स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चित्रादित्यमनुत्तमम् ॥
तस्यैव दक्षिणे भागे व्रह्मकुण्डसमीपतः ॥ १ ॥
महाप्रभावो देवेशि सर्वदारिद्र्यनाशनः ॥
मित्रो नाम पुरा देवि धर्मात्माऽभूद्धरातले ॥
कायस्थः सर्वभूतानां नित्यं भूतहिते रतः ॥ २ ॥
तस्यापत्यद्वयं जज्ञ ऋतुकालाभिगामिनः ॥
पुत्रः परमतेजस्वी चित्रोनाम वरानने ॥ ३ ॥
तथा चित्राऽभवत्कन्या रूपाढ्या शीलमंडना ॥ ४ ॥
आभ्यां तु जातमात्राभ्यां मित्रः पञ्चत्वमेयिवान् ॥
अथ तस्य वरा भार्या सह तेनाग्निमाविशत् ॥ ५ ॥
अथ तौ बालकौ दीनावृषिभिः परिपालितौ ॥
वृद्धिं गतौ महारण्ये बालावेव स्थितौ व्रते ॥ ६ ॥
प्रभासं क्षेत्रमासाद्य तपः परममास्थितौ ॥
प्रतिष्ठाप्य महा देवं भास्करं वारितस्करम् ॥ ७ ॥
पूजयामास धर्मात्मा धूपमाल्यानुलेपनैः ॥
वसिष्ठकथितैश्चैव ह्यष्टषष्टिसमन्वितैः ॥
नामभिः सूर्यदेवेशं तुष्टाव प्राञ्जलिः प्रभुम् ॥ ८ ॥
॥ चित्र उवाच ॥ ॥
प्रणम्य शिरसा देवं भास्करं गगनाधिपम् ॥
आदिदेवं जगन्नाथं पापघ्नं रोगनाशनम् ॥ ९ ॥।
सहस्राक्षं सहस्रांशुं सहस्रकिरणद्युतिम् ॥ 7.1.139.१० ॥
तमहं संस्तविष्यामि संपृक्तं गुह्यनामभिः ॥
मुंडीरस्वामिनं प्रातर्गंगासागरसंगमे ॥
कालप्रियं तु मध्याह्ने यमुनातीरमाश्रितम् ॥ ११ ॥
मूलस्थानं चास्तमने चन्द्रभागातटे स्थितम्॥
यत्र सांबः स्वयं सिद्ध उपवासपरायणः ॥१२॥
वाराणस्यां लोहिताक्षं गोभिलाक्षे बृहन्मुखम् ॥
प्रयागेषु प्रतिष्ठानं वृद्धादित्यं महाद्युतिम् ॥१३॥
कोट्यक्षे द्वादशादित्यं गंगादित्यं चतुर्घटे ॥
नैमिषे चैव गोघ्ने च भद्रं भद्रपुटे स्थितम् ॥१४॥
जयायां विजयादित्यं प्रभासे स्वर्णवेतसम् ॥
कुरुक्षेत्रे च सामंतं त्रिमंत्रं च इलावृते ॥१५॥
महेन्द्रे क्रमणादित्यमृणे सिद्धेश्वरं विदुः ॥
कौशांब्यां पद्मबोधं च ब्रह्मबाहौ दिवाकरम्॥१६॥
केदारे चण्डकांतिं च नित्ये च तिमिरापहम् ॥
गंगामार्गे शिवद्वारमादित्यं भूप्रदी पने ॥१७॥
हंसं सरस्वतीतीरे विश्वामित्रं पृथूदके ॥
उज्जयिन्यां नरद्वीपं सिद्धायाममलद्युतिम् ॥१८॥
सूर्यं कुन्तीकुमारे च पञ्चनद्यां विभावसुम् ॥।
मथुरायां विमलादित्यं संज्ञादित्यं तु संज्ञिके ॥ १९ ॥
श्रीकण्ठे चैव मार्तण्डं दशार्णे दशकं स्मृतम् ॥
गोधने गोपतिं देवं कर्णं चैव मरुस्थले ॥7.1.139.२०॥।
पुष्पं देवपुरे चैव केशवार्कं तु लोहिते ॥
वैदिशे चैव शार्दूलं शोणे वारुणवासिनम् ॥ २१ ॥
वर्धमाने च सांबाख्यं कामरूपे शुभंकरम् ॥
