स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ श्रीदेव्युवाच ॥ ॥
यदेतद्भवता प्रोक्तं नालेश्वरमिति श्रुतम् ॥
ध्रुवेश्वरेति तल्लिंगं कथं वै संबभूव ह ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि ध्रुवेश्वरमहोदयम् ॥
यच्छ्रुत्वा मानवो देवि मुच्यते भवबंधनात् ॥ २ ॥
उत्तानपादनृपतेः पुत्रोऽभूद्ध्रुवसंज्ञितः ॥
महात्मा ज्ञानसंपन्नः सर्वज्ञः प्रियदर्शनः ॥ ३ ॥
स कदाचित्समासाद्य प्रभासं क्षेत्रमुत्तमम् ॥
तताप विपुलं देवि तपः परमदारुणम् ॥ ४ ॥
दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम् ॥
संपूजयति सद्भक्त्या स्तौति स्तोत्रैः पृथग्विधैः ॥ ५ ॥
तत्स्तोत्रं ते प्रवक्ष्यामि येनाहं तुष्टिमागतः ॥ ६ ॥
॥ ध्रुव उवाच ॥ ॥
कैलासतुंगशिखरं प्रविकम्प्यमानं कैलासशृंगसदृशेन दशाननेन ॥
यः पादपद्मपरिपीडनया दधार तं शंकरं शरणदं शरणं व्रजामि ॥ ७ ॥
येनासुराश्चापि दनोश्च पुत्रा विद्याधरोरगगणैश्च वृताः समग्राः ॥
संयोजिता न तु फलं फलमूलमुक्तास्तं शंकरं शरणदं शरणं व्रजामि ॥ ८ ॥
यस्याखिलं जगदिदं वशवर्ति नित्यं योऽष्टाभिरेव तनुभिर्भुवनानि भुंक्ते ॥
यत्कारणं परमकारणकारणानां तं शंकरं शरणदं शरणं व्रजामि ॥९॥
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं च सहसैव पुरातिरुष्टः ॥
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि ॥7.1.131.१०॥।
यस्य प्रणम्य चरणौ वरदस्य भक्त्या श्रुत्वा च वाग्भिरमलाभिरतंद्रिताभिः ॥
दीप्तस्तमांसि नुदति स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि ॥ ॥ ११ ॥
यः पठेत्स्तवमिदं रुचिरार्थं मानवो ध्रुवकृतं नियतात्मा ॥
विप्रसंसदि सदा शुचिसिद्धः स प्रयाति शिवलोकमनादिम् ॥ १२ ॥
तस्यैवं स्तुवतो देवि तुष्टोऽहं भावितात्मनः ॥
पूर्णे वर्षसहस्रांते ध्रुवस्याह महात्मनः ॥ १३ ॥
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ॥
दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः ॥ १४ ॥
यच्च ते मनसा किञ्चित्कांक्षितं फलमुत्तमम् ॥
तत्सर्वं ते प्रदास्यामि ब्रूहि शीघ्रं ममाग्रतः ॥ १५ ॥
ब्राह्म्यं वा वैष्णवं शाक्रं पदमन्यत्सुदुर्लभम् ॥
ददामि नात्र संदेहो भक्त्या संप्रीणितस्तव ॥ १६ ॥
॥ ध्रुव उवाच ॥ ॥
ब्राह्म्यं वैष्णवं माहेन्द्रं पदमावृत्तिलक्षणम्॥
विदितं मम तत्सर्वं मनसाऽपि न कामये॥१७॥
यदि तुष्टोऽसि मे देव भक्तिं देहि सुनिर्मलाम्॥
अस्मिँल्लिंगे सदा वासं कुरु देव वृषध्वज॥१८॥
ईश्वर उवाच॥
इति यत्प्रार्थितं सर्वं तद्दत्तं सर्वमेव हि॥
स्थानं च तस्य तद्ध्रौव्यं तद्विष्णोः परमं पदम्॥१९॥
श्रावणस्य त्वमावास्यां यस्तल्लिंगं प्रपूजयेत् ॥
आश्वयुक्पौर्णमास्यां वा सोऽश्वमेधफलं लभेत् ॥ 7.1.131.२० ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ॥
हंसयुक्तविमानेन रुद्रलोके महीयते ॥ २१ ॥
असुरसुरगणानां पूजितस्य ध्रुवस्य कथयति कमनीयां कीर्तिमेतां शृणोति ॥
सकलसुखनिधानरुद्रलोकं सुशांतः सुरगणदनुनाथैरर्चितं यात्यनंतम् ॥ २२ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ध्रुवेश्वरमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरशततमो ऽध्यायः ॥१३१॥