सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३०

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं पाशुपतेश्वरम् ॥
उग्रसेनेश्वराद्देवि पूर्वभागे व्यवस्थितम् ॥ १ ॥
गोपादित्यात्तथाग्नेय्यां ध्रुवेशाद्दक्षिणां श्रितम् ॥
सर्वपापहरं देवि पूर्वभागे व्यवस्थितम् ॥ २ ॥
गोपादित्यात्तथा लिंगं दर्शनात्सर्वकामदम् ॥
अस्मिन्युगे समाख्यातं संतोषेश्वरसंज्ञितम् ॥ ३ ॥
संतुष्टो भगवान्यस्मात्तेषां तत्र तपस्विनाम् ॥
तेन संतोषनाम्ना तु प्रख्यातं धरणीतले ॥ ४ ॥
युगलिंगं महादेवि सिद्धिस्थानं महाप्रभम् ॥
स्थानं पाशुपतानां च भेषजं पापरोगिणाम् ॥ ५ ॥
चत्वारो मुनयः सिद्धास्तस्मिँल्लिंगे यशस्विनि॥
वामदेवस्तु सावर्णिरघोरः कपिलस्तथा॥
तस्मिँल्लिंगे तु संसिद्धा अनादीशे निरंजने॥६॥
तस्य देवस्य सामीप्ये वने श्रीमुखसंज्ञितम्॥
लक्ष्मीस्थानं महादेवि सिद्धयोगैस्तु सेवितम्॥७॥
तत्र पाशुपताः श्रेष्ठा मम लिंगार्चने रताः॥
तेषां चैव निवासार्थं तद्देव्या निर्मितं वनम् ॥ ८ ॥
तस्य मध्ये तु सुश्रोणि लिंगं पूर्वमुखं स्थितम् ॥
तस्मिन्पाशुपताः सिद्धा अघोराद्या महर्षयः ॥
अनेनैव शरीरेण गतास्ते शिवमन्दिरम् ॥ ९ ॥
तत्र प्राभासिके क्षेत्रे सुरसिद्धनिषेविते ॥
रोचते मे सदा वासस्तस्मिन्नायतने शुभे ॥
सर्वेषामेव स्थानानामतिरम्यमतिप्रियम् ॥ 7.1.130.१० ॥
तत्र पाशुपता देवि मम ध्यानपरायणाः ॥
मम पुत्रास्तु ते सर्वे ब्रह्मचर्येण संयुताः ॥ ११ ॥
दान्ताः शांता जितक्रोधा ब्राह्मणास्ते तपस्विनः ॥
तल्लिंगस्य प्रभावेन सिद्धिं ते परमां गताः ॥ १२ ॥
तस्मात्तं पूजयेन्नित्यं क्षेत्रवासी द्विजोत्तमः ॥ १३ ॥
॥ देव्युवाच ॥ ॥
भगवन्देवदेवेश संसारार्णवतारक ॥
प्रभासे तु महाक्षेत्रे त्वदीयव्रतचारिणाम् ॥ १४ ॥
स्थानं तेषां महत्पुण्यं योगं पाशुपतं तथा ॥
कथयस्व प्रसादेन लिंगमाहात्म्यमुत्तमम् ॥ १५ ॥
किमादिनाम देवस्य कथं पूज्यो नरोत्तमैः ॥
कथं पाशुपतास्तत्र सदेहाः स्वर्गमागताः ॥१६॥
एतत्कथय देवेश दयां कृत्वा मम प्रभो ॥ १७ ॥
॥ ईश्वर उवाच ॥ ॥
यस्त्वया पृछ्यते भद्रे योगः पाशुपतो महान् ॥
तेषां चैव प्रभावो यस्तथा लिंगस्य सुव्रते ॥ १८ ॥
अनादीशस्य देवस्य आदिनाम महाप्रभे ॥
तस्मिँल्लिंगे तु ये देवि मदीयव्रतमाश्रिताः ॥ १९ ॥
चिरं नियोगं सुश्रोणि व्रतं पाशुपतं महत् ॥
धारयंति यथोक्तं तु मम विस्मयकारकम् ॥
तेषामनुग्रहार्थाय मम चित्तं प्रधावति ॥ 7.1.130.२० ॥
॥ सूत उवाच ॥ ॥
हरस्य वचनं श्रुत्वा देवी विस्मयमागता ॥
उवाच वचनं विप्राः सर्वलोकपतिं पतिम् ॥ २१ ॥। ।
