं कोपमाविशत् ॥ ३ ॥
ततः संत्यज्य सा देवी ब्रह्माणं कमलोद्भवम् ॥
सपत्नीरोषसन्तप्ता प्रभासं क्षेत्रमाश्रिता ॥ ४ ॥
तपः करोति विपुलं देवैरपि सुदुःसहम् ॥
तत्र स्थले स्थिता देवी साऽद्यापि प्रियदर्शना ॥ ५ ॥
॥ श्रीदेव्युवाच ॥ ॥
किमर्थं सा परित्यक्ता सावित्री ब्रह्मणा पुरा ॥
गायत्री च कथं प्राप्ता केन चास्य निवेदिता ॥ ६ ॥
कीदृशीं तां च गायत्रीं लब्धवान्पद्मसंभवः ॥
यस्तां पत्नीं समुत्सृज्य तस्यामेव मनो दधौ ॥ ७ ॥
कस्य सा दुहिता देव किमर्थं च विवाहिता ॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ ८ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सावित्र्याश्चरितं महत् ॥
यथा सा ब्रह्मणा त्यक्ता गायत्री च विवाहिता ॥ ९ ॥
पुरा बुद्धिः समुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ॥
इति वेदा मया प्रोक्ता यज्ञार्थं नात्र संशयः ॥ 7.1.165.१० ॥
यज्ञैः संतर्पिता देवा वृष्टिं दास्यंति भूतले ॥
ततश्चौषधयः सर्वा भविष्यंति धरातले ॥ ११ ॥
तस्मात्संजायते शुक्रं शुक्रात्सृष्टिः प्रवर्तते ॥
सृष्ट्यर्थं सर्वलोकानां ततो यज्ञं करोम्यहम् ॥ १२ ॥
दृष्ट्वा मां यज्ञ आसक्तं ये च विप्रा धरातले ॥
ते यज्ञान्प्रचरिष्यंति शतशोऽथ सहस्रशः ॥ १३ ॥
एवं स निश्चयं कृत्वा यज्ञार्थं सुरसुंदरि ॥
तीर्थं निवेशयामास पुष्करं नाम नामतः ॥ १४ ॥
यज्ञवाटो महांस्तत्र आसीत्तस्य महात्मनः ॥
तत्र देवर्षयः सर्वे देवाः सेन्द्रपुरोगमाः ॥ १५ ॥
समायाता महादेवि यज्ञे पैतामहे तदा ॥
पुण्यास्तेऽपि द्विजश्रेष्ठास्तत्रर्त्विजः प्रजज्ञिरे ॥ १६ ॥
सावित्री लोकजननी पत्नी तस्य महात्मनः ॥
गृहकार्ये समासक्ता दीक्षा कालव्यतिक्रमात् ॥
अध्वर्युणा समाहूता सावित्री वाक्यमब्रवीत् ॥ १७ ॥
॥ सावित्र्युवाच ॥ ॥
अद्यापि न कृतो वेषो न गृहे गृहमण्डनम् ॥
लक्ष्मीर्नाद्यापि संप्राप्ता न भवानी न जाह्नवी ॥ १८ ॥
न स्वाहा न स्वधा चैव तथा चैवाप्यरुंधती ॥
इन्द्राणी देवपत्न्योऽन्याः कथमेकाकिनी व्रजे ॥ १९ ॥
उक्तः पितामहो गत्वा पुलस्त्येन महात्मना ॥
सावित्री देव नायाति प्रसक्ता गृहकर्मणि ॥ 7.1.165.२० ॥
त्वत्पत्नी किमिदं कर्म फलेन संप्रवर्तते ॥
तच्छ्रुत्वा दीक्षितो वाचं शिखी मुंडी मृगाजिनी ॥ २१ ॥
पत्नीकोपेन संतप्तः प्राह देवं पुरंदरम् ॥ २२ ॥
गच्छ मद्वचनाच्छक्र पत्नीमन्यां कुतश्चन ॥
गृहीत्वा शीघ्रमागच्छ न स्यात्कालात्ययो यथा ॥ २३ ॥
जगाम बलहा तूर्णं वचनात्परमेष्ठिनः ॥
अपश्यमानः कांचित्स्त्रीं या योग्या हंसवाहने ॥ २४ ॥
अथ शापाद्बिभीतेन सहस्राक्षेण धीमता ॥
दृष्टा गोपालकन्यैका रूपयौवनशालिनी ॥ २५ ॥
बिभ्रती तत्र पूर्णं सा कुम्भं कन्येत्यचोदयत् ॥
तां गृहीत्वा ततः शक्रः समायाद्यत्र दीक्षितः ॥
 देवदेवश्चतुर्वक्त्रो विष्णुरुद्रसमन्वितः ॥ २६ ॥
संप्रदानं तु कृतवान्कन्याया मधुसूदनः ॥२७॥
प्रेरितः शंकरेणैव ब्रह्मा देवर्षिभिस्तथा॥
