स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रत्नेश्वरमनुत्तमम् ॥
तत्र तप्त्वा तपो देवि विष्णुना प्रभविष्णुना ॥
स्थापितं तत्र तल्लिंगं सर्वकामप्रदं प्रिये ॥ १ ॥
रत्नकुंडे नरः स्नात्वा यस्तं पूजयते सदा ॥
सर्वोपचारैर्भक्त्या स प्राप्नुयादीप्सितं फलम् ॥ २ ॥
अत्र कृत्वा तपो घोरं कृष्णेनामिततेजसा ॥
प्राप्तं सुदर्शनं चक्रं सर्वदैत्यान्तकारकम् ॥ ३ ॥
एतत्स्थानं महादेवि सदा प्रियतरं मम ॥
वसामि तत्र देवेशि प्रलयेऽपि न संत्यजे ॥ ४ ॥
स्मृतं तद्वैष्णवं क्षेत्रं नाम्ना देवि सुदर्शनम् ॥
धन्वंतराणि षट्त्रिंशत्समंतात्परिमण्डलम् ॥ ५ ॥
एतदन्तरमासाद्य ये केचित्प्राणिनोऽधमाः ॥
मृताः कालवशाद्देवि ते यास्यंति परं पदम् ॥ ६ ॥
कांचनं तत्र गरुडं पीतानि वसनानि च ॥
विष्णुमुद्दिश्य यो दद्यात्स तु यात्राफलं लभेत् ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशदु त्तरशततमोऽध्यायः ॥ १५५ ॥