स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥
ईशाने लक्ष्मणेशाच्च धनुषां षोडशे प्रिये ॥१॥
अनन्तेश्वरनामानमनन्तेन प्रतिष्ठितम् ॥
नागराजेन देवेशि ज्ञात्वा क्षेत्रं तु पावनम् ॥ २ ॥
यस्तु तं पूजयेद्देवि पंचम्यां फाल्गुने सिते ॥
पञ्चोपचारविधिना जिताहारो जितेन्द्रियः ॥ ३ ॥
न तं दशंति फणिनो दश वर्षाणि पंच च ॥
विषं न क्रमते देवि देहे त्वचरमेव वा ॥ ४ ॥
तस्मात्तं पूजयेद्यत्नात्पंचम्यां च विशेषतः ॥ ५ ॥
तत्रानंतव्रतं कार्यं मधुपायससंयुतम् ॥
पायसं मधुसंयुक्तं देयं विप्राय भोजनम् ॥ ६ ॥
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽनन्तेश्वरमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