स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थिता देवि महाकालीति विश्रुता ॥
अधः स्थिते महापीठे पातालविवरान्विते ॥ १ ॥
सर्वदुःखप्रशमनी सर्वशत्रुक्षयंकरी ॥
पूजनीया विधानेन कृष्णाष्टम्यां महानिशि ॥
गन्धैः पुष्पैस्तथा धूपैः क्रव्यैर्बलिभिरेव च ॥ २ ॥
फलतृतीयां नारी च कुर्याद्वै तत्र भाविता ॥
वर्षमेकं सिते पक्षे देवीं पूज्य विधानतः ॥
फलानि ब्राह्मणे देयान्येव नूनं विधानतः ॥ ३ ॥
एतानि वर्जयेन्नक्ते ह्यन्नानि सुरसुन्दरि ॥
निष्पावा आढकी मुद्गा माषाश्चैव कुलित्थकाः॥४॥
मसूरा राजमाषाश्च गोधूमास्त्रिपुटास्तथा ॥
चणका वर्तला वापि मकुष्ठाश्चैवमादयः ॥ ५ ॥
न भक्ष्यास्तावत्ते देवि यावद्गौरीव्रतं चरेत् ॥
तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे ॥ ६ ॥
धनं धान्यं गृहे तस्या न कदाचित्क्षयं व्रजेत् ॥
दुःखिता दुर्भगा दीना सप्त जन्मानि नो भवेत् ॥ ७ ॥
महाकालीव्रतं प्रोक्तं देव्या माहात्म्यसंयुतम् ॥
कृतं पातकनाशाय सर्वकामसमृद्धये ॥ ८ ॥
एवं देवि समाख्यातं महाकालीमहोदयम् ॥
क्षेत्रपीठं महादेवि मन्त्रसिद्धिप्रदायकम् ॥ ९ ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तत्र जागृयात् ॥
पीठे पूजाबलिं दत्त्वा मन्त्रं कामं जपन्निशि ॥
सौम्यचित्तः समाप्नोति वांछितां सिद्धिमुत्तमाम् ॥ 7.1.133.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालीमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३३ ॥