स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४६

विकिस्रोतः तः
Jump to navigation Jump to search

। ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि धर्मराजप्रतिष्ठितम् ॥
यमेश्वरं महादेवं तस्यै वोत्तरतः स्थितम् ॥ १ ॥
यदा शप्तो धर्मराजश्छायया वरवर्णिनि ॥
तदा तस्यापतत्पादः स च दुःखान्वितोऽभवत् ॥ २ ॥
ततः प्राभासिके क्षेत्रे तपस्तेपे महातपाः ॥
स्थापयामास लिंगं तु तत्र देवस्य शूलिनः ॥ ३ ॥
तस्य तुष्टो महादेवस्ततः प्रत्यक्षतां गतः ॥
अब्रवीद्धर्म भद्रं ते वरं वरय चेप्सितम् ॥ ४ ॥
तदाऽब्रवीद्धर्मराजः पादः प्रपतितो मम ॥
प्रसादात्तव देवेश जायतां पुनरेव हि ॥ ५ ॥
एतल्लिंगं सुरश्रेष्ठ यन्मया निर्मितं तव ॥
एतद्ये भक्तिसंयुक्ताः पश्यंति प्राणिनो भुवि ॥ ६ ॥
तेषां तव प्रसादेन भूयात्पापविमोक्षणम् ॥ ७ ॥
एवं भविष्यतीत्युक्ता ह्यन्तर्धानं गतो हरः ॥
यमोऽपि लब्धपादस्तु पुनरेव दिवं ययौ ॥ ८ ॥
तस्मिन्दृष्टे सुरश्रेष्ठ यमलोकसमुद्भवम् ॥
न भयं विद्यते नृणामपि दुष्कृतकारिणाम् ॥ ॥ ९ ॥
भ्रातृद्वितीयासंयोगे स्नात्वा पुष्करिणीजले ॥
यमेश्वरसमीपस्थो यमेशमवलोकयेत् ॥ 7.1.146.१० ॥
तिलपात्रं प्रदातव्यं दीपं गाः कांचना दिकम् ॥
यमदेवं समुद्दिश्य मुच्यते सर्वपातकैः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥ ॥ छ ॥