स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लक्ष्मणेश्वरमुत्तमम् ॥
रामेशात्पूर्वदिग्भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
स्थापितं लक्ष्मणेनैव तत्र यात्रागतेन वै ॥
महापापहरं देवि तल्लिंगं सुरपूजितम् ॥ २ ॥
यस्तं पूजयते भक्त्या नृत्यगीतादिवादनैः ॥
होमजाप्यैः समाधिस्थः स याति परमां गतिम् ॥ ३ ॥
अन्नोदकं हिरण्यं च तत्र देयं द्विजातये ॥
संपूज्य देवदेवेशं गंधपुष्पादिभिः क्रमात् ॥ ॥ ४ ॥
माघे कृष्णचतुर्दश्यां विशेषस्तत्र पूजने ॥
स्नानं दानं जपस्तत्र भवेदक्षयकारकम् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्ये लक्ष्मणेश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरशततमो ऽध्यायः ॥ ११२ ॥