सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अक्षमालेश्वरं परम् ॥
सागरार्कादीशकोणे पंचाशद्धनुषान्तरे ॥ १ ॥
संस्थितं पापशमनं युगलिंगं महाप्रभम् ॥
अक्षमालेश्वरंनाम पुरा तस्य प्रकीर्तितम् ॥
उग्रसेनेश्वरं नाम ख्यातं तस्यैव साम्प्रतम् ॥ २॥
॥ देव्युवाच ॥ ॥
अक्षमालेश्वरं नाम यत्पूर्वं समुदाहृतम् ॥
कथं तदभवद्देव कथयस्व प्रसादतः ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
आसीत्पुरा महादेवि सती चाध मयोनिजा ॥
अक्षमालेति वै नाम्ना सतीधर्मपरायणा ॥ ४ ॥
कदाचित्समनुप्राप्ते दुर्भिक्षे कालपर्ययात् ॥
ऋषयश्च महादेवि क्षुधाक्रान्ता विचेतसः ॥ ५ ॥
सर्वे चान्नं परीप्संतो गताश्चण्डालवेश्मनि ॥
ज्ञात्वान्नसंग्रहं तस्य प्रार्थयाञ्चक्रुरन्त्यजम् ॥ ६ ॥
भोभोऽन्त्यज महाबुद्धे रक्षास्मानन्नदानतः ॥
प्राणसंदेहमापन्नान्कृशांगान्क्षुत्प्रपीडितान् ॥ ७ ॥
अहो धन्योऽसि पूज्योऽसि न त्वमन्त्यज उच्यसे ॥
यदस्मिन्प्रलये याते स्थितं धान्यं गृहे तव ॥ ८ ॥
अनावृष्टिहते देशे सस्ये च प्रलयं गते ॥
एकं यो भोजयेद्विप्रं कोटिर्भवति भोजिता ॥ ९ ॥
॥ अन्त्यज उवाच ॥
अहो आश्चर्यमतुलं यदेतद्दृश्यतेऽधुना ॥
यदेतन्मद्गृहं प्राप्ता ऋषयश्चान्नकांक्षिणः ॥ 7.1.129.१० ॥
शूद्रान्नमपि नादेयं ब्राह्मणैः किमुतान्त्यजात् ॥ ११ ॥
आमं वा यदि वा पक्वं शूद्रान्नं यस्तु भक्षति ॥
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ १२ ॥
अमृतं बाह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ॥
वैश्यान्नमन्नमित्याहुः शूद्रान्नं रुधिरं स्मृतम् ॥ १३ ॥
शूद्रान्नं शूद्रसंपर्कं शूद्रेण च सहासनम् ॥
शूद्रादन्नागमश्चैव ज्वलंतमपि पातयेत् ॥ १४ ॥
अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते ॥
एते तस्य प्रणश्यंति आत्मा ब्रह्म त्रयोऽग्नयः ॥ १५ ॥
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
षण्मासाभ्यन्तरे विप्रः पिशाचः सोऽभिजायते ॥ १६ ॥
शूद्रान्नेन द्विजो यस्तु अग्निहोत्रं जुहोति च ॥
चण्डालो जायते प्रेत्य शूद्राच्चैवेह दैवतः ॥ १७ ॥
यस्तु भुञ्जति शूद्रान्नं मासमेकं निरन्तरम्॥
इह जन्मनि शूद्रत्वं मृतः शूद्रोऽभिजायते ॥ १८ ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्॥
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ १९ ॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ 7.1.129.२० ॥
पूयं चिकित्सकस्यान्नं पुंश्चल्याश्चान्नमिन्द्रियम्॥
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ २१ ॥
सहस्रकृत्वस्त्वेतेषामन्ने यद्भक्षिते भवेत् ॥
तदेकवारं भुक्तेन कन्याविक्रयिणो भवेत् ॥ २२ ॥
सहस्रकृत्वस्तस्यैव भुक्तेऽन्ने यत्फलं भवेत् ॥
तदन्त्यजानामन्नेन सकृद्भुक्तेन वै भवेत् ॥ २३ ॥
तत्कथं मम विप्रेन्द्राश्चंडालस्याधमात्मनः ॥
धर्ममेवं विजानन्तो नूनमन्नं जिहीर्षथ ॥ २४ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
जीवितात्ययमापन्नो योऽन्नमाद्रियते ततः ॥
आकाश इव पंकेन न स पापेन लिप्यते ॥ २५ ॥
अजीगर्तः सुतं हंतुमुपसर्पन्बुभुक्षितः ॥
न चालिप्यत पापेन क्षुत्प्रतीघातमाचरन् ॥ २६ ॥
भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ॥
