स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रावणेश्वरमुत्तमम् ॥
तस्माद्दक्षिणनैर्ऋत्ये धनुषां षोडशे स्थितम् ॥ १ ॥
प्रतिष्ठितं दशास्येन सर्वपातकनाशनम् ॥
पौलस्त्यो रावणो देवि राक्षसस्तु सुदारुणः ॥ २ ॥
त्रैलोक्यविजयाकाङ्क्षी पुष्पकेण चचार ह ॥
कस्यचित्त्वथ कालस्य विमानं तस्य पुष्पकम्॥ ३॥।
व्रजद्वै व्योममार्गेण निश्चलं सहसाऽभवत् ॥
स्तंभितं पुष्पकं दृष्ट्वा रावणो विस्मयान्वितः ॥ ४ ॥
प्रहस्तं प्रेषयामास किमिदं व्रज मेदिनीम् ॥
अहताऽस्य गतिर्यस्मात्त्रैलोक्ये सचराचरे ॥ ५ ॥
तत्कस्मान्निश्चलं जातं विमानं पुष्पकं मम ॥
अथाऽसौ सत्वरो देवि जगाम वसुधातले ॥ ६ ॥
अपश्यद्देवदेवेशं श्रीसोमेशं महाप्रभम् ॥
स्तूयमानं सुरगणैः शतशोऽथ सहस्रशः ॥ ७ ॥
तं दृष्ट्वा राक्षसे न्द्राय तत्सर्वं विस्तरात्प्रिये ॥
प्रहस्तः कथयामास यद्दृष्टं क्षेत्रमध्यतः ॥ ८ ॥
॥ प्रहस्त उवाच ॥ ॥
राक्षसेश महाबाहो शिवक्षेत्रं निजं प्रभो ॥
प्रभासेति समाख्यातं गणगन्धर्वसेवितम् ॥ ९ ॥
तत्र सोमेश्वरो देवः स्वयं तिष्ठति शङ्करः ॥
अब्भक्षैर्वायुभक्षैश्च दंतोलूखलिभिस्तथा ॥
ऋषिभिर्वालखिल्यैश्च पूज्यमानः समंततः ॥ 7.1.123.१० ॥
प्रभावात्तस्य देवस्य नेदं गच्छति पुष्पकम् ॥
न स प्रालंघ्यते देवो ह्यलंघ्यो यः सुरासुरैः ॥ ११ ॥
॥ ईश्वर उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ॥
अवतीर्य धरापृष्ठं सोमेशं समपश्यत ॥ १२ ॥
पूजयामास देवेशि भक्त्या परमया युतः ॥
रत्नैर्बहुविधैर्वस्त्रैर्गन्धपुष्पानुलेपनैः ॥ १३ ॥
अथ पौरजना दृष्ट्वा रावणं राक्षसेश्वरम् ॥
सर्वदिक्षु वरारोहे भयाद्भीताः प्रदुद्रुवुः ॥ १४ ॥
शून्यं समभवत्सर्वं तत्र देवो व्यवस्थितः ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥ १५ ॥
दशग्रीव महाबाहो अयने चोत्तरे तथा ॥
यात्राकाले तु देवस्य सर्वपापप्रणाशने ॥ १६ ॥
दूरतः समनुप्राप्ता भूरिलोका द्विजातयः ॥
राक्षसानां भयाद्भीताः प्रयांति हि दिशो दश ॥ १७ ॥
भयान्मा त्वं राक्षसेन्द्र यात्राविघ्नकरो भव ॥
बाल्ये वयसि यत्पापं वार्द्धक्ये यौवनेऽपि च ॥
तत्सर्वं क्षालयेन्मर्त्यो दृष्ट्वा सोमेश्वरं प्रभुम् ॥ १८ ॥
ततोऽसौ राक्षसेन्द्रस्तु गत्वैकान्ते सुगह्वरे ॥
लिंगं च स्थापयामास भक्त्या परमया युतः ॥ १९ ॥
ततस्तन्निरतो भूत्वा सर्वैस्तै राक्षसेश्वरः ॥
पूजयामास देवेशि उपवासपरायणः ॥ 7.1.123.२० ॥
चकार पुरतस्तस्य गीतवाद्येन जागरम् ॥
ततोऽर्धरात्रसमये वागुवाचाशरीरिणी ॥ २१ ॥
दशग्रीव महाबाहो परितुष्टोऽस्मि तेऽनघ ॥
मम प्रसादात्त्रैलोक्यं वशगं ते भविष्यति ॥
अत्र संनिहितो नित्यं स्थास्याम्यहमसंशयम् ॥ ॥ २२ ॥
ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥
अजेयास्ते भविष्यंति शत्रूणां राक्षसेश्वर ॥ २३ ॥
यास्यंति परमां सिद्धिं मत्प्रसादादसंशयम् ॥
एवमुक्त्वा वरारोहे विरराम वृषध्वजः ॥ २४ ॥
रावणोऽपि स संतुष्टो भूयोभूयो महेश्वरम् ॥
पूजयित्वा च तल्लिंगं समारुह्य च पुष्पकम् ॥
त्रैलोक्यविजयाकांक्षी इष्टं देशं जगाम ह ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रावणेश्वरमाहात्म्यवर्णनंनाम त्रयोर्विशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