ममापि कौतुकं देव किमकार्षीत्ततो भवान् ॥
तद्ब्रूहि मे महादेव यद्यहं तव वल्लभा ॥ २२ ॥
तस्यास्तद्वचनं श्रुत्वा महादेवो जगाद ताम् ॥
शृणु देवि प्रवक्ष्यामि मम भक्तविचेष्टितम् ॥ २३ ॥
दृष्ट्वा चैव तपोनिष्ठां तेषामाद्यः सुरेश्वरः ॥
उवाच वचनं देवः प्रणतान्पार्श्वतः स्थितान् ॥ २४ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
गच्छ शीघ्रं नन्दिकेश यत्र ते मम पुत्रकाः ॥
चरंति च व्रतं घोरं मदीयं चातिदुष्करम् ॥ २५ ॥
तत्क्षेत्रस्य प्रभावेन भक्त्या च मम नित्यशः ॥
तेन ते मुनयः सिद्धाः स्वशरीरेण सुव्रताः ॥ २६ ॥
तस्मान्मद्वचनान्नन्दिन्गच्छ प्राभासिकं शुभम् ॥
आमन्त्रय त्वं तान्सर्वान्कैलासं शीघ्रमानय ॥ २७ ॥
इदं पद्मं गृहाण त्वं सनालं कलिकोज्ज्वलम् ॥
लिंगस्य मूर्ध्नि दत्त्वेदं पद्मनालमिहानय ॥ २८ ॥
मुक्तस्तदा स वै नन्दी देवदेवेन शंभुना ॥
कैलासनिलयात्तस्मात्प्रभासं क्षेत्रमागतः ॥ २९ ॥
दृष्ट्वा चैव पुनर्लिङ्गं देवदेवस्य शूलिनः ॥
दृष्ट्वा तांश्चैव योगीन्द्रान्परं विस्मयमागतः ॥ 7.1.130.३० ॥
केचिद्ध्यानरतास्तत्र केचिद्योगं समाश्रिताः ॥
केचिद्व्याख्यां प्रकुर्वन्ति विचारमपि चापरे ॥३१॥
कुर्वन्त्यन्ये लिंगपूजां प्रणामं च तथाऽपरे ॥
प्रदक्षिणं प्रकुर्वन्ति साष्टांगं प्रणमन्ति च ॥ ३२ ॥
केचित्स्तुतिं प्रकुर्वन्ति भावयज्ञैस्तथा परे ॥
केचित्पूजां च कुर्वन्ति अहिंसाकुसुमैः शुभैः ॥ ३३ ॥
भस्मस्नानं प्रकुर्वंति गण्डुकैः स्नापयन्ति च ॥
एवं व्याकुलतां यातं तपस्विगणमण्डलम् ॥ ३४ ॥
तत्तादृशमथालोक्य नन्दी विस्मयमागतः ॥
चिन्तयामास मनसा सर्वं तेषां निरीक्ष्य च ॥ ३५ ॥
आगतोऽहमिमं देशं न कश्चिन्मां निरीक्षते॥
न केनचिदहं पृष्टोऽभ्यागतः कुत्र कस्य च ॥ ३६ ॥
अहंकारावृताः सर्वे न वदन्ति च मां क्वचित् ॥
एवं मनसि संधाय लिंगपार्श्वमुपागतः ॥ ॥ ३७ ॥
दत्तं लिंगस्य तत्पद्मनालं छित्त्वा तु नन्दिना ॥
अर्चयित्वा तु तन्नन्दी लिंगं पाशुपतेश्वरम् ॥
नालं गृहीत्वा यत्नेन ऋषीन्वचनमब्रवीत् ॥ ३८ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
शासनाद्देवदेवस्य भवतां पार्श्वमागतः ॥
आज्ञापयति देवेशस्तपस्विगणमण्डलम् ॥ ३९ ॥।
युष्माभिस्तत्र गन्तव्यं यत्र देवः सनातनः ॥
युष्मान्सर्वान्समादाय गमिष्यामि भवालयम् ॥ 7.1.130.४० ॥
उत्तिष्ठताशु गच्छामः कैलासं पर्वतोत्तमम् ॥
तूष्णींभूतास्ततः सर्वे प्रोचुस्ते संज्ञया द्विजाः ॥
गम्यतामग्रतो नन्दिन्पश्चादेष्यामहे वयम् ॥ ४१ ॥
एवमुक्तस्तु मुनिभिर्नन्दी शीघ्रतरं गतः ॥
