स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लोमशेश्वरमुत्तमम् ॥
दुःखान्तकारिणीपूर्वे धनुषां सप्तके स्थितम् ॥ १ ॥
स्थापितं तत्र देवेशि लोमशेन महर्षिणा ॥
गुहामध्ये महालिंगं तपः कृत्वा सुदुश्चरम् ॥ २ ॥
कोटीनां त्रितयं सार्धमिंद्राद्याः स्वर्भुजः प्रिये ॥
यदा नाशं गमिष्यंति तदा तस्य क्षयो ध्रुवम् ॥ ३ ॥
यावंति देहरोमाणि इन्द्रास्तावन्त एव च ॥
क्रमादिन्द्रे विनष्टे तु तल्लोमपतनं भवेत् ॥ ४ ॥
एवमीशप्रसादेन चिरायुर्लोमशोऽभवत् ॥
ब्रह्माणः षड्विनश्यन्ति समग्रायुषि लोमशे ॥ ५ ॥
य एवं पूजयेद्भक्त्या तल्लिंगं लोमशार्चितम् ॥
सोऽपि दीर्घायुराप्नोति निर्व्याधिर्नीरुजः सुखी ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लोमशेश्वरमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ ॥ ॥ ॥ ॥