परिणीयतां ततो दीक्षां तस्याश्चक्रे यथात्मनः ॥२८ ॥
ततः प्रवर्तितो यज्ञः सर्वकामसमन्वितः ॥२९॥
अत्रिर्होतार्चिकस्तत्र पुलस्त्योऽध्वर्युरेव च॥
उद्गाताऽथो मरीचिश्च ब्रह्माहं सुरपुंगवः॥7.1.165.३०॥
सनत्कुमारप्रमुखाः सदस्यास्तस्य निर्मिताः॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ३१ ॥
भूषिता भूषणोपेता एकैकस्य पृथक्पृथक् ॥
त्रयस्त्रयः पृष्ठतोऽन्ये ते चैवं षोडशर्त्विजः ॥३२॥
प्रोक्ता भवद्भि र्यज्ञेऽस्मिन्ननुगृह्योऽस्मि सर्वदा ॥
पत्नी ममेयं गायत्री यज्ञेऽस्मिन्ननुगृह्यताम् ॥ ३३ ॥
मृदुवस्त्रधरां साक्षात्क्षौमवस्त्रावगुण्ठिताम् ॥
निष्क्रम्य पत्नीशालात ऋत्विग्भिर्वेदपारगैः ॥ ३४ ॥
औदुम्बरेण दण्डेन संवृतो मृगचर्मणा ॥
तया सार्धं प्रविष्टश्च ब्रह्मा तं यज्ञमण्डपम् ॥३५॥
॥ ईश्वर उवाच ॥ ॥
एतस्मिन्नेव काले तु संप्राप्ता देवयोषितः ॥
संप्राप्ता यत्र सावित्री यज्ञे तस्मिन्निमंत्रिताः ॥ ३६ ॥
भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥
आमन्त्रिता सा लक्ष्मीश्च तत्रायाता त्वरान्विता ॥ ३७ ॥
तत्र देवी महाभागा योगनिद्रादिभूषिता ॥
देवी कांतिस्तथा श्रद्धा द्युतिस्तुष्टिस्तथैव च ॥ ३८ ॥
सती या दक्षतनया उमा या पार्वती शुभा ॥
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायका ॥३९॥
जया च विजया चैव गौरी चैव महाधना ॥
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया ॥ 7.1.165.४० ॥
देवकन्यास्तथाऽऽयाता दानव्यो दनुवंशजाः ॥
सप्तर्षीणां तथा पत्न्य ऋषीणां च तथैव च ॥ ४१ ॥
प्लवा मित्रा दुहितरो विद्याधरगणास्तथा ॥
पितरो रक्षसां कन्यास्तथाऽन्या लोकमातरः ॥ ४२ ॥
वधूभिश्चैव मुख्याभिः सावित्री गन्तुमिच्छति ॥
अदित्याद्यास्तथा देव्यो दक्षकन्याः समागताः ॥ ४३ ॥
ताभिः परिवृता सार्धं ब्रह्माणी कमलालया ॥
काश्चिन्मोदकमादाय काश्चित्पूपं वरानने ॥ ४४ ॥
फलानि तु समादाय प्रयाता ब्रह्मणोऽन्तिकम् ॥
आढकीश्चैव निष्पावान्राजमाषांस्तथाऽपराः ॥ ४५ ॥
दाडिमानि विचित्राणि मातुलिंगानि शोभने॥
करीराणि तथा चान्या गृहीत्वा करमर्दकान्॥४६॥
कौसुंभं जीरकं चैव खर्जूरं चापरास्तथा॥
उततीश्चापरा गृह्य नालिकेराणि चापराः॥४७॥
द्राक्षया पूरितं चाम्रं शृङ्गाराय यथा पुरा॥
कर्बुराणि विचित्राणि जंबूकानि शुभानि च॥४८॥
अक्षोडामलकान्गृह्य जंबीराणि तथा पराः ॥
बिल्वानि परिपक्वानि चिर्भटानि वरानने ॥ ४९ ॥
अन्नपानाधिकाराणि बहूनि विविधानि च ॥
शर्करापुत्तलीं चान्या वस्त्रे कौसुम्भके तथा ॥ 7.1.165.५० ॥
एवमादीनि चान्यानि गृह्य पूर्वे वरानने ॥
सावित्र्या सहिताः सर्वाः संप्राप्तास्तु तदा शुभाः ॥ ५१ ॥
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः ॥
अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति ॥ ५२ ॥
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः ॥
सभासदस्तथा भीतास्तथैवान्ये दिवौकसः ॥ ५३ ॥