कथयामास तत्सर्वं कुपितेनान्तरात्मना ॥ ४२ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
देव तत्र गतोऽहं वै यत्र ते योगिनः स्थिताः ॥
सन्तोषितो न चैवाहं केनचित्तत्र संस्थितः ॥ ४३ ॥
न मां देव निरीक्षन्ते नालपंति कथंचन ॥
पद्मं तत्र मया देव स्थापितं लिंग मूर्धनि ॥ ४४ ॥।
उक्तं देव मया तेषां योगीन्द्राणां महेश्वर ॥
आज्ञप्ता देवदेवेन इहागच्छत मा चिरम् ॥ ४५ ॥
एतच्छ्रुत्वा वचः स्वामिन्सर्वे तत्र महर्षयः ॥
आगमिष्याम इति वै पृष्ठतो गच्छ मा चिरम् ॥ ४६ ॥
इत्युक्ते तैस्तथा देव अहं शीघ्रमिहागतः ॥
शृणु चेमं गृहाण त्वं यथेष्टं कुरु मे प्रभो ॥ ४७ ॥
एकं मे संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥
मया विना महादेव आगमिष्यंति ते कथम् ॥
संशयो मे महादेव कथयस्व महेश्वर ॥ ४८ ॥। ॥
॥ ईश्वर उवाच ॥ ॥
शृणु नंदिन्यथाश्चर्यं तेषां वै भावितात्मनाम् ॥
न दृश्यन्त इमे सिद्धा मां मुक्त्वाऽन्यैः सुरैरपि ॥४९॥
मद्भावभावितास्ते वै योगं विंदंति शांकरम् ॥
पश्यैतत्कौतुकं नंदिन्दर्शयामि तवाधुना ॥ 7.1.130.५० ॥
आनीतं यत्त्वया नालं तस्मिन्नाले तु सूक्ष्मवत् ॥
प्रविश्य चागताः सर्वे योगैश्वर्यबलेन च ॥५१॥
एवमुक्तस्तदा नंदी विस्मयोत्फुल्ललोचनः ॥
अपश्यन्नालमध्यस्थान्महर्षीन्परमाणुवत्॥५२॥
यथार्करश्मिमध्यस्था दृश्यन्ते परमाणवः ॥
एवं तन्नालमध्यस्था दृश्यंत ऋषयः पृथक् ॥ ५३ ॥
एवं दृष्ट्वा तदा नंदी विस्मयोत्फुल्ललोचनः ॥
आश्चर्यं परमं गत्वा किञ्चिन्नेवाब्रवीत्पुनः ॥ ५४ ॥
एवं तत्कौतुकं दृष्ट्वा देवी वचनमब्रवीत् ॥
किं दृश्यते महादेव हृष्टः कस्मान्महेश्वर ॥५५॥
इत्युक्ते वचने देव्या प्रोवाचेदं महेश्वरः॥ ॥५६॥
॥ ईश्वर उवाच ॥ ॥
योगयुक्ता महात्मानो योगे पाशुपते स्थिताः ॥
एते मां च समाराध्य प्रभासक्षेत्रवासिनम् ॥
ईदृशीं सिद्धिमापन्नाः स्वच्छंदगतिचारिणः॥ ५७ ॥
इत्युक्तवति देवेश ऋषयस्ते महाप्रभाः ॥
पद्मनालाद्विनिःसृत्य सर्वे वै योगमायया ॥
प्रदक्षिणां प्रकुर्वंति देवं देव्या बहिष्कृतम्॥ ५८ ॥
॥ देव्युवाच ॥ ॥
किमर्थं मां न पश्यंति दुराचारा इमे द्विजाः ॥
विस्मयोऽयं महादेव कथयस्व प्रसादतः ॥ ५९ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
प्रकृतित्वान्न पश्यंति सिद्धा ह्येते महातपाः ॥
एवमुक्ता तु गिरिजा देवेदेवेन शूलिना ॥ 7.1.130.६० ॥
चुकोप तेषां सुश्रोणी शशाप क्रोधितानना ॥
स्त्रीलौल्येन दुराचारा नाशमेष्यथ गर्विणः ॥ ६१ ॥
राजप्रतिग्रहासक्ता वृत्त्या देवार्चने रताः॥
भविष्यथ कलौ प्राप्ते लिंगद्रव्योपजीविनः ॥ ६२ ॥
वेश्यासक्ताश्च संभ्रांता सर्वलोकबहिष्कृताः ॥