बह्वीर्गा उपजग्राह बृहज्ज्योतिर्महामनाः ॥ २७ ॥
क्षुधार्तो गीतमभ्यागाद्विश्वामित्रः श्वजाघनीम् ॥
चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ २८ ॥
श्वमांसमिच्छन्नर्तौ तु धर्मान्न च्ययते स्म सः ॥
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ २९ ॥
एवं ज्ञात्वा धर्मबुद्धे सांप्रतं मा विचारय ॥
ददस्वान्नं ददस्वान्नमस्माकमिह याचताम्॥ 7.1.129.३० ॥
॥ चंडाल उवाच ॥ ॥
यद्येवं भवतां कार्यमिदमंगीकृतं धुवम्॥
तदियं मत्सुता कन्या भवद्भिः परिगृह्यताम् ॥ ३१ ॥
भवतां योग्रणीर्ज्येष्ठः स चेमामुद्वहेद्ध्रुवम् ॥
दास्ये वर्षाशनं पश्चादीप्सितं भवतां द्विजाः ॥ ३२ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता ऋषयो देवि लज्जयाऽऽनतकन्धराः ॥
प्रत्यालोच्य यथान्यायं वसिष्ठं समनूद्वहन्॥ ३३ ॥
वसिष्ठोऽपि समाख्याय आपद्धर्मं महामनाः ॥
कालस्यानन्तरप्रेक्षी प्रोद्ववाहाऽन्त्यजाङ्गनाम् ॥
अक्षमालेति वै नाम्नीं प्रसिद्धा भुवनत्रये ॥ ३४ ॥
यदा स्वकीयतेजोभिरर्कबिंबमरुन्धत ॥
अरुंधती तदा जाता देवदानव वंदिता ॥ ३५ ॥
यादृशेन तु भर्त्रा स्त्री संयुज्येत यथाविधि ॥
सा तादृगेव भवति समुद्रेणेव निम्नगा ॥ ३६ ॥
अक्षमाला वसिष्ठेन संयुक्ताऽधम योनिजा ॥
शार्ङ्गीव मन्दपालेन जगाम ह्यर्हणीयताम् ॥ ३७ ॥
एवं कालक्रमेणैव प्रभासं क्षेत्रमागताः ॥
सप्तर्षयो महात्मानो ह्यरुंधत्या समन्विताः ॥ ३८ ॥
तीर्थानि प्रेषयामासुः सर्वसिद्धिप्रदानि ताम् ॥ ३९ ॥
एषामन्वेषमाणानां तव देवी ह्यरुंधती॥
अपश्यल्लिंगमेकं तु वृक्षजालांतरे स्थितम् ॥ 7.1.129.४० ॥
तं दृष्ट्वा देवदेवेशमेवं जातिस्मराऽभवत् ॥
पूर्वस्मिञ्जन्मनि मया रजोभावांतरस्थया ॥ ४१ ॥
अज्ञानभावाद्देवेशो नूनं चात्रार्चितः। शिवः ॥
तस्मात्कर्मफलं प्राप्तमन्त्यजत्वं द्विजन्मना ॥ ४२॥
कस्तेन सदृशो देवः शंभुना भुवनत्रये ॥
राज्यं नियमिनामेवं यो रुष्टोऽपि प्रयच्छति ॥ ४३ ॥
इति संचिंत्य मनसा तत्रैव निरताऽभवत् ॥
पूजयामास तल्लिंगं दिव्याब्दानां शतं प्रिये ॥ ४४ ॥
एवं तस्य प्रभावेन दृश्यते गगनांतरे ॥
अरुंधती सती ह्येषा दृष्टा दुष्कृतनाशिनी ॥ ४५ ॥
अक्षमालेश्वरस्त्वेवं यथावत्कथितस्तव ॥
ततस्तु द्वापरस्यान्ते कलौ संध्यांशके गते ॥ ४६ ॥।
अंधासुरसुतश्चासीदुग्रसेन इति श्रुतः ॥
स प्रभासं समासाद्य पुत्रार्थं लिंगमेयिवान् ॥ ४७ ॥
अक्षमालेश्वरं नाम ज्ञात्वा माहात्म्यमद्भुतम् ॥
समाराध्य महादेवं नव वर्षाणि पंच च ॥
संप्राप्तवांस्तदा पुत्रं कंसासुरमिति श्रुतम् ॥ ४८ ॥
तत्कालान्तरमारभ्य उग्रसेनेश्वरोऽभवत् ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥ ४९ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
महान्ति पातकान्याहुर्नश्यंति तस्य दर्शनात् ॥ 7.1.129.५० ॥
तत्रैव ऋषिपञ्चम्यां प्राप्ते भाद्रपदे शुभे ॥
अक्षमालेश्वरं पूज्य मुच्यते नारकाद्भयात् ॥ ५१ ॥
गोप्रदानं प्रशंसंति तत्रान्नमुदकं तथा ॥
सर्वपापविनाशाय प्रेत्यानंतसुखाय च ॥ ५२ ॥
इति ते कथितं देवि ह्यक्षमालेश्वरोद्भवम् ॥
माहात्म्यं पापशमनं श्रुतं दुःखनिबर्हणम् ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उग्रसेनेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