स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रत्नकुण्डमनुत्तमम् ॥
रत्नेशाद्दक्षिणे भागे धनुषां सप्तके स्थितम् ॥
महापापोपशमनं विष्णुना निर्मितं स्वयम् ॥ १ ॥
अष्टकोटीस्तु तीर्थानि भूद्योऽन्तरिक्षगाणि तु ॥
समानीय तु कृष्णेन तत्र क्षिप्तानि भूरिशः ॥ २ ॥
गणानां कोटिरेका तु तत्कुण्डं रक्षति प्रिये ॥
कलौ युगे तु संप्राप्ते दुष्प्राप्यमकृतात्मभिः ॥ ३ ॥
तत्र स्नात्वा महादेवि विधिदृष्टेन कर्मणा ॥
प्राप्नुयादश्वमेधस्य फलं शतगुणोत्तरम् ॥ ४ ॥
एकादश्यां विशेषेण पिंडं तत्र प्रदापयेत् ॥
अक्षय्यां तृप्तिमायांति पितरस्तस्य भामिनि ॥ ५ ॥
कुर्याज्जागरणं तत्र एकादश्यां विधानतः ॥
वाञ्छितं लभते देवि यदि श्रद्धा दृढा भवेत् ॥ ६ ॥
देयानि पीतवस्त्राणि तथा धेनुः पयस्विनी ॥
तत्र विष्णुं समुद्दिश्य सम्यग्यात्राफलाप्तये ॥ ७ ॥
हेमकुण्डं कृते प्रोक्तं त्रेतायां रौप्यनामकम् ॥
द्वापरे चक्रकुंडं तु रत्नकुंडं कलौ स्मृतम् ॥ ८ ॥
पातालवाहिनीगंगा स्रोतांसि तत्र भूरिशः ॥
समानीतानि हरिणा तत्र तिष्ठंति भामिनि ॥ ९ ॥
तत्र स्नानेन देवेशि सर्वतीर्थाभिषेचनम् ॥ 7.1.159.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनं- नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥१५९॥