पुत्रपौत्रा भागिनेया मातुला भ्रातरस्तथा ॥
ऋतवो नाम ये देवा देवानामपि देवताः ॥ ५४ ॥
विलक्षास्तु तथा सर्वे सावित्री किं वदिष्यति ॥
ब्रह्मवाक्यानि वाच्यानि किं नु वै गोपकन्यया ॥ ॥ ५५ ॥
मौनीभूतास्तु शृण्वानाः सर्वेषां वदतां गिरः ॥
अध्वर्युणा समाहूता नागता वरवर्णिनी ॥ ५६ ॥
शक्रेणान्या तथाऽऽनीता दत्ता सा विष्णुना स्वयम् ॥
अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा ॥ ५७ ॥
कथं सा भविता यज्ञः समाप्तिं वा कथं व्रजेत् ॥
एवं चिन्तयतां तेषां प्रविष्टा कमलालया ॥ ५८ ॥
वृतो ब्रह्मा भार्यया स ऋत्विग्भिर्वेदपारगैः ॥
हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वेदपारगैः ॥ ५९ ॥
पत्नीशाले तथा गोपी रौप्यशृंगा समेखला ॥
क्षौमवस्त्रपरीधाना ध्यायन्ती परमेश्वरम् ॥ 7.1.165.६० ॥
पतिव्रता पतिप्राणा प्राधान्येन निवेशिता ॥
कृपान्विता विशालाक्षी तेजसा भास्करोपमा ॥ ६१ ॥
द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा ॥
ज्वलमानस्तथा वह्निर्भ्रमंते चर्त्विजस्तथा ॥ ६२ ॥
पशूनामवदानानि गृह्णंति द्विजसत्तमाः ॥
प्राप्ता भागार्थिनो देवा विलंबसमयोऽभवत् ॥ ६३ ॥
कालहीनं न कर्तव्यं कृतं न फलदं भवेत् ॥
वेदेष्वयमधीकारो दृष्टः सर्वो मनीषिभिः ॥ ६४ ॥
प्रवर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः ॥
क्षीरद्वये हूयमाने मंत्रेणाध्वर्युणा तथा ॥ ६५ ॥
उपहूतोपहूतेन आगतेषु द्विजन्मसु ॥
क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी क्रुधान्विता ॥
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम् ॥ ६६ ॥
किमेवं बुध्यते देव कृतमेतद्विचेष्टितम् ॥
मां परित्यज्य यः कामात्कृतवानसि किल्बिषम् ॥ ६७ ॥
न तुल्या पादरजसा समा साऽधिशिरः कृता ॥ ६८ ॥
यद्वदंति नराः सर्वे संगताः सदसि स्थिताः ॥
आश्चर्यं च प्रभूणां तु कुरुते यं यमिच्छति ॥ ६९ ॥
भवता रूपलोभेन कृतं कर्म विगर्हितम् ॥ 7.1.165.७० ॥
न पुत्रेषु कृता लज्जा पौत्रेषु च न ते विभो ॥
कामकारकृतं मन्ये ह्येतत्कर्म विगर्हितम् ॥ ७१ ॥
पितामहोऽसि देवानामृषीणां प्रपितामहः ॥
कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम् ॥ ७२ ॥
लोकमध्ये कृतं हास्यमिह चैव विगर्हितः ॥
यद्येष ते स्थितो भावस्तिष्ठ देव नमोऽस्तु ते ॥७३॥
अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥
भर्त्रा मे विहिता पत्नी कथमेतदहं वदे ॥ ७४ ॥
॥ ब्रह्मोवाच ॥ ॥
ऋत्विग्भिरहमाज्ञप्तो दीक्षा कालोऽतिवर्तते ॥
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय ॥ ७५ ॥
शक्रेणैषा समानीता दत्ता चैवाऽथ विष्णुना ॥
गृहीता च मया त्वं हि क्षमस्वैकं मया कृतम् ॥
न चापराध्यं भूयोऽन्यं करिष्ये तव सुव्रते ॥ ७६ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता॥
यदि मेऽस्ति तपस्तप्तं गुरवो यदि तोषिताः ॥ ७७ ॥
सर्वब्राह्मणशालासु स्थानेषु विविधेष्वपि ॥
