स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैनतेयप्रतिष्ठितम् ॥
रत्नेश्वरादुत्तरतो धनुषां त्रितये स्थितम् ॥ १ ॥
वैनतेयश्च देवेशि ज्ञात्वा क्षेत्रं तु वैष्णवम् ॥
लिंगं प्रतिष्ठयामास सर्वपापप्रणाशनम् ॥ २ ॥
यस्तं पूजयते भक्त्या पंचम्यां तु विधानतः ॥
न विषं क्रमते तस्य सप्त जन्मानि सर्पजम् ॥ ३ ॥
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥
प्राप्नुयात्सकलं पुण्यं मोदते दिवि देववत् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्ये गरुडेश्वरमाहात्म्यवर्णनंनाम षट्पंचाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