स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेमेश्वरमनुत्तमम् ॥
तस्मादुत्तरकोणस्थं कपालेशाग्निगोचरे ॥ १ ॥
धनुषां पंचदशके कपालेश्वरतः स्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥ २ ॥
क्षेममूर्तिः पुरा राजा बभूव स महाबलः ॥
तेन तत्र तपस्तप्तं चिरकालं महात्मना ॥ ॥ ३ ॥
ततः संस्थापितं लिंगं भक्त्या भावितचेतसा ॥
तद्दृष्ट्वा क्षेममायाति कार्यं क्षेमेण सिद्ध्यति ॥ ४ ॥
सर्वकामसमृद्धात्मा भूया ज्जन्मनिजन्मनि ॥
एवं क्षेमेश्वरं लिंगं ख्यातं पातकनाशनम् ॥ ५ ॥
सर्वकामप्रदं नृणां श्रुतं सौभाग्यदायकम् ॥
दर्शनेनापि तस्यापि गोशतस्य फलं स्मृतम् ॥ ६ ॥
तस्मात्क्षेत्रफलाकांक्षी नित्यं तल्लिंगमाश्रयेत् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमंकरेश्वरमाहात्म्यवर्णनंनाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