स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं सौभाग्यकारिणीम् ॥
कुण्डेश्वरीति विख्यातां पुष्कराद्वायुगोचरे ॥ १ ॥
धनुषां त्रिंशता देवि भूतनाथाच्च नैर्ऋते ॥
संस्थिता पापदमनी दारिद्र्यौघविनाशिनी ॥ २ ॥
तस्या नैर्ऋतदिग्भागे धनुःपञ्चदशे स्थितम् ॥
शंखोदकंनाम कुण्डं सर्वपातकनाशनम् ॥ ३ ॥
तत्र स्नात्वा तु ये मर्त्या नारी वा शुभवारिणि ॥
पूजयेत्तां महादेवि शंखावर्तेति विश्रुताम् ॥ ४ ॥
कलौ कुण्डेश्वरीनाम सर्वसौख्यप्रदायिनी ॥
शंखो नाम पुरा देवि विष्णुना निहतः प्रिये ॥ ५ ॥
तस्य देहं समादाय महान्तं शंखरूपिणम् ॥
तीर्थोदकेन संपूर्य प्रभासं क्षेत्रमागतः ॥ ६ ॥
तत्र शंखं तु प्रक्षाल्य कृतं तीर्थं महाप्रभम् ॥
तत्र पूरितवाञ्छङ्खं मेघगम्भीरनिस्वनम् ॥७ ॥
तस्य नादेन महता देवी तत्र समागता ॥
पृच्छती कारणं तत्र तत्कुण्डस्य समीपगा ॥
तेन कुण्डेश्वरी ख्याता कुण्डं शंखोदकं स्मृतम् ॥ ८ ॥
माघे मासि तृतीयायां यस्तां पूजयते नरः ॥
नारी वा भक्तिसंयुक्ता स गौरीपदमाप्नुयात् ॥ ९ ॥
दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥
कञ्चुकं फलदानं च गौरिणीनां च भोजनम् ॥ 7.1.116.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ११६ ॥ ॥