न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचन ॥ ॥ ७८ ॥
ऋते वै कार्तिकीमेकां पूजां सांवत्सरीं तव ॥
करिष्यंति द्विजाः सर्वे सत्येनानेन ते शपे ॥
एतद्बुद्ध्वा न कोपोस्तु हतो हन्ति न संशयः ॥ ॥ ७९ ॥
॥ सावित्र्युवाच ॥ ॥
भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोऽन्तिकम् ॥
यस्मादीदृक्कृतं कर्म तस्मात्त्वं लप्स्यसे फलम् ॥7.1.165.८०॥
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि ॥
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् ॥ ८१ ॥
अकिंचनो नष्टसुतः शत्रूणां नगरे स्थितः॥
पराभवं महत्प्राप्य अचिरादेव मोक्ष्यसे ॥ ८२ ॥
शक्रं शप्त्वा तदा देवी विष्णुं चाऽथ वचोब्रवीत् ॥ ८३ ॥
गुरुवाक्येन ते जन्म यदा मर्त्ये भवि ष्यति ॥
भार्याविरहजं दुःखं तदा त्वं तत्र भोक्ष्यसे ॥ ८४ ॥
हृतां शत्रुगणैः पत्नीं परे पारे महोदधेः ॥
न च त्वं ज्ञायसे सीतां शोकोपहचेतनः ॥ ८५ ॥
भ्रात्रा सह परां काष्ठामापदं दुःखितस्तथा ॥
पशूनां चैव संयोगश्चिरकालं भविष्यति ॥ ८६ ॥
तथाऽऽह रुद्रं कुपिता यदा दारुवने स्थितः ॥
तदा ते मुनयः क्रुद्धाः शापं दास्यंति ते हर ॥ ८७ ॥
भोभोः कापालिक क्षुद्र पत्न्योऽस्माकं जिहीर्षसि ॥
तदेतद्भूषितं लिंग भूमौ रुद्र पतिष्यति ॥ ८८ ॥
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः ॥
गंगातीरे स्थिता पत्नी सा त्वामाश्वासयिष्यति ॥ ८९ ॥
अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः ॥
भ्रूणहा धर्म इत्येष कथं दग्धं दहाम्यहम् ॥ 7.1.165.९० ॥
जातवेदस रुद्रस्त्वां रेतसा प्लावयिष्यति ॥
मेध्येषु च कृतज्वाला ज्वालया त्वां ज्वलिष्यति ॥ ९१ ॥
ब्राह्मणानृत्विजः सर्वान्सावित्री ह्यशपत्तदा ॥ ९२ ॥
प्रतिग्रहाग्निहोत्राश्च वृथा दारा वृथाश्रमाः ॥
सदा क्षेत्राणि तीर्थानि लोभादेव गमिष्यथ ॥ ९३ ॥
परान्नेषु सदा तृप्ता अतृप्ताः स्वगृहेषु च ॥
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम् ॥ ९४ ॥
वृथा धनार्जनं कृत्वा व्यवश्चैव तथा वृथा ॥
मृतानां तेन प्रेतत्वं भविष्यति न संशयः ॥ ९५ ॥
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानशपत्तदा ॥ ९६ ॥
शापं दत्त्वा तथा तेषां तदा सावस्थिता स्थिरा ॥ ९७ ॥
लक्ष्मीः प्राह सखीं तां च इन्द्राणी च वरानना ॥
अन्या देव्यस्तथा प्राहुः साऽऽह स्थास्यामि नात्र वै ॥
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न तु ध्वनिम् ॥ ९८ ॥
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वं निकेतनम् ॥
सावित्री कुपिता तासां पुनः शापाय चोद्यता ॥ ९९ ॥
यस्मान्मां संपरित्यज्य गतास्ता देवयोषितः ॥
तासामपि तथा शापं प्रदास्ये कुपिता भृशम् ॥ 7.1.165.१०० ॥
नैकत्र वासो लक्ष्म्यास्तु भविष्यति कदाचन ॥
रुद्रापि चंचला तावन्मूर्खेषु च वसिष्यसि ॥ १०१ ॥
म्लेच्छेषु पर्वतीयेषु कुत्सिते कुष्ठिते तथा ॥