देवद्रव्यविनाशाय भविष्यथ कलौ युगे ॥ ६३ ॥
इति दत्ते तदा शाप ऋषीणां च महात्मनाम् ॥
गौरीं प्रसादयामासुस्ते च सर्वे सुरेश्वराः ॥ ६४ ॥
देवदेवस्य वचनात्प्रसन्ना साऽभवत्पुनः ॥
नालं देवोऽपि संगृह्य दक्षिणाशां समाक्षिपत् ॥ ६५ ॥
पतितं तच्च वै नालं प्रभासक्षेत्रमध्यतः ॥
तदेव लिंगं संजातं महानालेति विश्रुतम् ॥ ६६ ॥
कलौ युगे च संप्राप्ते तद्ध्रुवेश्वरसंज्ञितम्॥
संस्थितं चोत्तरेशाने तस्मात्पाशुपतेश्वरात् ॥६७ ॥
पुराऽनादीशनामेति पश्चात्पाशुपतेश्वरः ॥
प्रभासे तु महाक्षेत्रे स्थितः पातकनाशनः ॥६८॥
इदं स्थानं परं श्रेष्ठं मम व्रतनिषेवणम् ॥
इदं लिंगं परं ब्रह्म अनादीशेति संज्ञितम् ॥ ६९॥
अत्र सिद्धिश्च मुक्तिश्च ब्राह्मणानां न संशयः ॥
अनेनैव शरीरेण षड्भिर्मासस्तु सिद्ध्यति ॥ 7.1.130.७० ॥
 संसारस्य विमोक्षार्थमिदं लिंगं तु दृश्यताम् ॥
दुर्लभं सर्वलोकानामिदं मोक्षप्रदं परम्॥
इदं पाशुपतं ज्ञानमस्मिँल्लिंगे प्रतिष्ठितम् ॥ ७१ ॥
यश्चैनं पूजयेद्भक्त्या माघे मासि निरंतरम् ॥
सर्वेषां वै क्रतूनां च दानानां लभते फलम् ॥ ७२ ॥
हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥ ७३ ॥
इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥
पशुपाशविमोक्षार्थं सम्यक्पाशुपतेश्वरम् ॥ ७४ ॥
चतुर्णामपि वर्णानां पूज्यो ब्राह्मण उच्यते ॥
तस्य चैवाधिकारोऽस्ति चास्मिन्पाशुपतेश्वरे ॥ ७५ ॥
यद्देवतानां प्रथमं पवित्रं विश्वव्रतं पाशुपतं बभूव ॥
अयं पन्था नैष्ठिको वै मयोक्तो येन देवा यांति भुवनानि विश्वा ॥ ७६ ॥
सुरां पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्राह्मणं चापि हत्वा ॥
भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ ७७ ॥
अग्निरित्यादिना भस्म गृहीत्वांगानि संस्पृशेत् ॥
गृह्णीयात्संयते चाग्नौ भस्म तद्गृहवासिनाम् ॥ ७८ ॥
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म सर्वं ह वा इदं भस्माभवत् ॥
एतानि चक्षूंषि नादीक्षितः संस्पृशेत् ॥ ७९ ॥
ब्राह्मणैश्च समादेयं न तु शूद्रैः कदाचन ॥
नाधिकारोऽस्ति शूद्रस्य व्रते पाशुपते सदा ॥ 7.1.130.८० ॥
ब्राह्मणेष्वधिकारोऽस्ति व्रते पाशुपते शुभे ॥
ब्राह्मणीं तनुमास्थाय संभवामि युगेयुगे ॥ ८१ ॥
चण्डालवेश्मन्यथ वा स्मशाने राज्ञश्च मार्गेश्वथ वर्त्ममध्ये ॥
करीषमध्ये निःसृता नराधमाः शैवं पदं यांति न संशयोऽत्र ॥ ८२ ॥
इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पाशुपतेश्वरमाहात्म्यवर्णनंनाम त्रिंशदुत्तरशततमोध्यायः ॥ १३० ॥