मिहिरं कान्यकुब्जे च मंदारं पुण्यवर्धने ॥ २२ ॥
गन्धारे क्षोभणादित्यं लंकायाममरद्युतिम् ॥
कर्णादित्यं च चंपायां प्रबोधे शुभदर्शिनम् ॥ २३ ॥
द्वारा वत्यां तु पार्वत्यं हिमवन्ते हिमापहम् ॥
महातेजं तु लौहित्ये अमलांगे च धूजटिम् ॥ २४ ॥
रोहिके तु कुमाराख्यं पद्मायां पद्मसंभवम्॥
धर्मादित्यं तु लाटायां मर्द्दके स्थविरं विदुः ॥ २५ ॥
सुखप्रदं तु कौबेर्यां कोसले गोपतिं तथा ॥
कौंकणे तु पद्मदेवं तापनं विन्ध्यपर्वते ॥ २६ ॥
त्वष्टारं चैव काश्मीरे चरित्रे रत्नसंभवम् ॥
पुष्करे हेमगर्भस्थं विद्यात्सूर्यं गभस्तिके ॥ २७ ॥
प्रकाशायां तु मुज्झालं तीर्थग्रामे प्रभाकरम् ॥
कांपिल्ये रिल्लकादित्यं धनके धनवासिनम् ॥२८॥
अनलं नर्मदातीरे सर्वत्र गमनाधिकम्॥
अष्टषष्टिं तु देवस्य भास्करस्यामितद्युतेः ॥ २९ ॥
प्रातरुत्थाय वै नित्यं शक्तिमाञ्छुचिमान्नरः ॥
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ 7.1.139.३० ॥
राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ॥
पुत्रार्थी लभते पुत्रान्सौख्यार्थी लभते सुखम् ॥ ३१ ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
यान्यान्प्रार्थयते कामांस्तांस्तान्प्राप्नोति मानवः ॥३२॥ ॥
॥ ईश्वर उवाच ॥ ॥
एवं च स्तुवतस्तस्य चित्रस्य विमलात्मनः ॥
ततस्तुष्टः सहस्रांशुः कालेन महता विभुः ॥ ३३ ॥
अब्रवीद्वत्स भद्रं ते वरं वरय सुव्रत ॥ ३४ ॥
सोऽब्रवीद्यदि मे तुष्टो भगवंस्तीक्ष्णदीधितेः ॥
प्रौढत्वं सर्वकार्येषु नय मां ज्ञानितां तथा ॥ ३५ ॥
तत्तथेति प्रति ज्ञातं सूर्येण वरवर्णिनि ॥
ततः सर्वज्ञतां प्राप्तश्चित्रो मित्रकुलोद्भवः ॥३६॥
तं ज्ञात्वा धर्मराजस्तु बुद्ध्या परमया युतम्॥
चिंतयामास मेधावी लेख कोऽयं भवेद्यदि ॥ ३७ ॥
ततो मे सर्वसिद्धिः स्यान्निर्वृतिश्च परा भवेत् ॥
एवं चिंतयतस्तस्य धर्मराजस्य भामिनि॥३८॥
अग्नितीर्थे गते चित्रे स्ना नार्थं लवणाम्भसि ॥
स तत्र प्रविशन्नेव नीतस्तु यमकिंकरैः ॥३९॥
सशरीरो महादेवि यमादेशपरायणैः ॥
स चित्रगुप्तनामाऽभूद्विश्वचारित्रलेखकः ॥ 7.1.139.४० ॥
चित्रादित्येतिनामाऽभूत्ततो लोके वरानने ॥ ४१ ॥
सप्तम्यां नियताहारो यस्तं पूजयते नरः ॥
सप्त जन्मानि दारिद्र्यं न दुःखं तस्य जायते ॥४२॥
तत्रैव चाश्वो दातव्यः सकोषं खड्गमेव च ॥
हिरण्यं चैव विप्राय एवं यात्राफलं लभेत् ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रादित्यमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥१३९॥।