वाचाटे चावलिप्ते च अभिशस्ते दुरात्मनि ॥
एवंविधे नरे तुभ्यं वसतिः शापकारिता ॥ १०२ ॥
शापं दत्त्वा ततस्तस्या इन्द्राणीमशपत्तदा ॥ १०३ ॥
त्वष्टुर्वाचा गृहीतेन्द्रे पत्यौ ते दुष्टकारिणि ॥
नहुषाय गते राज्ये दृष्ट्वा त्वां याचयिष्यति ॥ ॥ १०४ ॥
अहमिन्द्रः कथं चैषा नोपतिष्ठति चालसा ॥
सर्वान्देवान्हनिष्यामि लप्स्ये नाहं शचीं यदि ॥ १०५ ॥
नष्टा त्वं च तदा शस्ता वने महति दुःखिता ॥
वसिष्यसि दुराचारे शापेन मम गर्विते ॥ १०६ ॥
देवभार्यासु सर्वासु तदा शापमयच्छत ॥ १०७ ॥
न चापत्यकृता प्रीतिः सर्वास्वेव भविष्यति ॥
दह्यमाना दिवारात्रौ वंध्याशब्देन दुःखिताः ॥१०८॥
गौरीमेवं तथा शप्त्वा सा देवी वरवर्णिनी ॥
उच्चै रुरोद सावित्री भर्तृ यज्ञाद्बहिः स्थिता ॥ १०९ ॥
रोदमाना तु सा दृष्टा विष्णुना च प्रसादिता ॥
मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदः शुभे ॥ 7.1.165.११० ॥
प्रविष्टा च शुभे यागे मेखलां क्षौमवाससी ॥
गृहाण दीक्षां ब्रह्माणि पादौ ते प्रणमे शुभे ॥ १११ ॥
एवमुक्ताऽब्रवीदेनं नाहं कुर्यां वचस्तव ॥
तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम् ॥ ११२ ॥
एतावदुक्त्वा व्यरमदुच्चैः स्थाने क्षितौ स्थिता ॥ ११३ ॥
विष्णुस्तदग्रतः स्थित्वा बद्ध्वा च करसंपुटम् ॥
तुष्टाव प्रणतो भूत्वा भक्त्या परमया युतः ॥ ११४ ॥
॥ विष्णुरुवाच ॥ ॥
नमोऽस्तु ते महादेवि भूर्भुवःस्वस्त्रयीमयि ॥
सावित्रि दुर्गतरिणि त्वं वाणी सप्तधा स्मृता ॥ ११५ ॥
सर्वाणि स्तुतिशास्त्राणि लक्षणानि तथैव च ॥
भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते ॥ ॥ ११६ ॥
श्वेता त्वं श्वेतरूपासि शशांकेन समानना ॥
शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥
दिव्यकुंडलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥ ॥ ११७ ॥
त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्रीः संततिर्मतिः ॥
संध्या रात्रि प्रभातस्त्वं कालरात्रिस्त्वमेव च ॥ ११८ ॥
कर्षुकाणां यथा सीता भूतानां धारिणी तथा ॥
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता ॥ ११९ ॥
सम्यक्स्तुता त्वया पुत्र अजेयस्त्वं भविष्यसि ॥
अवतारे सदा वत्स पितृमातृसु वल्लभः ॥ 7.1.165.१२० ॥
अनेन स्तवराजेन स्तोष्यते यस्तु मां सदा ॥
सर्वदोषविनिर्मुक्तः परं स्थानं गमिष्यति ॥ १२१ ॥
गच्छ यज्ञं चिरं तस्य समाप्तिं नय पुत्रक ॥ १२२ ॥
कुरुक्षेत्रे प्रयागे च भविष्ये यज्ञकर्मणि ॥
समीपगा स्थिता भर्तुः करिष्ये तव भाषितम् ॥ १२३ ॥
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तमम् ॥
सावित्री तु समायाता प्रभासे वरवर्णिनि ॥१२४॥
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत् ॥१२५॥
शृण्वंतु मुनयो वाक्यं मदीयं भर्तृसन्निधौ ॥
यदहं वच्मि संतुष्टा वरदानाय चोद्यता ॥ १२६ ॥
ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः ॥
तेषां वस्त्रं धनं धान्यं दाराः सौख्यं सुताश्च वै ॥ १२७ ॥
अविच्छिन्नं तथा सौख्यं गृहं वै पुत्रपौत्रिकम् ॥
भुक्त्वाऽसौ सुचिरं कालं ततो मोक्षं गमिष्यति ॥१२८॥
शक्राहं ते वरं वच्मि संग्रामे शत्रुभिः सह ॥
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम् ॥ १२९ ॥
सपुत्रशत्रुनाशात्त्वं लप्स्यसे च परं मुदम् ॥
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति ॥ 7.1.165.१३० ॥
मर्त्यलोके यदा विष्णो ह्यवतारं करिष्यसि ॥
भ्रात्रा सह परं दुःखं स्वभार्या हरणं च यत् ॥ १३१ ॥
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ ॥
गृहीत्वा तां पुनः प्राज्यं राज्यं कृत्वा गमिष्यसि ॥ १३२ ॥
एकादश सहस्राणि कृत्वा राज्यं पुनर्दिवम्॥
ख्यातिस्ते विपुला लोके चानुरागो भविष्यति॥ १३३ ॥
गायत्री ब्राह्मणांस्तांश्च सर्वानेवाब्रवीदिदम् ॥१३४ ॥
युष्माकं प्रीणनं कृत्वाऽ तृप्तिं यास्यंति देवताः॥
भवंतो भूमिदेवा वै सर्वे पूज्या भविष्यथ ॥ १३५ ॥
युष्माकं पूजनं कृत्वा दत्त्वा दानान्यनेकशः॥
प्राणायामेन चैकेन सर्वमेतत्तरिष्यथ॥१३६॥
प्रभासे तु विशेषेण जप्त्वा मां वेदमातरम्॥
प्रतिग्रहकृतान्दोषान्न प्राप्स्यध्वं द्विजोत्तमाः॥१३७ ॥
पुष्करे चान्नदानेन प्रीताः सर्वे च देवताः ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवतिभोजिता ॥ १३८ ॥
ब्रह्महत्यादिपापानि दुरितानि च यानि च ॥
तरिष्यंति नराः सर्वे दत्ते युष्मत्करे धने ॥ १३९ ॥
महीयध्वे तु जाप्येन प्राणायामैस्त्रिभिः कृतैः ॥
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥ 7.1.165.१४० ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम् ॥ १४१ ॥
एवं ज्ञात्वा सदा पूज्या जाप्ये च मम वै कृते ॥
भविष्यध्वं न सन्देहो नात्र कार्या विचारणा ॥ १४२ ॥
ओंकारेण त्रिमात्रेण सार्धेन च विशेषतः ॥
पूज्याः सर्वे न सन्देहो जप्त्वा मां शिरसा सह ॥ १४३ ॥
अष्टाक्षरस्थिता चाहं जगद्व्याप्तं मया त्विदम् ॥
माताऽहं सर्ववेदानां वेदैः सर्वैरलङ्कता ॥ १४४॥
जत्वा मां परमां सिर्द्धि पश्यन्ति द्विजसत्तमाः ॥
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति ॥ १४५ ॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः॥
नायंत्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी॥१४६॥
यस्माद्भवतां सावित्र्या शापो दत्तो सदे त्विह॥
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्॥
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः ॥ १४७ ॥
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः ॥
स्वर्गं ते तु गमिष्यंति एकविंशतिभिः कुलैः ॥ १४८ ॥
एवं शक्रे च विष्णौ च रुद्रे वै पावके तथा ॥
ब्रह्मणो ब्रह्मणानां च गायत्री सा वरं ददौ ॥
तस्मिन्काले वरं दत्त्वा ब्रह्मणः पार्श्वगाऽभवत् ॥ १४९ ॥
हरिणा तु समाख्यातं लक्ष्म्याः शापस्य कारणम् ॥
युवतीनां च सर्वासां शापस्तासां पृथक्पृथक् ॥ 7.1.165.१५० ॥
लक्ष्म्यास्तदा वरं प्रादाद्गायत्री ब्रह्मणः प्रिया ॥ १५१ ॥
अकुत्सिताः सदा पुत्रि तव वासेन शोभने ॥
भविष्यति न संदेहः सर्वेभ्यः प्रीतिदायकाः ॥ १५२ ॥
ये त्वया वीक्षिताः सर्वे सर्वे वै पुण्यभाजनाः ॥
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने ॥ १५३ ॥
परित्यक्तास्त्वया ये तु ते नरा दुःखभागिनः ॥
सभायां ते न शोभन्ते मन्यन्ते न च पार्थिवैः ॥ १५४ ॥
आशिषश्चैव तेषां तु कुर्वते वै द्विजोत्तमाः ॥
सौजन्यं तेषु कुर्वन्ति नप्ता भ्राता पिता गुरुः ॥ १५५ ॥
बांधवोऽसि न संदेहो न जीवेऽहं त्वया विना ॥
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना ॥
मनः प्रसीदतेऽत्यर्थं सत्यंसत्यं वदामि ते ॥ १५६ ॥
एवंविधानि वाक्यानि त्वया दृष्ट्या निरीक्षिते ॥
सज्जनास्ते वदिष्यन्ति जनानां प्रीतिदायकाः ॥ १५७ ॥
इन्द्राणि नहुषः प्राप्य स्वर्गं त्वां याचयिष्यति ॥
अदृष्ट्वा तु हतः पापो अगस्त्यवचनाद्द्रुतम्॥ १५८ ॥
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं मुनिम् ॥
दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव ॥ १५९ ॥
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः ॥
कृत्वा मनसि कारुण्यमिदं वचनमब्रवीत् ॥ 7.1.165.१६० ॥
उत्पत्स्यति कुले राजा त्वदीये कुरुनंदन ॥
सार्पं कलेवरं दृष्ट्वा प्रश्नैस्त्वामुद्धरिष्यति ॥ १६१ ॥
सोऽप्यजगरतां त्यक्त्वा पुनः स्वर्गं गमिष्यति ॥
अश्वमेधे कृते भर्त्रा सह यासि पुनर्दिवि ॥
प्राप्स्यसे वर दानेन ममानेन सुलोचने ॥ १६२ ॥
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥
अपत्यैरपि हीनाः स्युर्नैव दुःखं भविष्यति ॥ १६३ ॥
इति दत्त्वा वरान्देवी गायत्री लोकसंमता ॥
जगामादर्शनं देवी सर्वेषां पश्यतां तदा ॥ १६४ ॥
सावित्री तु तदा देवी प्रभासं क्षेत्रमागता ॥
कृतस्मरस्य शृङ्गे तु श्रीसोमेश्वरपूर्वतः ॥ १६५ ॥
मन्वन्तरे चाक्षुषे च द्वितीये द्वापरे शुभे ॥
तत्र यज्ञः समारब्धो ब्रह्मणा लोककारिणा ॥ १६६ ॥
यज्ञे याता महात्मानो देवाः सप्तर्षयो वराः ॥
स्वायंभुवे तु ये शस्ताः शप्तास्ते चाभवन्पुरा ॥ १६७ ॥
तस्मात्कालात्समारभ्य प्रभासं क्षेत्रमाश्रिताः ॥ १६८ ॥
सावित्री लोकजननी लोकानुग्रहकारिणी ॥
यस्तां पूजयते भक्त्या पक्षमेकं निरंतरम् ॥
ब्रह्मपूजाविधानेन तस्य पुत्रो ध्रुवो भवेत् ॥ १६९ ॥
पाण्डुकूपे नरः स्नात्वा दृष्ट्वा लिंगानि पञ्च वै ॥
पाण्डवैः स्थापितानीह दृष्ट्वा यज्ञफलं लभेत् ॥ 7.1.165.१७० ॥
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलसंनिधौ ॥
पठेद्यो ब्रह्मसूक्तानि मुच्यते सर्वपातकैः ॥ १७१ ॥
एतत्ते सर्वविख्यातमाख्यातं कल्मषापहम् ॥
यश्चेदं शृणुयाद्भक्त्या स गच्छेत्परमं पदम् ॥ १७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम पञ्चषष्ट्युतरशततमोऽध्यायः ॥ १६५ ॥